________________
१४३
उद्देशकः १, मूलं-३४, [भा. २७२४] तत्र 'द्रव्ये' द्रव्यतः परमाणुमादौ कृत्वा अनन्तप्रदेशिकस्कन्धं यावदेकोत्तरप्रदेशवृध्यावर्धितानां पुद्गलद्रव्याणां यो यदपेक्षया परः स तस्माद् द्रव्यक्रमपरो भवति, तद्यथा-परमाणुपुद्गलाद् द्विप्रदेशिकस्कन्धः, द्विप्रदेशिकस्कन्धात् त्रिप्रदेशिकस्कन्धः, एवं यावदसङ्ख्येयप्रदेशिकस्कन्धादनन्तप्रदेशिकस्कन्धो द्रव्यक्रमपरः । क्षेत्रक्रमपरोऽप्येवमेव; नवरमेकप्रदेशावगाढाद् द्विप्रदेशावगाढः, द्विप्रदेशावगाढात् त्रिप्रदेशावगाढः, एवं यावत् सङ्घयेयप्रदेशावगाढादसङ्खयेयप्रदेशावगाढः क्षेत्रक्रमपरः। कालक्रमपरस्त्वेवम्-एकसमयस्थितिकाद्विसमयस्थितिकः, द्विसमयस्थितिका त्रिसमयस्थितिकः, एवंयावत् सङ्ख्येयसमयस्थितिकादसङ्ख्येयसमयस्थितिकः कालक्रमपरः । भावक्रमपरः पुनरेवम्-एकगुणकालकाद् द्विगुणकालकः, द्विगुणकालकात् त्रिगुणकालकः, वं यावदसद्ध्येयगुणकालकादनन्तगुणकालको भावक्रमपरः । एवं नीललोहितहारिद्र-शुक्लरूपेषु शेषेष्वपि चतुषु वर्णेषु, सुरभि-दुरभिलक्षणे च गन्धद्वये, तिक्त-कटुकषायाऽम्ल-मधुरात्मकेचरसपञ्चके, गुरु-लघु-मृदु-कठिन-स्निग्ध-रूक्ष-शीतोष्णलक्षणेचस्पर्शाष्टके यथाक्रमं भावक्रमपरता भावनीया ॥अथ बहुपरं भावयति[भा.२७२५] जीवा १ पुग्गल २ समया ३, दव्व ४पएसा य ५ पज्जवा ६चेव।
थोवा १ नंता २ नंता ३, विसेसमहिया ४ दुवेऽनंता ५-६॥ इहपूर्वार्द्ध-पश्चार्द्धपदानांयथाक्रमंयोजनाकार्या। तद्यथा-'जीवाः' संसारि-मुक्तभेदभिन्नास्ते सर्वस्तोकाः,जीवेभ्यः पुद्गला अनन्तगुणाः, पुद्गलेभ्यः समयाअनन्तगुणाः, समयेभ्यो द्रव्याणि विशेषाधिकानि, द्रव्येभ्यः प्रदेशा अनन्तगुणाः, प्रदेशेभ्यः पर्याया अनन्तगुणाः । उक्तञ्च व्याख्याप्रज्ञप्तौ-एएसिणं भंते! जीवाणं पोग्गलाणं अद्धासमयाणं अद्धासमयाणं सव्वदव्वाणं सव्वपएसाणं सव्वपञ्जवाण य कयरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवाजीवा, पोग्गलाअनंतगुणा, अद्धासमयाअनंतगुणा, सव्वदव्वा विसेसाहिया, सव्वपएसाअनंतगुणा, सव्वपज्जवाअनंतगुणा ।अत्रामीषामित्थमल्पबहुत्वेहेतुभावना भगवतीटीकायां वृद्धैरुपदर्शिताऽऽस्ते, अतस्तदर्थिना सैवावलोकनीया ।।अथ प्रधानपरमाह[भा.२७२६] दब्वे सचित्तमादी, सचित्तदुपएसु होइ तित्थयरो।
सीहो चउप्पएसुं, अपयपहाणा बहुविहाउ॥ वृ-प्रधानएवपरःप्रधानपरःसचद्विधा-द्रव्यतोभावतश्च। तत्र 'द्रव्ये' द्रव्यतस्त्रिधासचित्तादि, आदिशब्दाद् मिश्रोऽचित्तश्च। तत्रसचित्तप्रधानस्त्रिंधाःद्विपद-चतुष्पदा-ऽपदभेदात्।तत्र द्विपदेषु तीर्थकरः प्रधानो भवति, चतुष्पदेषु सिंहः प्रधानो भवति, अपदेषु बहुविधाः सुदर्शनाभिधानजम्बूवृक्षप्रभृतयः पनसादयो वाप्रधानाः ।अचित्तः प्रधानपरोऽनेकधा, तद्यथा-धातुषु सुवर्णम्, वस्त्रेषु चीनांशुकम्, गन्धद्रव्येषु गोशीर्षचन्दनमित्यादि । मिश्रप्रधानपाराणि तुसुवर्णकटकाद्यलङ्कृतविग्रहाणि तीर्थकरादिद्रव्याण्येव द्रष्टव्यानि ।। भावप्रधानपरमाह[भा.२७२७] वण्ण-रस-गंध-फासेसु उत्तमा जे उ भू-दग-वनेसु ।
__ मणि-खीरोदगमादी, पुष्फ-फलादी यरुखेसु॥ वृ. “वण्ण-रस-गंध-फासेसु"त्ति तृतीयार्थे सप्तमी, ततो वर्णेन रसेन गन्धेन स्पर्शेन वा वर्णादिलक्षणैभर्विरित्यर्थः ये 'भू-दक-वनेषु' पृथिवीकाया-ऽकाय-वनस्पतिकायेषु उत्तमास्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org