________________
बृहत्कल्प-छेदसूत्रम् -२-१/३४
भावप्रधानपराः । तानेव पश्चार्द्धेनोदाहरति- "मणि-खीरोदग" इत्यादि । पृथिवीकायेषु पद्मरागवज्र-वैडूर्यादिमणयःप्रधानाः, अप्कायेषु क्षीरोदकादिपानीयानि 'वृक्षेषु' वनस्पतिषु पुष्प - फलादीनि प्रधानानि ।। गतः प्रधानपरः । अथ भावपरो व्याख्यायते - भावः - क्षायोपशमिकादिस्तदपेक्षया परः-भावान्तरवर्ती भावपरः । स च दहोदयिकमाववर्ती गृह्यते । तथा चाहआढणमभुट्ठाणं, वंदन संभुंजणा य संवासो । एयाइं जो कुणई, आराधन अकुणओ नत्थि ! [ भा. २७२९] अकसायं निव्वाणं, सव्वेहि वि जिनवरेहि पन्नत्तं । सो लब्भइ भावपरो, जो उवसंते अनुवसंतो ॥
[भा. २७२८]
वृ-आदरो अभ्युत्थानं वन्दनं सम्भोजनं संवासशचेत्येतानि पदानि य उपशान्तो भूत्वा करोति तस्याराधना अस्ति, यस्त्वेतानि न करोति तस्याराधना नास्ति । एतेन “जो उवसमइ तस्स अत्थि आराहणा” इत्यादिकः सूत्रावयवो व्याख्यातः । अथ किमर्थमादरादिपदानामकरणे आराधना नास्ति ? इत्याह-‘अकषायं' कषायाभावसम्भवि 'निर्वाणं' सकलकर्मक्षयलक्षणं सर्वैरपि जिनवरैः प्रज्ञप्तम् । अतो यः कश्चिदुपशान्तेऽपि साधावनुपशान्त आदरादिपदानामकरणेन सकषायः स भावपरो लभ्यते, औदयिकभाववर्त्तित्वात् ॥
१४४
अथाचार्यस्तमुपशान्तसाधुं प्रज्ञापयन् प्रस्तुतयोजनां कुर्वन्नाह
[भा. २७३०] सो वट्टइ ओदइए, भावे तं पुन खओवसमियम्मि । जह सो तुह भावपरो, एमेव य संजम-तवाणं ।।
वृ- भो भद्र ! 'सः' द्वितीयः साधुरद्याप्यौदयिके भावे वर्त्तते, त्वं पुनः क्षायोपशमिके भावे वर्त्तसे । अतो यथाऽसौ 'तव' त्वदपेक्षया भावपरस्तथा संयम - तपोभ्यामप्ययं परः- पृथग्भूत इति । अतस्त्वया न काचित् तदीया चिन्ता विधेया ॥ द्वितीयपदे कुर्यादप्यधिकरणम्, यत आह[ भा. २७३१] खेत्ताद कोविओ वा अनलविगिंचट्टया व जाणं पि । अहिगरणं तु करेत्ता, करेज सव्वाणि वि पयाणि ।।
वृ-क्षिप्तचित्तः आदिशब्दाद् ध्प्तचित्तो यक्षाविष्टद्येवा अनात्मवशत्वादधिकरणं कुर्यात् । 'अकोविदो वा' अद्याप्यपरिणतजिनवचनः शैक्षः सोऽप्यज्ञत्वादधिकरणं विदध्यात् । यद्वा 'जानन्नपि ' गीतार्थोऽपीत्यर्थः अनलस्य-प्रव्रज्याया अयोग्यस्य नपुंसकादेः कारणे दीक्षितस्य तत्कारणपरिसमाप्तौ विवेचनार्थं- परिष्ठापनाय तेन सहाधिकरणं करोति, कृत्वा चाधिकरणं सर्वाण्यप्यनादरादीनि पदानि कुर्यात् ॥
मू. (३५) नो कप्पइ निग्गंथाणवा निग्गंथीण वा वासावासासु चारए ॥ [भा. २७३२] अहिगरणं काऊण व, गच्छइ तं वा वि उवसमेउं जे । पुव्वं च अनुवसंते, खामेस्सं वयइ संबंधो ॥
वृ- अधिकरणं कृत्वा वाशब्दः पक्षान्तरद्योतकः कषायानुबद्धमना अन्यत्र ग्रामादौ गच्छति । यद्वा 'तत्' अधिकरणमुत्पन्नं श्रुत्वा कश्चिद् धर्मश्रद्धावान् तदुपशमयितुमागच्छति । “जे” शब्दः पादपूरणे । यदि वा पूर्वमनुपशान्तः सन्नन्यत्र ग्रामादौ गतः, तत्र च स्वयमन्योपदेशेन वा 'क्षमयिष्याम्यहं तं साधुम्' इतिपरिणाममुपगतो भूयस्तत्रैव ग्रामे व्रजति । तच्च गमनमनेन सूत्रेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org