________________
बृहत्कल्प-छेदसूत्रम् -२-१/४४
वृ- असंविग्नभावितेषु यद् उद्गमादिदोषविशुद्धं वस्त्रं तद् ग्रहीतव्यम् । तदभावे आगाढमिध्यादृष्टिष्वपि यद्यात्म-प्रवचनोपघातो न स्यात् । अथ तेष्वपि शुद्धं न प्राप्यते ततः संविग्नभावितादिष्वेव पञ्चकादिपरिहाण्या तावद् यतन्ते यावद् भिन्नमासं प्राप्ता भवन्ति । ततो अन्यसाम्भोगिकैर्येषु कुलेषूपदेशो दत्तः तेषु याचितव्यम् । तथाप्यप्राप्तौ तेषां सङ्घाटकेन । एवमप्यलाभे तेषामेव यत् पूर्वगृहीतं वस्त्रादि तद् ग्रहीतव्यम् ॥ अमुमेवार्थं सविशेषज्ञापनाय पुनरप्याह[भा. २९९२] उवएसो संघाडग, तेसिं अट्ठाए पुव्वगहियं तु । अभिनव पुराण सुद्धं, उत्तर मूले सयं वा वि ।।
वृ- अन्यसाम्भोगिकोपदेशेन प्रथमतः प्रयटन्ति । ततस्तदीयसङ्घाटकेन । तथाप्यप्राप्ती तेषामर्थायान्यसाम्भोगिकाः पर्यटन्ति । तथापि यदि न लभ्यते ततस्तेषामेव यत् पूर्वगृहीतं वस्त्रं तद् ग्रहीतव्यम् । तच्चाभिनवं वा स्यात् पुराणं वा, पूर्वमभिनवं पश्चात् पुराणमपि गृह्यते । तदपि यद्युततरगुण-मूलगुणशुद्धं तत उपादेयं नान्यथा । अथ सर्वथाऽपि न प्राप्यते ततो यः कृतकरणो भवति तेन स्वयमेव व्यूत्यम् । एतच्च यथावसरमुत्तरत्र भावयिष्यते । तदेमन्यसाम्भोगिकानामपि पूर्वगृहीतं यदा न प्राप्यते तदा मासलघुकादारभ्य तावद् यतन्ते यावत् चतुर्लघुकं प्राप्ताः । ततः किं कर्त्तव्यम् ? इत्याह[भा. २९९३]
२०४
उवएसो संघाडग, पुव्वग्गहियं व निइयमाईणं । अभिनव पुराण सुद्धं, पुव्वमभुत्तं ततो भुत्तं ॥
वृ- चतुर्लघुप्राप्ताः सन्तो नित्यवासि-पार्श्वस्थादीनामुपदेशेन वस्त्रमुत्पादयन्ति । तदभावे तेषामेव सङ्घाटकेन । तथाऽप्यलाभे यत् तेषां पूर्वगृहीतं मूलोत्तरगुणशुद्धमभिनवमपरिभुक्तं तत् प्रथमतो ग्रहीतव्यम्, ततः परिभुक्तमपि । तदप्राप्तौ पुराणमपि मूलोत्तरगुणशुद्धमपरिभुक्तम्, ततः परिभुक्तमपि ग्राह्यम् । इह निशीथचूर्ण्यभिप्रायेणास्यैव कल्पस्य विशेषचूर्ण्यभिप्रायेण चान्यसाम्भोगिकान् यावन्नास्ति पञ्चकपरिहाणि किन्तु तत ऊर्ध्वं पञ्चकपरिहाण्या यतित्वा यदा मासलघुप्राप्ताः तदा पार्श्वस्थादीनामुपदेशादिना गृह्णन्तीति द्वयोरपि चूण्योरभिप्रायः परमेतच्चूर्णिकृता भिन्नमासप्राप्ता अन्यसाम्भोगिकानां चतुर्लघुप्राप्ताश्च पार्श्वस्थादीनामुपदेशादिना वस्त्रग्रहणे यतन्त इति प्रतिपादितम् अतस्तदनुरोधेनास्माभिरपि तथैव व्याख्यातमित्यवगन्तव्यम् ॥ अथोक्तमप्यर्थं विशेषज्ञापनार्थं भूयोऽप्याह
[भा. २९९४]
उत्तरमूले सुद्धे, नवे पुराणे चउक्क भयणेवं ।
परिकम्मण परिभोगे, न होंति दोसा अभिनवम्मि ।।
वृ- इह मूलोत्तरगुणशुद्धयोश्चतुर्भङ्गी, तद्यथा मूलगुणशुद्धमप्युत्तरगुणशुद्धमपि १ मूलगुणशुद्धं नोत्तरगुणशुद्धम् २ न मूलगुणशुद्धमुत्तरगुणशुद्धम् ३ न मूलगुणशुद्धं नोत्तरगुणशुद्धम् ४ । एतेषु चतुर्षु भङ्गेषु प्रत्येकं नव-पुराणपदविषयं यद् भङ्गचतुष्कं तस्य भजना सेवा यथाक्रममेवं कर्त्तव्या । तथाहि यत् तावद् मूलोत्तरगुणविशुद्धं तत् प्रथमतो नवमपरिभुक्तं ग्रहीतव्यम्, तदभावे नवं परिभुक्तम् । तदप्राप्ती पुराणमपरिभुक्तम्, तदलाभए पुराणं परिभुक्तम् । एवं द्वितीयतृतीयचतुर्थेष्वपि भङ्गेषु चत्वारश्चत्वारो विकल्पा भवन्ति, यथाक्रमं चैते आसेवितव्याः । कुतः ? इत्याहपरिकर्मणादोषाः-अविधिसीवनादयः परिभोगदोषाश्च-मलिनीभूत-प्रक्षित सुगन्धिगन्धभावित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org