________________
,
उद्देशक : १, मूलं-४४, [भा. २९९४]
२०५
दयोऽभिनवेऽपरिभुक्ते च वस्त्रे न भवन्ति । अथ पार्श्वस्थादिष्वपि न प्राप्यते ततोऽमनोज्ञसंयतीनामप्युपदेशेन गृह्णाति तेषां वा अर्थाय ताः पर्यटन्ति, पूर्वगृहीतं वा तासां ग्रहीतव्यम् । तदभावेऽसंविग्नसंयतीनामप्युपदेशादिना गृह्णन्ति ।।
अथैवमपि न प्राप्यते ततः किं कर्त्तव्यम् ? इत्याह[भा. २९९५ ]
असईय लिंगकरणं, पन्नवणट्ठा सयं व गहणट्ठा । आगाढे कारणम्मी, जहेव हंसाइणो गहणं ॥
वृ- एवमपि 'असति' अलभ्यमाने शाक्यादिवेषेण तदीयोपासकानां यतिभ्यो वस्त्रदापनाय प्रज्ञापनार्थं स्वयं वा ग्रहणं-वस्त्रस्योत्पादनं तदर्थं परलिङ्गं कर्त्तव्यम् । किं बहुना ? ईशे आगाढे कारणे यथैव हंसतैलादरनुज्ञापितस्यापि ग्रहणं दृष्टं तथैव वस्त्रस्यापि द्रष्टव्यम् । तथाप्यलाभे सूत्रं मार्गयित्वाऽन्यैर्वाययति । तदभावे स्वयमेवाल्पसागारिके वयति ॥
अथ सूत्रं न लभ्यते ततः को विधि ? इत्याह
[भा. २९९६ ]
सेडय रूए पिंजिय, पेलु ग्गहणे य लहुग दप्पेणं । तव कालेहि विसिट्ठा, कारणे अकमेण ते चेव ॥
वृ- 'सेडुगो नाम' कर्पासः, स एव लोढितः सन् बीजरहितो रूतम्, तदेव रूतं पिञ्जनिकया ताडितं पिचितम्, तदेव पूणिकया वलितं पेलुरिति भण्यते । एतेषां यदि दर्पेण ग्रहणं करोति तदा चत्वारो लघुकास्तपः-कालाभ्यां विशिष्टाः । तत्र सेडुके उभयगुरुकाः, रूते तपोगुरुकाः, पिजिते कालगुरुकाः, पेलुके द्वाभ्यां लघुकाः । कारणे पुनः प्रथमं पेलुकं पश्चात् पिचितं ततो रूतं ततः सेडुकमपि गृह्णाति । अथाक्रमेण गृह्णाति ततस्त एव चत्वारो लघुकाः । सेडुकं च त्रिवर्षातीतं विध्वस्तयोनिकमेव ग्रहीतुं कल्पते न सचित्तम् ।। ततश्च सेडुकादीनि गृहीत्वा किं करोति ? इत्याह[भा. २९९७] कडजोगि एक्कओ वा, वसईए नालबद्धसहिओ वा । निप्फाए उवगरणं, उभओपक्खस्स पाओग्गं ॥
वृ- कृतयोगी नाम-यो गृहवासे कर्त्तनं वयनं वा कृतवान् । स गच्छस्य वस्त्राभावे एकको वा नालबद्धसंयतीसहितो वा विजने भूभागे कर्त्तनं वयनंच कृत्वा 'उभयपक्षस्य 'संयत-संयतीलक्षणस्य प्रायोग्यमुपकरणं निष्पादयति । ततः संयताः संयत्यश्च यथायोगमुपकरणं परिभुञ्जते ॥ ततः किम् ? इत्याह
[भा.२९९८] अगीयत्थेसु विगिंचे, जहलाभं सुलभउवहिखेत्तेसु ।
पच्छित्तं च वहंति, अलंभे तं चेव धारेंति ।।
वृ- यद्यगीतार्थमिश्रास्ततः सुलभोपधिक्षेत्रेषु गताः सन्तः 'यथालाभं' यद् यद् वस्त्रं लभन्ते तत्तत्सदृशमपरं व्यूतवस्त्रं 'विविचन्ति' परिष्ठापयन्तीत्यर्थः, अगीतार्थप्रत्ययनिमित्तं च यथालघु प्रायश्चित्तं वहन्ति । अथापरं न लभ्यते ततः 'तदेव' स्वयंव्यूतं वस्त्रं वस्त्रं धारयन्ति । अथ सर्वेऽपि गीतार्थास्ततोऽपरस्य लाभे प्राक्तनं परित्यजन्ति वा न वा, न कोऽपि नियमः ॥ अथ “अद्धाणनिग्गयाई” इत्यत्र योऽयमादिशब्दस्तस्य फलमुपदर्शयन्नाह[भा. २९९९] एमेव य वसिमम्मि वि, झामिय ओम हिय वृढ परिजुने । पुव्वुट्ठिएव सत्थे, समइच्छंता व ते वा वि ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org