________________
बृहत्कल्प - छेदसूत्रम् -२-१/१०
वृ- मूलचिकित्सां यूयं न कुरुथ, नहि तृष्णा 'तोयम्' उदकं विना छिद्यते, अस्माभिरपि 'एताः ' एवंविधाः क्षपणप्रभृतिका वेदनाः 'खादिताः' असकृदासेविताः परं तथाप्यसौ मोहो न प्रशान्तः ॥ [भा. २२४० ] मोहग्गिआहुइनिभाहि ईय वायाहि अहियवायाहिं ।
धंतं पि धइसमत्था, चलंति किमु दुब्बलधिईया ||
वृ-मोहाग्नेः 'आहुतिनिभाभि' घृतादिप्रक्षेपकल्पाभि 'इति' एतादृग्भिर्वाग्भिः अधिकम्-अत्यर्थम् अहिते वा नरकादौ पातयन्तीति अधिकपाता अहितपाता वा ताभि एवंविधाभि "धंतं पि"त्ति अतिशयेनापि ये धृतिसमर्थास्तेऽपि 'चलन्ति' क्षुभ्यन्ति, किं पुनः 'धृतिदुर्बलाः' तथाविधमानसावष्टम्भविकलाः ? । एवं संयतीमपि दुर्बलां प्रतीत्येदमेव वक्तव्यम् ॥
४०
गतमेका साहिकेति द्वारम् । अथ सप्रतिमुखानि द्वाराणीति द्वारमाह[भा. २२४१] सपडिदुवारे उवस्सए, निग्गंधीणं न कप्पई वासो । दहूण एकमेकं चरित्तभासुंडणा सज्जो ॥
वृ- 'सप्रतिद्वारे' अभिमुखद्वारयुक्ते निर्ग्रन्थीनामुपाश्रये विद्यामाने साधूना न कल्पते वासः । यदि वसन्ति ततस्तत्राभिमुखद्वारयोरुपाश्रययोः 'एकैकम्' अन्योऽन्यं दृष्ट्वा चारित्रभ्रंशना संयतीसंयतयोः 'सद्यः' तत्क्षणादेवोपजायते । किञ्च
[भा. २२४२]
घम्मम्मि पवायट्ठा, नितां दट्टु परोप्ररं दो वि । लज्जा विसंति निंति य, संका य निरिक्खणे अहियं ॥
वृ- ग्रीष्मकाले " धम्मम्मि 'त्ति विभक्तिव्यत्ययद् घर्मेणोद्बाध्यमानः संयतः प्रवातार्थं बहिर्निर्गच्छति, संयत्येवं निर्गच्छति । ततो द्वावपि परस्परं दृष्ट्वा लज्जया भूयः प्रविशतः, ततः संयतः प्रविष्ट इति कृत्वा संयती भूयोऽपि निर्गच्छति, एवं संयतोऽपि । तत एवं द्वितीयं तृतीयं वा वारं निर्गच्छतोः प्रविशतोश्च शङ्का भवति नूनमेष एषा वा मामभिधारयति । एकाग्रया च दृष्ट्या निरीक्षणेऽधिकं शङ्का भवेत् ॥ [भा. २२४३]
वीसत्थऽवाउडऽन्नोन्नदंसणे होइ लज्जवोच्छेदो ।
ते चेव तत्थ दोसा, आलावुल्लावमादीया ॥
वृ- अभिमुखद्वारप्रयुक्तयोरुपाश्रययोः विश्वस्ती सन्तौ संयती-संयतौ कदाचिदपावृतौ भवतः । तत एवमन्योन्यदर्शने लज्जाया व्यवच्छेदो भवति । ततश्च तत्रालापोल्लापादयो दोषास्त एव मन्तव्याः ॥ गतं द्वाराणि वा सप्रतिमुखानीति द्वारम् । अथ पार्श्वतो वा मार्गतो वेति द्वारं भावयति
[ भा. २२४४] एमेव य एक्कतरे, ठियाण पासम्मि मग्गओ वा वि । वइअंतर एगनिवेसणे य दोसा उ पुव्वुत्ता ॥
वृ- एवमेव संयतीप्रतिश्रयस्यैकतरस्मिन् पार्श्वे 'मार्गतो वा' पृष्ठतो वृत्यन्तरे एकस्मिन् निवेशने वा स्थितानां दोषाः 'पूर्वोक्ताः एव' आलाप-संलापादयो मन्तव्याः ॥
अथोच्च-नीचद्वारं भावयति
[भा. २२४५ ]
उच्चे नीए व ठिआ, दट्टू परोप्परं दुवग्गा वि । संका व सईकरणं, चरितभासुंडणा चयई ।
वृ- उच्चे नीचे वा स्थाने स्थितौ 'द्वावपि वर्गों' साधु-साध्वीलक्षणौ भवेताम्, तत्र साधुः साध्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org