SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४२ [भा. २२५० ] पायठिओ दोहि नयणेहि पिच्छईरहिय मोत्तु एक्केणं । तं पुन सई सकामं, निरंतरं होइ उ पकामं ।। बृहत्कल्प - छेदसूत्रम् -२-१/१० वृ- पादाभ्यां भुवि स्थितो द्वाभ्यां नयनाभ्यां यत् प्रेक्षते तदरहितम्, यत् पुनरेकेन नयनेन 'मुक्त्वा ' परित्यज्य निरीक्षते तद् रहितम् । 'तत् पुनः' उभयमपि 'सकृद्' एकवारं निरीक्षणं सकामम्, 'निरन्तरम्' अनेकशस्तदेव प्रकामं भवति ॥ [भा.२२५१] अहवण समतलपादो, दोहि वि रहिअं तु अग्गपाएहिं । इट्टालादी विरहं, एक्केक्क सकामग पकामं ॥ वृ- "अहवण” त्ति अथवा समतलपादो यद् निरीक्षते तद् अरहितम्, यत् पुनरग्रपादाभ्यां द्वाभ्यामपि स्थितो निरीक्षते तद् रहितम् । अथवा यदिट्टाल-लेष्टुकाद्यारूढः पश्यति तद् अरहितम्, तदपरं रहितम् । एतदरहितं रहितं च एकैकं सकामं प्रकामं च मन्तव्यम् ॥ अहवण उच्चावेउं, कर-विंटय-पीढगादिसुं काउं । ताई वा वि पमोत्तुं, रहियं विट्ठो पुन निसिज्जं ॥ [भा. २२५२] बृ- अथवा यदि संयता नीचैः प्रदेशे स्थिताः संयत्यस्तूच्चे ततः शिरः शरीरं वा 'उच्चयित्वा' उच्चैः कृत्य यन्निरीक्षते यद्वा करे - हस्ते विण्टिकायां पीठकादिषु वा शीर्षं कृत्वा यन्निरीक्षते तद् रहितम्; अथवा यतयः उच्चे स्थिता यतिन्यस्तु नीचे ततः करादिषु पूर्वन्यस्ते शिरसि अत्युच्चत्वादनवलोकमानो यत् 'तानि' कर - विण्टिकादीनि 'प्रमुच्य' उत्सार्य पश्यति तद् रहितम् । एतत् त्वग्वर्त्तनं कुर्वतो रहितमुक्तम् । “बिट्टो पुन निसिज्जं” ति उपविष्टः पुनर्निषद्यां मुक्त्वा यत् पश्यति तद् रहितम् । तद्विपरीतं त्रिष्वपि स्थानेष्वरहितं द्रष्टव्यम् ॥ " [भा. २२५३] दिट्ठीसंबंधो वा, दोण्ह वि रहियं तु अन्नतरगत्ते । अप्पो दोसो रहिएष गुरुकतरो उभयसंबंधे ॥ वृ- अथवा 'द्वयोरपि' संयत-संयत्योर्यो दृष्टेः दृष्टेश्च सम्बन्धस्तदरहितम् । रहितं पुनरन्यतरगात्रे निरीक्षणम् । अत्र चाल्पतरो दोषः 'रहिते' एकतरदृष्टिसम्बन्धे, अरहिते तूभयद्दष्टिसम्बन्धे गुरुकतरो दोषः ॥ अत्र प्रायश्चित्तमाह [भा. २२५४] दोहि वि अरहिय रहिए, एक्केक्क सकामए पकामे य । गुरुगा दोहि विलहुगा, लहु गुरुग तवेण दोहिं पि ॥ वृ-द्वाभ्यामपि नयनाभ्यां निरीक्षणमित्यादिकं यदनेकविधमरहितं भणितं तत्र सकामे चत्वारो गुरवः 'द्वाभ्यामपि ' तपः- कालाभ्यां लघवः, तत्रैव प्रकामे चत्वारो गुरवः तपोलघुकाः । रहिते तु सकामे चतुर्गुरुकाः तपसा गुरवः, तत्रैव प्रकामे चतुर्गुरवो द्वाभ्यामपि गुरवः । यत्तु दृष्टिसम्बन्धरूपमरहितम् अन्यतरगात्रनिरीक्षणरूपं तु रहितं व्याख्यातं तत्रैवं प्रायश्चित्तयोजना-रहिते सकामे चतुर्गुरु उभयलघुकम्, प्रकामे चतुर्गुरु कालगुरुकम्, अरहिते सकामे चतुर्गुरु तपोगुरुकम्, अरहिते प्रकामे चतुर्गुरु उभयगुरुकम् ॥ [भा. २२५५] एक्केक्काउ पयाओ, साहीमाईसु ठायमाणाणं । निक्कारणट्ठियाणं, सव्वत्थ वि अविहिए दोसा ।। वृ- अरहित-रहित-सकाम-प्रकामनिरीक्षणानामेकैकस्मात् For Private & Personal Use Only Jain Education International पदात् साहिकायाम् आदिशब्दात् www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy