________________
उद्देशक ः १, मूलं-४६; [भा. ३०९५]
२२५ वृ-त्रिविधाः-त्रिप्रकाशवातज पित्तज-श्लेष्मजभेदायेआमयाः-रोगास्तेषां यानि भैषज्यानि, यानिच व्रणस्य भैषज्यानि सर्पिमिश्राणि मधुमिमाणि वाव्रणेषु दत्त्वा पट्टैध्यन्ते तानि गृह्णन्ति। सर्वमप्येतदध्वकल्पादिकंप्रथमतः पुनरध्वानं स्तोकंवा बहुंवा ज्ञात्वा तदनुसारेणाध्वकल्पोऽपि ग्रहीतव्यः । एवं यदा सर्वमप्युत्पादितं भवति तदा किं विधेयम् ? इत्याह[भा.३०९६] अद्धाण पविसमाणो, जाणगनीसाए गाहए गच्छं।
अह तत्थ न गाहिज्ज, चाउमासा भवे गुरुगा॥ वृ-अध्वानं प्रविशन् सूरि प्रथमत एव ज्ञस्य-गीतार्थस्य निश्रया-तं पुरस्कृत्य गच्छमध्वकल्पं ग्राहयति । अथ 'तत्र' अध्वप्रवेशे गच्छंन ग्राहयति ततश्चतुर्मासा गुरुका भवेयुः । अतो गीतार्थं पुरस्कृत्यागीतार्थप्रत्ययनिमित्तमन्तराऽन्तरा कानिचिद्रर्थपदानि परित्यजन् सूरिर्गच्छमध्वकल्पं ग्राहयेत् ।। एवंविधेन विधिना निर्गतानामयं विधिः[भा.३०९७] सभए सरभेदादी, लिंगविओगंच काउ गीयत्था।
खरकम्मिया व होउं, करेंति गुत्तिं उभयवग्गे॥ वृ-यत्र सभयंतत्र वृषभाः स्वरभेद-वर्णभेदकारिणीभिर्गुलीकाभिरन्याशं स्वरं वर्णच कृत्वा गच्छन्ति । अथवा यथा 'एते संयताः' इति न ज्ञायते तथा लिङ्गवियोगंकृत्वा गीतार्था गच्छन्ति । खरकर्मिकावासनद्धपरिकरा यथासम्भवंगृहीतायुधाभूत्वा वृषभाः 'उभयवर्गे साधु-साध्वीलक्षणे 'गुप्तिं रक्षां कुर्वन्ति ।। किञ्च[भा.३०९८] जे पुट्विं उवकरणा, गहिया अद्धाण पविसमाणेहिं।
जंजंजोग्गंजत्थ उ, अद्धाणे तस्स परिभोगो॥ . वृ-यानि पूर्वधर्मकरकादीन्युपकरणानिअध्वानं प्रविशद्भिर्गृहीतानि तेषांमध्ये यद्यस्मिन् काले योग्यं तस्य तदा अध्वनि परिभोगः कर्त्तव्यः ।।अथाध्वकल्पभोगे विधिमाह[भा.३०९९] सुक्खोदणो समितिमा, कंजुसिणोदेहि उण्हविय मुंजे।
मूलुत्तरे विभासा, जतिऊणं निग्गते विवेगो॥ वृ-"कंजुसिणोदेहि"त्तिइह चलाटदेशेऽश्रावणं काञ्जिकंभण्यते।यदाह चूर्णिकृत्अवसावणं लाडाणंजियं भण्णइत्ति।ततोऽवश्रावणेनोष्णोदकेनवाशुष्कौदनंशुष्कसमितिमांश्च उणयित्वा' मृदुभवनार्थमुष्णीकृत्य भुञ्जीत । “जइऊणं निग्गए विवेगो" त्ति एवमादिकया यतनया यतित्वा यदाअध्वनो निर्गतास्तदा तमध्वकल्पमभुक्तं भुक्तोद्वरितंवा विविचन्ति, परिष्ठापयन्तीत्यर्थः। "मूलुत्तरेविभास"त्तिमूलोत्तरगुणविषया विभाषाकर्तव्या। तद्यथा-शिष्यः पृच्छति-योअध्वकल्प आधाकर्मिकः परिवासितश्च स तावदाधाकर्मिकत्वेनोत्तरगुणोपघाती परिवासितत्वेन तु मूलगुणोपघाती ततः किमेष भुज्यताम् ? उत प्रतिदिवसं लभ्यमानमाधाकर्म ? अत्रोच्यतेअध्वकल्पो भुज्यतां नाधाकर्म ॥ ननु दोषद्वयदुष्टोऽसौ ? सूरिराह• [भा.३१००] कामं कम्मुंतु सो कप्पो, निसिं च परिवासितो।
तहा विखलु सो सेओ, न य कम्मं दिने दिने॥ कृ'कामम् अनुमतम्-यदसावध्वकल्प एकतावदाधाकर्मअपरंच 'निशि' रात्रौपरिवासितः, [1915
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org