________________
उद्देशक : १, मूलं - १०, [भा. २२४५]
वा परस्परं दृष्ट्वा 'किमेष मामभिधारयति ?' इति शङ्का वा कुर्यात्, स्मृतिकरणं वा भुक्तभोगिनाम्, चारित्रस्य वा भ्रंशना ब्रह्मव्रतविराधनया भवेत्, “चयइ"त्ति सर्वथैव वा संयमं त्यजति, अवधावनं कुर्यादित्यर्थः । इदमेवोच्च-नीचपदद्वयं व्याचष्टे
[भा. २२४६ ] माले सभावओ वा, उच्चम्मि ठिओ निरिक्खई हेट्टं । बेव निवन्नवा, तत्थ इमं होइ पच्छित्तं ॥
वृ- कदाचित् ते संयताः 'माले' द्वितीयभूमिकादौ स्वभावतो वा उच्चे देवकुलादौ स्थिता भवेयुः, संयत्यस्तु तद्विपरीते नीचे, ततोऽसौ तत्रोर्द्धवस्थित उपविष्टो वा 'निपन्नो वा' त्वग्वर्त्तित इत्यर्थः यदि संयतीमधस्ताद् निरीक्षते, तत्रेदं प्रायश्चित्तं भवति ॥
[भा. २२४७] संतर निरंतरं वा, निरिक्खमाणे सई पकामं वा । काल- तवेहि विसिट्ठो, भिन्नो मासो तुयट्टम्मि ॥
वृ- 'सान्तरं नाम' यद् विण्टिकया हस्तादिना वा उच्चो भूत्वा शिरः शरीरं वा उच्चैस्तरं कृत्वा पश्यति । 'निरन्तरं नाम' विण्टिकादिकं विना स्वभावस्थ एव प्रेक्षते । तत्र त्वग्वर्त्तितः सन् निरन्तरं 'सकृद्' एकवारं संयतीं पश्यति भिन्नमासो द्वाभ्यामपि तपः- कालाभ्यां लघुः । त्वग्वर्त्तित एव निरन्तरं ‘प्रक्रामम्' असकृत्प्रेक्षते भिन्नो मासः कालगुरुस्तपोलघुः । अथ स्वभावस्थः प्रेक्षमाणस्तां न पश्यति ततः ‘सान्तरं' विण्टिकामन्यद्वा किञ्चिदुच्छीर्षके कृत्वा सकृत् पश्यति भिन्नो मासस्तपोगुरु काललघुः । सान्तरमेव प्रक्रामं प्रेक्षते भिन्नो मासो द्वाभ्यामपि तपः कालाभ्यां गुरुकः । एवं त्वग्वर्त्तनं कुर्वाणस्य भणितम् ॥
[भा.२२४८] एसेव गुरु निविट्टे, ट्ठियम्मि मासो लहू उ भिक्खुस्स । एक्केक ठाण वुड्डी, चउगुरुअंतं च आयरिए ॥
४१
-
वृ- निविष्टो नाम निषण्णस्तस्यापि प्रेक्षमाणस्य एष एव निरन्तर - सान्तरादिकोऽभिलापो वक्तव्यः, नवरं प्रायश्चित्तं स एव भिन्नमासो गुरुकश्चतुर्ष्वपि स्थानेषु तपः कालविशेषितस्तथैव कार्य। स्थितो नाम ऊर्द्धस्थस्तस्याप्येवमेवाभिलापः, नवरं प्रायश्चित्तं लघुमासस्तपः कालविशेषितः । एवं भिक्षोः प्रायश्चित्तमुक्तम्, वृषभोपाध्यायाचार्याणां यथाक्रममेकैकस्थानवृद्धि कर्त्तव्या यावदाचार्यस्य चतुर्गुरुकम् । तद्यथा-वृषभस्य गुरुभिन्नमासादारब्धं गुरुमासे, उपाध्यायस्य मासलघुकादारब्धं चतुर्लघुके, आचार्यस्य गुरुमासिकादारब्धं चतुर्गुरुके निष्ठामुपयातीति ।।
एष प्रथम आदेशः । अथ द्वितीयमाह
[भा. २२४९] दोहि वि रिय सकामं, पकाम दोहिं पि पेक्खई जो उ । चउरो य अनुग्घाया, दोहि वि चरिमस्स दोहि गुरु ।।
बृ- "दोहि वित्ति द्वाभ्यामपि नयनाभ्यां यन्निरीक्षते तदरहितम्, रहितं तु यदेकेन लोचनेन निरीक्षते । एतदुभयमपि प्रत्येकं द्विधा - सकामं प्रकामं च । तत्र सकाममेकशः प्रकाममनेकशः । "दोहिं पि पेक्खई जो उ"त्ति द्वाभ्यामपि रहिता -ऽरहिताभ्यां सकाम- प्रकामाभ्यां वा यः प्रेक्षते तस्य चत्वारो मासा अनुद्धाताः 'द्वाभ्यामपि ' तपः- कालाभ्यां विशेषिताः प्रायश्चित्तम् । 'चरमस्य' चतुर्थभङ्गवर्तिनः 'द्वाभ्यामपि' तपः- कालाभ्यां गुरुकाः कर्त्तव्याः । एष नियुक्तिगाथासमासार्थः ।।
अथास्या एव भाष्यकृद् व्याख्यानमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org