________________
२९४
[ भा. ३४२३] इहरा कहासु सुणिमो, इमं खु तं विमलसीतलं तोयं । विगयस्स वि नत्थि रसो, इति सेवे धारतोयादी |
बृहत्कल्प-छेदसूत्रम् -२-२/५५
बृ- इतरथा कथान्तरेषु शृणुमः, परमिदमद्य विमलशीतलं 'तत्' कथान्तरश्रुतं तोयमास्वादितम्। यच्चोष्णोदकादिकं विकृतं व्यपगतजीवमुदकमापिबामः तस्यापि शस्त्रोपहतत्वेनान्यथाभूतस्य रसो नास्तीति मत्वा धारातोयादिकं जलं सेवते ॥
[ भा. ३४२४] विगयम्मि कोउयम्मी, छट्ठवयविराधन त्ति पडिगमनं । वेहानस ओहाणे, गिलाणसेहेण वा दिट्ठो ॥
वृ- विगते उदकपानकौतुके स संयतः ' षष्ठव्रतविराधना मया कृता' इति मत्वा प्रतिगमनं वा वैहायसं वा मरणं संविग्नविहाराद्वा अवधावनं कुर्वीत । ग्लानेन वा शैक्षेण वा स दृष्टो भवेत्॥
ततश्च
[भा. ३४२५ ] तण्हाइओ गिलाणो, तं दट्टु पिएज जा विराधनया । एमेव सेहमादी, पियंति अप्पच्चओ वा सिं ॥
वृ- ग्लानस्तृष्णायितः 'तं' संयतमुदकमापिबन्तं दृष्ट्वा पानीयं पिबेत् । तेन चापध्येन या तस्यानागाढपरितापनादिका विराधना तन्निष्पन्नं प्रायश्चित्तम् । एवमेव च शैक्षादयोऽप्यपरिणतास्तदुदकमापिबन्ति, अप्रत्ययो वा अमीसां भवेत् यथैतद् मृषा तथाऽन्यदपि सर्वममीषामुन्मत्तप्रलपितमिति ॥
"उड्डाहं व करिज्जा, विप्परिणामो व हुज्ज सेहस्स । गिण्हंतेन व तेनं, खंडिय विद्वे व भिन्ने वा ॥"
इतिपर्यन्ता गाथा गतार्था । अथ यैः कारणैः स्तेना उदकमपहरन्ति तानि दर्शयति[भा. ३४२६] ऊसव छणेसु संभारियं दगं तिसिय- रोगियट्ठाए । दोहल कुतूहलेण व, हरंति पडिवेसयाईया ||
वृ- उत्सवाः क्षणाश्च पूर्वोक्ताः, तेषु प्रत्यासन्नेषु स्तेना उदकमपहरेयुः । यद्वा तृषिताः सन्तः स्वयं पानार्थं 'सम्भारितं' कर्पूर-पाटलादिवासितं चतुर्मूलं पञ्चमूलकृतं वा तद् उदकमपहरन्ति । यद्वा रोगी कश्चित् तेषामस्ति तस्य तत् पानीयं पथ्यं तदर्थम्, अथवा गुर्विण्यास्ताद्दशमुदकमापातुं दोहदः समुत्पन्नः, यदि वा कुतूहलं तेषामुदपादि 'कीशोऽस्य पानीयस्य रसः ?' । एवमेभिः कारणैः प्रतिवेश्मिकादयः स्तेना अपहरेयुः ॥
[भा. ३४२७] गहियं च तेर्हि उदगं, धित्तूण गया जहिं सि गंतव्वं । सागारिओ व भणई, सउणी वि य रक्खई निड्डुं ||
उक्तार्था । [ भा. ३४२८ ]
दगभानूने दट्टु, सजलं व हियं दगं च परिसडियं । केन इमं तेनेहिं, असिट्टे भद्देयर इमे उ ।
वृ- सागारिको दकभाजनानि न्यूनानि सजलं वा भाजनमपहृतं दकं वा परिशटितं दृष्ट्वा पृच्छति-केनेदं जलमपहृतम् ? । साधवो ब्रुवते - स्तेनैः । ततोऽसौ भूयः प्रश्नयति के पुनः स्तेनाः ? । ततो यदि नाम्ना वर्णेन वा तान् कथयन्ति ततस्तेषां बन्धनादयो दोषाः । अथ न कथयन्ति ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org