________________
२२६
बृहत्कल्प-छेदसूत्रम् -२-१/४६ तथापि 'खलु' निश्चितं ‘स एव' अध्वकल्पः श्रेयान्, न चाधाकर्म दिने दिने लभ्यमानं वरम् ।। कुतः? इति चेद् उच्यते[मा.३१०१] आधाकम्माऽसतिं घातो, सई पुव्वहते त्तिय।
जे उ ते कम्ममिच्छंति, निग्धिणा तेन मे मता ॥ वृ-यदाधाकर्म दिने दिने लभ्यते तत्र 'असकृद्' अनेकवारं जीवोपघातः, अध्वकल्पे तु यदाधाकर्म तत्र ‘सकृद्' एकमेव वारं जीवोपघातः, पूर्वहताश्च ते जीवा न दिने दिने हन्यन्ते, अतोऽध्वकल्प एव वरं नाधाकर्म । ये पुनः 'ते' अविदितप्रवचनरहस्या अध्वकल्पं मूलोत्तरगुणोपघातिनं मत्वान भुञ्जते, आधाकर्म तु केवलोत्तरगुणोपघातकमिति मत्वा दिने दिने भोक्तुमिच्छन्ति, तेऽत्यन्तनिघृणाः सत्त्वेषु, अत एव न ते मम सम्मता इति ॥
भैक्षद्वार एवं विशेषं दर्शयति[भा.३१०२] कालुट्ठाईमादिसु, मंगेसुजतंति बितियभंगादी।
लिंगविवेगोकते, चुडलीए मग्गतो अभए। कृ-कालोत्थायिप्रभृतिषु भङ्गेषुद्वितीयभङ्गमादीकृत्वायतन्ते।तथाहि-कालोत्यायीकालनिवेशी स्थानस्थायी कालभोजी इत्यत्र प्रथमभङ्गे नास्ति यतना, सर्वथाऽपि शुद्धत्वात; द्वितीयादिषु तु सम्भवति।तत्र द्वितीयमङ्गे अकालभोजीतिकृत्वाखलिङ्गविवेकंविधाय रात्रौपरलिङ्गेन गृह्णन्ति। तृतीयचतुर्थभङ्गयोरस्थायीति कृत्वा यद् गवादिभिराक्रान्तंस्थानंतत्र तिष्ठन्तिापजमादिषुचतुर्ष भङ्गेष्वकालनिवेशीति कृत्वा कालिकायां तिष्ठन्तश्चडलिकया संस्तारकभूम्यादिषु बिलादिकं गवेषयन्ति । नवमादिषु षोडशान्तेष्टसु भङ्गेषु अकालोत्थायीति कृत्वा रात्रौ गन्तव्ये उपस्थिते 'मार्गतः' पृष्ठतः स्थिता गच्छन्ति । क्वसति? इत्याह-'अभये यदि पृष्ठतो गच्छतांस्तेनादिभयं न भवेत् । भक्तार्थनंतु यः सार्थोऽकालस्थायी तत्र निर्भये पुरतो गत्वा समुद्दिशन्ति यथा समुद्दिष्टे सार्थस्तत्र प्राप्नोति, वसतिं च मध्ये गृहन्ति॥तथा[भा.३१०३] सावय अन्नट्ठकडे, अट्ठासुक्खे सय जोइजतणाए।
तेने वयणचडगरं, तत्तो व अवाउडा होति ॥ -श्रवापदभयेऽन्यैः-सार्थिकैरात्मार्थ यो वृतिपरिक्षेपः कृतस्तत्र तिष्ठन्ति। तदभावे "अट्ट" त्ति साधूनामर्थाय कृते वृतिपरिक्षेपे तिष्ठन्ति । तदभावे "सुक्खे सय" त्ति शुष्ककण्टिकाभिः स्वयमेव वृतिपरिक्षेपं कुर्वन्ति । “जोइ जयणाए" ति यदिश्वापदभयेज्योतिषा-अग्निना कार्य ततः परकृतमग्निसेवन्ते।अथतेतंसेवितुंनप्रयच्छन्ति ततः परकृतमेवाग्निंगृहीत्वाप्राशुकदारुभिः प्रज्वालयन्ति । यत्र तु स्तेनभयं तत्र तथा 'वचनचटकर' वागाडम्बरं कुर्वन्ति यथा ते स्तेना भयादेव शीघ्रं नश्यन्ति । अथवा यतः-यस्या दिशस्ते समागच्छन्ति तदभिमुखीभूय अप्रावृता भवन्ति ॥एवंविधं विधिं कुर्वाणा अध्वनो निस्तरन्ति । अथायं व्याघातो भवेतू[भा.३१०४] सावय-तेनपरद्धे, सत्ये फिडिया ततो जति हवेजा।
अंतिमवइगा विंटिय, नियट्टनय गोउलं कहणा॥ महाटव्यांसिंहादिभिःश्वापदैः स्तेनैर्वासार्थप्रारब्धःसन्दिशोदिशिविप्रणष्टः, साधवोऽप्येकां दिशंगृहीत्वा विप्रणष्टाः 'ततः' सार्यास्फिटितायदिभवेयुः, ततोदिग्भागमजानन्तोवनदेवतायाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org