________________
उद्देशक ः २, मूलं-५५, [भा. ३४१८]
२९३
एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहार वा ॥
वृ-अथास्य सम्बन्धमाह[भा.३४१९] छोढूण दवं पिज्जइ, गालिंति दवं व छोदुणं तं तु ।
पातुं मुहं व थोवइ, तेनऽहिकारो सजीवं वा ।। वृ-यतः 'द्रवं' पानीयं प्रक्षिपय विकटं पीयते, अतो विकटसूत्रानन्तरमुदकसूत्रम् । यद्वा द्रवं प्रक्षिप्य 'तद्' विकटं गालयन्ति, अथवा विकटं पीत्वा तज्जनितदौर्गन्धव्यपगमार्थमुदकेन मुखं धावति तेन कारणेन विकटानन्तरमुदकाधिकारः प्रारभ्यते । यद्वा तद् विकटं निर्जीवम् इदं तु सजीवं निजींव वा भवेदितिर ॥अनेकैः सम्बन्धैरायातस्यास्य व्याख्या प्राग्वत् । नवरं विकृतशीतोष्णादिशस्त्रेण विकारं प्रापितम्, प्राशुकीकृतमित्यर्थः, शीतोदकं च तद् विकृतं च शीतोदकविकृतं तस्य कुम्भः-घटः । एवमुष्णोदकविकृतकुम्भोऽपि ॥अथ भाष्यम्[भा.३४२०] सीतोदे उसिणोदे, फासुगमप्फासुगे य चउभंगो।
ठायंतगाण लहुगा, कास अगीतत्थ सुत्तं तु॥ वृ-शीतोदकोष्णोदक-प्राशुका-ऽप्राशुकपदैश्चतुर्भङ्गी भवति। गाथायां प्राकृतत्वात् पुंस्तवनिर्देशः। तद्यथा-शीतोदकंप्राशुकं १ शीतोदकमप्राशुकम् २ उष्णोदकं प्राशुकम् ३ उष्णोदकमप्राशुकम् ४ । तत्र प्रथमभङ्गे उष्णोदकमेव शीतीभूतं तन्दुलधावनादिकं वा, द्वितीयभङ्गे शीतोदकमेव स्वभावस्थम्, तृतीयभने उष्णोदकमुद्व त्तत्रिदण्डम्, चतुर्थभङ्गे तापोदकादिकं मन्तव्यम् । एवंविधोदकप्रतिबद्ध प्रतिश्रये तिष्ठतां चतुर्लघुकाः । एवमविशेषेणोक्तावप्ययं विशेषःप्रथमतृतीयभङ्गयोर्मासलघु । द्वीतीयचतुर्थभङ्गयोश्चतुर्लघवः आह च निशीथचूर्णिकृत्-पढमतइयभंग ठायंतस्स मासलहुं । बीयचउत्थेसुचउलहुं । आह कस्यपुनरेतत्प्रायश्चित्तम्? गुरुराह-अगीतार्थस्य। सूत्रं पुनरनुज्ञाविषयं गीतार्थमधिकृत्य प्रवृत्तमित्युपस्कारः । इत उर्ध्वम् “नथि अगीयत्थो वा०" इत्यारभ्य “कासइ इच्छा समुप्पन्ना" इतिपर्यन्तं भाष्यमुदकाभिलापविशेषितं वक्तव्यम् ॥ कीशी पुनरिच्छा तस्य समुत्पन्ना ? उच्यते[भा.३४२१] अनुभूया उदगरसा, नवरं मोत्तुं इमेसि उदगाणं ।
काहामि कोउहल्लं, पासुत्तेसुं समारद्धो॥ वृ. 'अनुभूता मया उदकानां रसाः, नवरं मुक्त्वा अमीषामुदकानां रसान्, अतः करिष्याम्यहमेतद्विषयं कुतूहलं सफलम्' इति विचिन्त्य प्रसुप्तेषु शेषसाधुपु समारब्ध उदकपानं कर्तुम् ॥ कानि पुनस्तान्युदकानि ? इत्याह[भा.३४२२] धरोदए महासलिलजले संभारिते व्व दव्वेहिं ।
तण्हातियस्स व सती, दिया व राओ व उप्पज्जे ।। वृ-'धारोदकं नाम' गिरिनिर्झरजलम्, यथा उज्जयन्तादौ, आन्तरिक्षं वा धारोदकम् । तथा महासलिलाः-गङ्गा-सिन्धुप्रभृतयो महानद्यः तासां जलं महासलिलाजलम् । 'द्रव्यैः' कर्पूरपाटलादिभिः ‘सम्भारितं' वासितं द्रव्यसम्भारितम् । एषु पानीयेषु तृष्णायितस्याभिलाषो भवति। पूर्वानुभूतेषु तु दिवा वा रात्रौ वा ‘स्मृति' संस्मरणमुत्पद्यते ।।
ततश्चोदकमापिबन्नात्मनो हृदयस्य प्रत्युक्षमिदमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org