SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं- ३५, [भा. २७३२] वर्षासु प्रतिषिध्यत इत्ययं पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्धः ॥ अमुमेव तृतीयसम्बन्धप्रकारं व्याख्याति - १४५ [भा. २७३३] अहवा अखामियम्मि त्ति कोइ गच्छेज्ज ओसवणकाले । सुभमवि तम्मि उ गमणं, वासावासासु वारेइ ॥ वृ- अथवाऽनुपशान्त एवान्यत्र गतः, तत्र च वर्षासु पर्युषणाकाले समायाते सति 'अधिकरणं मयान क्षमितम्, अतः कथं मे सांवत्सरिकप्रतिक्रमणं विधीयमानं शुद्धिमेष्यति ?' इति परिभाव्य यत्र द्वितीयः साधुश्चतुर्मास्यां स्थितोऽस्ति तत्राधिकरणं क्षमयितुं कश्चिद् गच्छति, तच्च तदीयं तत्र गमनं शुभमपि वर्षवर्षासु अनेन सूत्रेण वारयतीति । अनेन सम्बन्धेनायातस्यास्य व्याख्यानो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वर्षोपलक्षिता वर्षा वर्षवर्षास्तासु 'चरितुं' "चर गतिभक्षणयोः” इति धातुरत्र गत्यर्थो गृह्यते, ग्रामानुग्रामं पर्यटितुमित्यर्थः । यद्वा भक्षणार्थोऽप्यत्र गृह्यते, तथाहि-भक्षणं-समुद्देशनं तच्च यथा ऋतुबद्धे साधूनां तथा वर्षासु कर्तुं न कल्पते, तदानीं हि चतुर्थभक्तादिप्रत्याख्यानपरायणैर्भवितव्यम्, विकृतीनां चाभीक्ष्णं ग्रहणंन कर्तव्यमिति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः [भा.२७३४] वासावासो दुविहो, पाउस वासा य पाउसे गुरुगा । वासासु होंति लहुगा, ते च्चिय पुण्णे अनिंतस्स ॥ वृ - वसन्ति - एकत्र ग्रामादौ तिष्ठन्ति लोकाः प्रायो ऽस्मिन्निति वासः, वर्षा एव वासो वर्षावासः । सद्विधा-प्रावृड् वर्षारात्रश्च । तत्र श्रावण-भाद्रपदमासौ प्रावृड्डुच्यते, अश्विन कार्तिकौ तु वर्षारात्रः । आह च चूर्णिकृत् - पाउसो सावणो भद्दवओ अ, वासारतो अस्सोओ कत्तियओ अत्ति । विशेषचूर्णिकृत् पुनराह - पाउसो आसाढो सावणो अ, वासारत्तो भद्दवओ अस्सोओ अत्ति । तत्र यदि प्रावृषि ग्रामानुग्रामं चरन्ति तदा चतुर्गुरुकाः, वर्षासु विचरतश्चतुर्लघुकाः, 'त एव' चत्वारो लघुकाः पूर्णे वर्षारात्रे ‘अनिर्यतः' अनिर्गच्छतः प्रायश्चित्तम् ॥ तत्र प्रावृषि विहरतस्तावद् दोषानाह[भा. २७३५] वासावासविहारे, चउरो मासा हवंतऽनुग्घाया । आणाइणो य दोसा, विराधना संजमाऽऽयाए ॥ वृ-इह वर्षावासः श्रावणो भाद्रपदश्चाभिधीयते, तत्र विहारं कुर्वतश्चत्वारो मासाः 'अनुद्धाताः ' गुरवः प्रायश्चित्तं भवति, आज्ञादयश्च दोषाः, विराधना च संयमात्मविषया ॥ तामेव भावयति[भा. २७३६ ] छक्कायाण विराधन, आवडणं विसम - खाणु-कंटेसु । वुमण अभिहण रुक्खोल्ल, सावय तेने गिलाणे य ॥ वृ- वर्षासु विहरतः षट्कायानां विराधना । तथा 'आपतनं' वर्षे निपतति वर्षाकल्पा"दितीमनभयाद् वृक्षादेरधस्तिष्ठतस्तदीयशाखादिना शिरस्यभिघातो भवेत् यद्वा 'आपतनं' कर्दमपिच्छिले पथि स्खलनम् । विषमे वा भूप्रदेशे नपतेत् । 'स्थाणुः' कीलकः सः कर्दमे जले वाऽ६श्यमानः पादयोरास्फलेत् । कण्टकैर्वा पादतले विध्येत् । उदकवाहेन वा गिरिनद्या वा ‘वाहनम्' उत्क्षिप्यान्यत्र नयनं भवेत् । तथा गिरिनदीतटिकया मार्गे गच्छतोऽभिघातो भवेत् । "रुक्खोल्ल” त्ति यद्यार्द्रीकरणभयाद् वृक्षमालीयते, स च वृक्षः प्रबलवातप्रेरिततया पतेत् तत्रात्म 19 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy