________________
३२२
प्रभुः सा अनुज्ञापयितव्या ॥ पिण्डग्रहणे विधिमाह[भा. ३५६५ ]
बृहत्कल्प-छेदसूत्रम् -२-२/६३
असहीणे पभुपिंडं, वज्रंती सेसए तु भद्दादी । साही जहि भुंजइ, सेसे वि उ भद्द पंतेहिं ॥
वृ- अस्वाधीने गृहस्वामिनि या तत्पत्नी प्रभुस्तस्याः पिण्डं साधवो वर्जयन्ति । शेषसपत्नीगृहेषु शय्यातरपिण्डः परं भद्रक-प्रान्तकृता दोषा भवन्ति अतस्तासामपि पिण्डः परिहर्त्तव्यः । अथ स्वाधीनः शय्यातरः ततो यस्या गृहे भुङ्क्ते तत्र शय्यातरपिण्ड इति कृत्वा वर्जयन्ति । शेषाण्यपि पत्नीगृहाणि भद्रक-प्रान्तदोषपरिहारार्थं वर्जयन्ति ॥
[भा. ३५६६]
एत्थ रंधणे भुंजणे य वज्रेति भुत्तसेसं पि । एमेव वीसु रद्धे, भुंजंति जहिं तु एगत्था ॥
वृ- एकत्र राद्धमेकत्र भुक्तमित्यादिचतुर्भङ्गयां यत्रैकत्र रन्धनं भोजनं वा तत्र भुक्तशेषमपि वर्जयन्ति, प्रथमभङ्गे इत्यर्थः । एवमेव विष्वग् राद्धेऽपि यत्रैकत्र भुञ्जते तत्र भुक्तशेषमपि न गृह्णन्ति, तृतीयभङ्गे इति भावः । एवमस्वाधीनभर्तृकाणां विधिरुक्तः । अथ स्वाधीनभर्तृकाणां यो विधिस्तमाह
[भा. ३५६७ ] निययं व अनिययं वा, जहिं तरो भुंजती तु तं वज्जं । सासु विनय गिण्हति मा छोभगमादि भद्दाई ॥
वृ- नियतं वा अनियतं वा यत्र शय्यातरो भुक्के तद् गृहं वर्जनीयम् । नियतं नाम-यदेकस्या एव गृहे प्रतिदिनं भुङ्क्ते । अनियतं तु-वारकेण सर्वासामपि गृहे भुङ्क्ते । शेषपत्नीगृहेषु यद्यपि शय्यातरपिण्डो न भवति तथापि गृह्णाति मा भद्रक-प्रान्तकृता छोभकादयो दोषा भवेयुः । छोभकःप्रक्षेपकः तं शेषपत्नीगृहे भद्रकः शय्यातरः कुर्यात् 'मम गृहे तावदमी न गृह्णन्ति अंत एवमपि दत्त्वा पुण्यमुपार्जयामि' इति बुध्या । यस्तु प्रान्तः स द्वेषं यायात्- अहो ! दुर्द्दष्टधर्माणोऽमी, यदि भदीयगृहे न कल्पते तत एतासां मद्दत्तोपजीविनीनां गृहे कथं कल्पते ? इति प्रद्विष्टश्च प्रतिश्रयान्निष्काशयेत् ।। गतं सपत्नीद्वारम् । अथ वणिग्द्वारमाह
[भा. ३५६८ ] दोसु वि अव्वोच्छिन्ने, सव्वं जंतम्मि जं च पाउग्गं । खंधे संखडि अडवी, असती य धरम्मि सो चेव ॥
वृ- कोऽपि शय्यातरी देशान्तरं गन्तुकामो नगरादेर्बहि स्थितो वर्त्तते, तस्य च 'द्वयोरपि गृहयोः ' अन्तर्गृहाद् बहिर्गृह बहिर्गृहाच्चाभ्यन्तरगृहे भक्तादिकमव्यवच्छिन्नं यद् आनीयते तन्न कल्पते । अथासौ शय्यातरस्ततः स्थानात् प्रस्थितः ततः 'याति' गच्छति तस्मिन् 'सर्वं' तद्दिवसनीतमन्यदिवसनीतं च भक्त-पानं न कल्पते । सर्वमित्युक्ते मा भूदतिप्रसङ्ग इत्याशकुयाह यच्च 'प्रायोग्यं' यतिजनयोग्यम्, एषणीयं प्रासुकं चेत्यर्थः, “खंधे "त्ति स्कन्धप्रदेशे मोट्टां कृत्वा बहिग्रमेषु व्यवहरन् शय्यातरः साधूनां दधि- दुग्धादिकं दद्यात्, "संखडित्ति सङ्घडी कुर्वन् साधूनामपि दद्यात्, “अडवि”त्ति अटवीं वा काष्ठच्छेदनादिनिमित्तं गृहीतशम्बलो गच्छन् साधून् दृष्ट्वा तन्मध्यात् तेषामपि दद्यात्, एतेषु त्रिष्वपि न कल्पते । “असई य घरम्मि सो चेव" त्ति यदि शय्यातरः सपुत्र-पशु- बान्धवो गृहे नास्ति किन्तु देशान्तरं प्रोषितः तदा देशान्तरस्थितोऽपि स एव शय्यातरो नान्य इति नियुक्तिगाथासमासार्थः । अथैनामेव विर्वरीषुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org