________________
उद्देश : २, मूलं - ६३, [भा. ३५६०]
तं पिय आगतमेत्तं, भांति अमुएण ने दिनं ॥
- प्रभौ प्रोषिते सति प्राघुणको यस्तस्याभ्यर्हितः समायातः तं वा मित्रं वा तदीयं 'ज्ञातकं वा’ स्वजनं ‘भणन्ति’ अनुज्ञापयन्ति । 'तंच' प्रभुमागतमात्रमेव भणन्ति- 'अमुकेन' युष्मन्मित्रादिना अस्माकमिदं गृहं प्रदत्तम् । स चामीष्टनामग्रहणे कृते न निर्घाटयति ॥ अप्रमुविषयं विधिमाह[ भा. ३५६१] अप्पभुणा उ विदिने, भांति अच्छामु जा पभू एती । पत्ते उ तस्स कहणं, सो उ पमाणं न ते इतरे ॥
वृ- अप्रभुरनुज्ञापितो भणति अहं न जानामि । ततः साधवो भणन्ति यावत् प्रभुरागच्छति' तावद् वयं तिष्ठामः । एवमनुज्ञापितेनाप्रभुणा प्रतिश्रये यदा प्रभुः प्राप्तो भवति तदा तस्याग्रे यथाभूतं कथयितव्यम् । कथिते च स ददाति वा निष्काशयति वा स एव तत्र प्रमाणम्, न 'ते' पूर्वानुज्ञापिताः'इतरे' अप्रभवः । एवमुक्तेन विधिना यद् वसतेर्ग्रहणं तदेवानुज्ञातमिति ॥
[भा. ३५६२] इय एसाऽणुत्रवणाजतणा पिंडो पभुस्स ऊ वज्जो । सेसाणं तु अपिंडो, सो वि य वज्जो दुविहदोसा ॥
वृ- 'इति' एवमुक्तप्रकारेण एषा प्रतिश्रयानुज्ञापनायां यतना प्रोक्ता । अथ शय्यातरपिण्डपरिहरणे यतनाऽभिधीयते यः प्रभुः स शय्यातर इति कृत्वा तद्गृहे पिण्डो वय: । 'शेषाणाम्' अप्रभूणाम् 'अपिण्डः ' शय्यातरपिण्डो न भवति, परं सोऽपि द्विविधदोषात्' भद्रकप्रान्तकृतदोषपरिहारार्थं वर्जनीयः ॥ गतं पितापुत्रद्वारम् । अथ सपत्नीद्वारम्
[भा. ३५६३ ] एगे महानसम्मी, एक्कतो उक्खित्ते सेसपडिनीए ।
जेट्ठा अनुन्नवणा, पउत्थे सुय जेट्ठ जाव पभू ।
11
३२१
वृ- शय्यातरे प्रोषिते सति यास्तदीयाः पल्यस्तासां यद् भोजनं तत्र चतुर्भङ्गी-एकत्र राद्धमेकत्र भुक्तं १ एकत्र राद्धं विष्वग् भुक्तं २ विष्वग् राद्धमेकत्र भुक्तं ३ विष्वग् राद्धं विष्वग् भुक्तम् ४ । तत्र “एगे महानसम्मी एनतो' त्ति एकस्मिन् महानसे राद्धमेकतो भुक्तमिति प्रथमभङ्गो गृहीतः । “उक्खित्तं”ति एकत इति पदमनुवर्त्तते, एकतः- एकस्मिन् स्थाने 'उत्क्षिप्तं' मोजनभूमिकां नीतं भुक्तमिति यावत् अर्थादापन्नं विष्वग् राद्धम्, एतेन तृतीयभङ्ग उपात्तः । द्वितीय-चतुर्थभङगौ पुनरवर्जनीयाविति कृत्वा न गृहीतौ । “सेसपडिनीए "त्ति यद् एकत्र राद्धमेकत्र भुक्तं तत्र भुतशेषं यद्यपि शेषसपत्नीभि स्वगृहं प्रत्यानीतं तथापि भद्रक-प्रान्तदोषपरिहारार्थं वर्जनीयम् । तथा प्रभौ प्रोषिते तदीया ज्येष्ठभार्या वसतिमनुज्ञाप्यते । अथ सा न सुतमाता ततोऽनुष्ठाऽपि या पुत्रवती । द्वयोर्वा पुत्रवत्योर्या ज्येष्ठपुत्रा, यत्पुत्रो वा प्रभुः, या वा स्वयं गृहे 'प्रभुः' प्रमाणभूता सा अनुज्ञापनीया । एषा चिरन्तनगाथा | अथैनामेव विवृणोति -
[मा. ३५६४]
तम्मि असाही जेट्ठपुत्तमाया व जा व से इट्ठा । अह पुत्तमाय सव्वा, जीसे जेट्ठो पभू वा वि ॥
वृ- ‘तस्मिन्’ गृहस्वामिनि ‘अस्वाधीने' असन्निहिते ज्येष्ठा भार्या पुत्रमाता वा या वा “से” तस्य गृहपतेः 'इष्टा' वल्लभा सा वसतिमनुज्ञापनीया । अथ सर्वा अपि पुत्रमातरोऽभीष्टाश्च ततो यस्याः पुत्रो ज्येष्ठस्तामनुज्ञापयन्ति । अथ ज्येष्ठः पुत्रो न प्रभुः ततः कनिष्ठोऽपि यस्याः पुत्रः
19 21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org