________________
बृहत्कल्प-छेदसूत्रम् -२-२/५४
२९२
धिगमीषां पाषण्डिनां धर्ममिति ॥
[भा. ३४१५ ] बंधित्तु पीए जयणा ठवेंति, मुद्दा जहा चिट्ठइ अक्खुया से । ऊणम्मि दिट्ठम्मि भर्णेति पुट्ठा, नूनं परिस्संदति भाणमेयं ॥
वृ- विकटे पीते तद् भाजनं द्वारदेशे वस्त्रादिना बद्धघा 'जतुना' लाक्षया स्थगयन्ति, यथा “से” तस्य भाजनस्य मुद्रा अक्षता तिष्ठति । अथ सागारिकः तद् भाजनमूनं दृष्ट्वा पृच्छतिकिमर्थमिदं न्यूनमवलोक्यते ? । एवं पृष्टाः सन्तो भणन्ति नूनं भाजनमिदं परिस्यन्दति ।।
[भा. ३४१६] सव्वम्मि पीए अहवा बहुम्मि, संजोगपढी व ठयंति अन्नं । अन्नं व मग्गित्तुं छुहंति तत्था, कीयंकयं वा गिहिलिंगमाई ॥
वृ- सर्वस्मिन् अथवा बहुके विकटे पीते सति ये 'संयोगपाठितः ' विकटनिष्पत्तियोग्यद्रव्यसंयोगवेदिनस्ते तथाविधानि द्रव्याणि संयोज्य अन्यद् विकटं स्थापयन्ति । अथ न सन्ति संयोगपाठिनस्ततोऽन्यद् विकटं मार्गयित्वा तत्र प्रक्षिपन्ति । तच्च प्रथमतः शुद्धम्, तदभावे पञ्चकपरिहाण्या चतुर्लघुकं प्राप्तेन क्रीतकृतमपि ग्रहीतव्यम् । यदि स्वलिङ्गेन गृह्णतामुड्डाहो भवति, न वा तेन प्राप्यते ततो गृहिलिङ्गम् आदिशब्दादन्यतीर्थिकलिङ्ग वा कर्त्तव्यम् ।। अथ "गेलने अहव तेन गंधेनं" इत्यादिपदानि व्याख्याति
[भा. ३४१७] तब्भावियट्ठा व गिलाणए वा, पुराण सागारिय सावए वा । संभणीण कुलाभावा, गिण्हंति रुवस्स विवज्जएणं ॥
वृतेन - विकटेन पूर्वं भावितस्तद्भावितः स तत्र विकटेनाध्युपपन्नो भवति; ग्लानो वा कश्चित् तनैवोपयुक्तेन प्रगुणीभवति नान्यथा; ततस्तदर्थं 'पुराणस्य' पश्चात्कृतस्य सकाशात्, तदभावे माता- पितृसमानो यः सागारिकस्तस्य हस्तात्, तदप्राप्तौ प्रतिपन्नाणुव्रतस्य माता- पितृसमानस्य श्रावकस्य पार्श्वाद् ग्रहीतव्यम् । अमीषामभावे यथाभद्रकाण्यपि यानि विश्रम्भणीयानि कुलानि, नोड्डाहकारीणीत्यर्थः तेषु ग्रहीतव्यम् । तेषामभावे यदि खलिङ्गेनगृह्यते ततः प्रवचनोपघातो भवेत् ततो रूपस्य विपर्ययेण गृह्णन्ति, लिङ्गविवेकं कृत्वा विकटमुत्पादयन्तीति भावः ॥ [भा. ३४१८] अञ्च्चाउरं वा वि समिक्खिऊणं, खिप्पं तओ घेत्तु दलित्तु तस्स । अन्नं रसं वा वि तहिं छुभंती, संगं च से तं हवयंति तत्तो ॥
वृ- अत्यातुरं वा तं ग्लानं समीक्ष्य 'क्षिप्रं ' शीघ्रं 'ततः प्रतिश्रयवर्तिनो विकटभाजनाद् गृहीत्वा 'तस्य' ग्लानस्य दत्त्वा गीतार्थास्तत्रान्यं वा रसं प्रक्षिपन्ति ततश्च "से" तस्य ग्लानस्य 'तं' विकटविषयं सङ्ग हापयन्ति, कार्ये निष्ठिते सति विकटप्रसङ्गं निवारयन्तीति भावः । गता स्वपक्षयतना । अथ परपक्षयतनामाह
" परपक्खम्मि विदारं, पिहंति जयणाए दो वि वारिति ।
तह वि य अठायमाणे, उवेह पुट्ठा व साहति ॥"
इत्यादिका मद्याभिलापविशेषिता गाथाः सर्वा अपि तथैवात्र वक्तव्याः ॥
मू. (५५) उवस्सयस्स अंतो वगडाए सीओदगवियडकुंभे वा उसिणोदगवियडकुंभे वा उवनिक्खित्ते सिया, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए । हुरत्था य उवस्सयं पडिलेहमाणे नो लभेज्जा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए । जे तत्थ परं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org