________________
उद्देशक : १, मूलं- ३४, [भा. २७१५]
योरनुशिष्टिर्दातव्या, न त्वेकमेव कञ्चन विशेष्य भणनीयम् । यत आह[भा. २७१६] आयरिय एगु न भणे, अह एगु निवारि मासियं लहुगं । राग-द्दोसविमुक्के, सीयघरसमो उ आयरिओ ।।
१४१
वृ- आचार्यो नैकमधिकरणकारिणं 'भणति' अनुशास्ति । अथाचार्य एकमेव 'निवारयति' अनुशास्ति न द्वितीयं ततो मासिकं लघुकमापद्यते, असामाचारीनिष्पन्नमिति भावः । तस्मादाचार्यो राग-द्वेषविमुक्तः शीतगृहसमो भवेत् । शीतगृहं नाम-वर्द्धकिरत्ननिर्मितं चक्रवर्तिगृहम्, तच्च वर्षासु निवातप्रवातं शकाले सोष्मं ग्रीष्मकाले शीतलम् । यथा च तच्चक्रवर्तिनः सर्वर्त्तुक्षमं तथा द्रमकादेरपि प्राकृतपुरुषस्य तत् सर्वर्तुक्षममेव भवति, एवमाचार्यैरपि निर्विशेषैर्भवितव्यम् ।। अथ विशेषं करोति तत इमे दोषाः
[भा. २७१७]
वारेइ एस एयं, ममं न वारेइ पक्खरागेणं । बाहिरभावं गाढतरगं च मं पेक्खसी एक्कं ॥
वृ-एष आचार्यः ‘आत्मीयोऽयम्' इति बुध्या अमुं वारयति, मां तु परबुध्या पश्यन्न वारयति, एवं पक्षरागेण क्रियमाणेन अननुशिष्यमाणः साधुर्बाह्यभावं गच्छति । यद्वा सोऽननुशिष्यमाणो गाढतरमधिकरणं कुर्यात् । अथवा तमाचार्यं परिस्फुटमेव ब्रूयात्-त्वं मामेवैकं बाह्यतया प्रेक्षसे । ततश्चात्मानमुद्वध्य यदि मारयति तत आचार्यस्य पाराञ्चिकम् । अथोन्निष्क्रामति ततो मूलम् । तस्माद् द्वावप्यनुशासनीयौ | अनुशिष्टौ च यद्युपशान्तौ ततः सुन्दरम् । अथैक उपशान्तो न द्वितीय:, तेन चोपशान्तेन गत्वा स स्वापराधप्रतिपत्तिपुरस्सरं क्षामितः परमसौ नोपशाम्यति । आह कथमेतदसौ जानाति यथाऽयं नोपशान्तः ? उच्यते यदा वन्द्यमानोऽपि न वन्दनकं प्रतीच्छति, यदि वाऽवमरत्नाधिकोऽसौ ततस्तं रत्नाधिकं न वन्दते, आद्रियमाणोऽपि वा नाद्रियते । एवं तमनुपशान्तमुपलक्ष्य ततोऽसौ किं करोति ? इत्याह
[भा. २७१८] उवसंतोऽनुवसंतं, तुपासिया विन्नवेइ आयरियं । तस्स उपन्नवणट्ठा, निक्खेवो परे इमो होइ ॥
वृ-उपशान्तः साधुरनुपशान्तमपरं दृष्ट्वाऽऽचार्यं विज्ञपयति-क्षमाश्रमणाः ! उपशान्तोऽहम् परमेष ज्येष्ठार्योऽमुको वा नोपशाम्यति । तत आचार्यास्तस्य प्रज्ञापनार्थं परनिक्षेपं कुर्वन्ति । स च परनिक्षेपः 'अयं' वक्ष्यमाणो भवति ।। तमेवाह
[भा. २७१९]
नाठवणा दविए, खेत्ते काले तदन्नमन्ने अ ।
आएस कम बहु पहाण भावओ उ परो होइ ॥
वृ- नामपरः स्थापनापरो द्रव्यपरः क्षेत्रपरः कालपरः । एते च द्रव्यपरादयः प्रत्येकं द्विधा, तद्यथा - " तदन्नमन्ने य'त्ति तद्द्रव्यान्योऽन्यद्रव्यान्यश्च तद्द्रव्यपरोऽन्यद्रव्यपरश्चेत्यर्थः । एवं तत्क्षेत्रपरोऽन्यक्षेत्रपरश्च, तत्कालपरोऽन्यकालपरश्च । तथाऽऽ देशपरः क्रमपरो बहुपरः प्रधानपरो भावपरश्चेति दशधा मूलभेदापेक्षया परनिक्षेपो भवतीति नियुक्तिगाथासमासार्थः । अथास्या एव भाष्यकारो व्याख्यां कर्तुकामो नाम-स्थापने क्षुण्णत्वादनाध्त्य ज्ञशरीर भव्यशरीरव्यतिरिक्तं द्रव्यपरं तावदाह
[भा. २७२०] परमाणुपुग्गलो खलु, तद्दव्वपरो भवे अनुस्सेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org