________________
१४२
बृहत्कल्प-छेदसूत्रम् -२-१/३४ अन्नद्दव्वपरो खलु, दुपएसियमाइणो तस्स ।। वृ-द्रव्यपरो द्विधा, तद्यथा-तव्यपरोऽन्यद्रव्यपरश्च। तत्र 'अणोः परमाणु पुद्गलस्यापरः परमाणुपुद्गलः परतया चिन्त्यमानस्तव्यपरोभवति । तस्यैव परमाणुपुद्गलस्यद्विप्रदेशिकादयः स्कन्धाः परतया चिन्त्यमाना अन्यद्रव्यपरा भवन्ति। [भा.२७२१] एमेव य खंधाण वि, तद्दव्वपरा उ तुल्लसंघाया।
जे उ अतुलपएसा, अणू य तस्सऽन्नदव्वपरा ॥ वृ-'एवमेवच' परमाणुपुद्गलवव्यणुकप्रभृतीनां स्कन्धानामपिये 'तुल्यसङ्घाताः' परस्परं समानप्रदेशसङ्ख्याकाः स्कन्धास्तेतद्रव्यपराः, ये पुनः 'अतुल्यप्रदेशाः'विसद्दशप्रदेशसङ्ख्याकाः स्कन्धाः 'अणवश्च एकाणुकास्ते सर्वेऽप्यन्यद्रव्यपरा भवन्ति । तद्यथा-व्यणुकस्कन्धो व्यणुकस्कन्धस्य तव्यपरः, त्र्यणुकादयस्तु स्कन्धाः परमाणवश्च तस्यान्यद्रव्यपराः; एवं त्र्यणुकादयोऽप्यनन्ताणुकपर्यन्ताः स्कन्धाः परस्परंतुल्यप्रदेशसङ्ख्याकास्तव्यपराः, विसध्शप्रदेशसङ्ख्याकास्त्वन्यद्रव्यपरा मन्तव्याः, यावत् सर्वोत्कृष्टाणुको महास्कन्धः ।
अथ क्षेत्र-कालपरौ प्रतिपादयति[भा.२७२२] एगपएसोगाढादि खेते एमेवजा असंखेजा।
एगसमयाइठिइणो, कालम्मि विजा असंखेज्जा। वृ-'क्षेत्रे क्षेत्रविषयेऽपिपरद्वारे चिन्त्यमाने 'एवमेव' तत्क्षेत्रपरा-ऽन्यक्षेत्रपरभेदेन पुद्गला एकप्रदेशावगाढादयोऽसङ्खयेयप्रदेशावगाढंयावद्रष्टव्याः। तद्यथा-एकप्रदेशावगाढः परमाणुः स्कन्धो वा एकप्रदेशावगाढस्य तत्क्षेत्रपरः, द्वित्रिप्रदेशावगाढादयः पुनस्तस्यान्यक्षेत्रपराः; तथा द्विप्रदेशावगाढः स्कन्धो द्विप्रदेशावगाढस्य स्कन्धस्य तक्षेत्रपरः, एकत्र्यादिप्रदेशावगाढास्तु तस्यान्यक्षेत्रपराः; एवं विस्तरेण सर्वाऽवगाहना द्रष्टव्या । कालेऽप्येकसमयादिस्थितयः पुद्गला यावदसङ्ख्येयसमयस्थितयस्तावत् तत्कालपरा-ऽन्यकालपरभेदाद्वक्तव्याः-तत्रैकसमयस्थितिकानां पुद्गलानामेकसमयस्थितिकास्तत्कालपराः, द्वित्र्यादिसमयस्थितिकाः पुनरन्यकालपराः; एवं यावदसयेयोत्सर्पिण्यवसर्पिणीगतासङ्खयेयसमयस्थितिकानां पुद्गलानां तावत्सङ्ख्याकसमयस्थितिकाएवतत्कालपराः, शेषास्त्वेकसमयस्थितिकादयः सर्वेऽप्यन्यकालपराअवसातव्याः।। अथादेशपरं व्याचष्टे[भा.२७२३] भोअण-पेसणमादीसु एगखित्तट्ठियं तुजंपच्छा।
आदिसइ मुंज कुणसुव, आएसपरो हवइ एस॥ वृ-भोजन-प्रतीतं प्रेषणं-व्यापारणं तदादिषु कार्येषु कञ्चन पुरुषमेकस्मिन् क्षेत्रे स्थितमपि 'पश्चात् पर्यन्ते आदिशति-यथा 'भुत्व' भोजनं विदेहि, 'कुरु वा' कृष्यादिकर्म विधेहि, एष आदेशपरो भवति, आदेशः-आज्ञपनं तदाश्रित्य परः-पाश्चात्य आदेशपर इति व्युत्पत्तेः ।।
अथ क्रमपरमाह[भा.२७२४] दव्वाइ कमो चउहा, दब्बे परमाणुमाइ जाऽनंतं। .
एगुत्तरवुड्डीए, विवड्डियाणं परो होइ॥ कृ-क्रमः परिपाटीरित्येकोऽर्थः,तमाश्रित्यपरःक्रमपरः ।सचतुर्दा-द्रव्य-क्षेत्र काल-भावभेदात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org