SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ उद्देशकः२, मूलं-५५, [भा. ३४२८] 'अशिष्टे' अकथिते भद्रक-प्रान्तकृता इमे दोषाः “लहुगा अनुग्गहम्मी, गुरुगा अप्पत्तियम्मि कायव्वा । कडुग-फरुसं भणंते, छम्मासा करभरे छेओ।" इत ऊर्ध्वम्“आमं ति अब्भुवगए, भिक्ख-वियाराइ निग्गयमिएसुं। भणइ गुरू सागरियं, कत्थ दगं जाणणट्ठाए ॥" इतिपर्यन्तं गाथकदम्बकं प्राग्वत् ॥ कथं पुनः सूरयः सागारिकं प्रश्नयन्ति? इत्याह[भा.३४२९] चउमूल पंचमूलं, तालोदानं च तावतयाणं । दिट्ठ मए सनिचया, अन्ने देसे कुडुंबीणं ॥ वृ-'चतुर्मूलं नाम' चतुर्भिः सुरभिमूलैर्भावितम् । एवं यत् पञ्चभिः सुरभिमूलै वितं तत् पञ्चमूलम्। तालोदकानि यथा तोसलिविषये । तापतोयानि राजगृहादौ । एवंविधानामुदकानां सन्निचया मयाऽन्यस्मिन् देशे कुटुम्बिनां गेहेषु दृष्टाः ॥ “एवं च भणियमेत्तम्मि कारणे सो भणाइ आयरिए। अस्थि महं सन्निचया, पेच्छह नानाविहे उदए ॥" इत आरभ्य “जाणंता वियतेनं, न वन-रूवेण साहति।" इतिपर्यन्तंभाष्यं तथैवात्र वक्तव्यम्। नवरमुदकाभिलापः कर्तव्यः ॥ मू. (५६) उवस्सयस्स अंतो वगडाए सव्वराईए जोई झियाएज्जा, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए । हुरच्छा य उवस्सयं पडिलेहमाने नो लभेजा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए । जे तत्थ एगरायाओ वा दुरायाओ वा परं वसइ से संतरा छेए वा परिहारे वा॥ . वृ-एवं प्रदीपसूत्रमप्युच्चारणीयम् । अथास्य सूत्रद्वयस्य कः सम्बन्धः ? इत्याह[भा.३४३०] उदगानंतरमग्गी, सो उ पईवो व होज्ज जोई वा। पडिवक्खणं व गयं, समागमो एस सुत्ताणं ।। वृ- प्रवचने ह्यप्कायप्ररूपणानन्तरमग्निकायः प्ररूप्यते, अतोऽत्राप्युदकसूत्रानन्तरमग्निसूत्रमारभ्यते । ‘स च' अग्नि प्रदीपो वा स्याद् ज्योतिर्वा । “पडिवक्खेणं व गयं" ति भावप्रधानत्वानिर्देशस्य प्रतिपक्षतया वा इदं सूत्रमागतम् । किमुक्तं भवति? -अकायस्याग्निकायः शस्त्रम्, अग्निकायस्याप्यप्कायः, अत एतौ परस्परं प्रतिपक्षौ, प्रतिपक्षत्वेन चाप्कायानन्तरं साम्प्रतमग्निकायः प्ररूपणीयः । एषः ‘समागमः' सम्बन्धो द्वयोरपि सूत्रयोर्मन्तव्य इति ॥अनेन सम्बन्धेनायातस्यास्य प्रथमसूत्रस्य तावद् व्याख्या-सा च प्राग्वत् । नवरं सार्वरात्रिकं ‘ज्योति' अग्निर्यत्रोपाश्रये 'ध्यायेत्' धातूनामनेकार्थत्वात्प्रज्वलेत् तत्र साधु-साध्वीनां वस्तुंन कल्पते।। अथ भाष्यविस्तरः[भा.३४३१] देसीभासाए कयं, जा बहिया सा भवे हुरच्छा उ । ___ बंधऽनुलोमेण कयं, छेए परिहार पुव्वं तु॥ [भा.३४३२] अहवण वारिजंतो, निकारणओ व तिण्ह व परेणं । छेयं चिय आवजे, छेयमओ पुव्वमाहंसु ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy