________________
२०६
बृहत्कल्प-छेदसूत्रम् -२-१/४४
वृ- न केवलमध्वनि विविक्तानामेष विधि, किन्तु ग्रामादौवसिमेऽपि वसतांयत्रोपधिरग्निकार्यन 'ध्यामितः' दग्धः, अवमौदर्ये वा विक्रीतः, चौरैर्वा हृतः, वर्षासु वा पानीयपूरेण व्यूढः, 'परिजीर्णो वा' पुराणतया दुर्बलीभूतो विवक्षितं कार्यं कर्त्तुमसमर्थ, तत्रापि 'एवमेव ' अनन्तरोक्तो विधिर्मन्तव्यः । अत्र चापरो विशेष उपदर्श्यते यत्र ग्रामे साधवः स्थिता सन्ति तत्र सार्थ कश्चित् प्राप्तः, चादित्योदयात् पूर्वमेवोत्थितः उच्चलितुमारब्धो वर्त्तते, यत्र च गतस्य तस्य रविरुदेष्यति तत्र गच्छतामपान्तराले स्तेनभयम्, “समइच्छंता व ते वा वि" त्ति 'ते वा' साधवो दग्ध-हृताद्युपधयः समतिक्रामन्तः- गच्छन्तः तं सार्थं रात्रौ प्राप्तः, अतो रात्रावेव तत्र वस्त्रादिकं यतनया गृह्णन्ति ॥
स
अथेदमेवोत्तरार्द्ध व्याचष्टे
[भा. ३०००] सो वि य नत्तं पत्तो, नत्तं चिय चलिउमिच्छइ भयं च । ते वा नत्तं पत्ता, गिण्हिज्ज पए चलिउकामा ॥
वृ-‘सोऽपिच' सार्थ 'नक्तं' रात्रौ तत्र ग्रामे प्राप्तः, नक्तमेव च ततश्चलितुमिच्छति, अपान्तराले चस्तेनादिभयम्; 'ते वा' साधवो दग्धाद्युपद्ययः तं सार्थं 'नक्तं' रात्रौ प्राप्तः, 'प्रगे' प्रभातेऽनुद्गत एव सूर्येऽग्रतश्चलितुकामाः, अतो रात्रावेव यथोक्तनीत्या वस्त्रादि गृह्णीयुः ॥
मू. (४५) नऽन्नत्थ एगाए हरियाहडियाए । सा वि य परिभुत्ता वा धोया वा रत्ता वा घट्टा वा मट्ठा वा संपधूमिया वा ॥ [भा. ३००१]
सुत्तेणेवय जोगो, हरियाहडि कप्पए निसिं घेत्तुं । हरिऊण य आहडिया, छूढा हरिएसु वाऽऽहट्टु ॥
वृ- 'सूत्रेणैव' सूत्रस्य 'योगः' सम्बन्धोऽत्रास्ति । अनन्तरसूत्रे रात्रौ वस्त्रादिकं ग्रहीतुं न कल्पते इत्युक्तम् । अत्र तु या हृताहृतिका 'निशि' रात्रौ ग्रहीतुं कल्पते इति प्रतिपाद्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या- "न कल्पते रात्रौ वस्त्रं ग्रहीतुम्" इति प्रतिषेधः अन्यत्रैकस्या हृताहृतिकाया हरिताहतिकाया वा । तत्र पूर्वं हृतं पश्चादाहृतम् - आनीतं वस्त्रं हताहतम्, तदेव हताहतिका, स्वार्थे कप्रत्ययः, “अतिवर्त्तन्ते स्वार्थिकप्रत्ययाः प्रकृति- लिङ्ग-वचनानि" इति वचनाद् अत्र रुढितः स्त्रीलिङ्गनिर्देशः । एवं हरितेष-वनस्पतिष्वाहृतं हरिताहृतं वस्त्रम्, तदेव हरिताहृतिका । 'साऽपि च' हृताहृतिका 'परिभुक्ता' परिधानादौ व्यापारिता, 'धौता' अप्कायेन प्रक्षालिता, ‘रक्ता’विचित्रवर्णकैरुपरञ्चिता, 'घृष्टा' घट्टकादिना घट्टिता, 'मृष्टा' सुकुमारीकृता, 'सम्प्रधूमिता' धूपद्रव्येण समन्ततः प्रकर्षेण धूपिता । वाशब्दाः सर्वेऽपि विकल्पार्था । एवंविधाऽपि सा स्वीकर्तव्या, न पुनरसाधुप्रायोग्या कृतेति कृत्वा परिहर्त्तव्येति सूत्रार्थः । अथ भाष्यम् - "हरिऊणय” इत्यादि पश्चार्द्धम् । स्तेनैः पुर्वं ह्रत्वा पश्चाद् यद् वस्त्रमाहृतम्-आनीतं तदेव हृताहृतिकेत्युच्यते । यद्वा हत्वा हरितेषु प्रक्षिप्ता या सा हरिताहृतिका ॥ सा पुनः कथं भवति ? इत्याह
[भा.३००२] अद्धाणमनद्धाने, व त्रिवित्तानं तु होज्ज आहडिया ।
अविहे वसंति खेमे, विहं न गच्छे सइ गुणेसु ॥
वृ- अध्वनि अनध्वनि वा 'विविक्तानां' मुषितानां हताहतिका सम्भवति । तत्र 'अविहे ' अनध्वनि मासकल्पेन विहरन्तः 'क्षेमे' निरुपद्रवे ग्रामादौ वसन्ति । अंतः 'सत्सु' विद्यमानेषु ज्ञानादिगुणेषु 'विहम्' अध्वानं 'न गच्छेत्' नानुप्रविशेत् ॥ तथा चाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org