________________
२९६
बृहत्कल्प-छेदसूत्रम् -२-२/५६ वृ-गाथाद्वयमपि गतार्थम् ॥ज्योतिस्वरूपं निरूपयति[भा.३४३३] दुविहो य होइ जोई, असव्वराई य सव्वराई य ।
ठायंतगाण लहुगा, कास अगीयत्थ सुत्तं तु॥ वृ. 'ज्योति' अग्निकायोद्दीप्तं तद् द्विविधं भवति-'असार्वरात्रिकं' कियतीमपि रात्रिं यत् प्रज्वलति, तद्विपरीतं सार्वरात्रिकम् । उभयोरपि तिष्ठतां चतुर्लघुकाः । आह कस्य पुनरेतत् प्रायश्चित्तम् ? उच्यते-अगीतार्थस्य । सूत्रं तु गीतार्थमधिकृत्य प्रवृत्तम् ॥ इप्त ऊर्ध्वम्-“नथि अगीयत्थो वा०" इतिपर्यन्तं भाष्यं तथैवात्र वक्तव्यम् ॥अथ तत्र स्थितानां दोषानुपदर्शयति[भा.३४३४] उवगरणे पडिलेहा, पमजणाऽऽवास पोरिसि मने य।
निक्खमणे य पवेसे, आवडणे चेव पडणे य॥ वृ- सज्योतिषि वसतौ स्थितानामुपकरणप्रत्युपेक्षणे, वसतेः प्रमार्जने, आवश्यकस्य सूत्रार्थपौरुष्योर्वा करणे, “मने य"त्ति मनसा राग-द्वेषगमने, निष्क्रमणे च प्रवेशे च क्रमेण नैषेधिक्यावश्यक्योः करणे, 'आपतने च' गच्छतामुल्मुकादिषु प्रस्खलने, 'पतने च' प्रतीते, एतेषु या तेज-कायस्य आत्मनो वा विराधना तन्निष्पन्नं प्रायश्चित्तम् । अथैतद्दोषभयात् प्रतिलेखनाप्रमार्जनादि न करोति ततोऽपि प्रायश्चित्तम् ।। किं पुनस्तद् ? इत्यत आह[भा.३४३५] पनगं लहुओ लहुया, चउरो लहुगा य चउसु ठाणेसु ।
लहुगा गुरुगा य मने, सेसेसु वि होंति चउलहुगा ॥ वृ-यदि ज्योतिशालायां स्थिताः ‘अग्निसङ्घट्टो मा भूत्' इति कृत्वा वस्त्राधुपकरणंन प्रत्युपेक्षन्ते ततो जघन्ये पञ्चकं मध्यमे मासलघु उत्कृष्टे चत्वारो लघवः । वसतिन प्रमार्जयन्ति यद्वा निर्गच्छन्तः प्रविशन्तो वाऽग्नेिविराधनाभयान प्रमार्जयन्ति उभयत्रापि मासलघु।आवश्यकंन कुर्वन्ति चतुर्लघु। सूत्रपौरुषीं न कुर्वन्तिमासलघु ।अर्थपौरुषीं न कुर्वन्तिमासगुरु।अथैतद्दोषभयादुपकरणप्रत्युपेक्षणां वसतिप्रमार्जनामावश्यकं सूत्रार्थपौरुष्यौ च कुर्वन्ति तत एतेषु चतुर्वपिस्थानेषु प्रत्येकं चत्वारो मासा लघवः । यस्तु 'शोभनं समजनि यदेवं सप्रकाशे स्थाने स्थिताः' इत्येवं रागं करोति, यस्य वा सप्रकाशे निद्रा नागच्छति स यदि तत्र द्वेषं करोति, तत एवं मनसा राग-द्वेषकरणे यथाक्रम चतुर्गुरवश्चतुर्लघवश्च । शेषेष्वपि आवश्यकी-नषेधिकीकरमादिषु स्थानेषु प्रत्येकमग्निविराधनानिष्पन्नं चतुर्लघु । अमुमेवार्थं स्फुटतरमाह[भा.३४३६]पेह पमज्जण वासग अग्गी, तानि अकुव्वओ जा परिहानी ।
पोरिसिभंगे अभिगं सजोई, होति मने उ रती वऽरई वा ॥ वृ-उपकरणप्रत्युपेक्षां वसतिप्रमार्जनां “वासय"त्ति आकारलोपादावासकं च यदि करोति तदाऽग्निविराधनानिष्पन्नं चतुर्लघु । अथैतद्दोषभयादेतानि न करोति ततो या संयमपरिहानिस्तन्निष्पन्नम्। सूत्रपौरुषीभङ्गे मासलघु, अर्थपौरुषीभङ्गे मासगुरु । “अभंगि"त्ति तयोः करणेऽग्निविराधना । अथ ‘सज्योतिरुपाश्रयः' इति मनसि रतिर्भवति तदा चतुर्गुरु, अरतिर्भवति चतुर्लधु।। [भा.३४३७] जइ उस्सग्गे न कुणइ, तइ मासा सव्व अकरणे लहुगा ।
वंदण-थुईअकरणे, मासो संडासकाईसं॥ वृ- आवश्यके ‘यति' यावतः कायोत्सर्गान् न करोति 'तति' तावन्तो लघुमासाः । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org