________________
उद्देशक : १, मूलं- १०, [भा. २२३४]
[ भा. २२३४] एगा व होज साही, दाराणि व होज्ज सपsिहुत्ताणि । पासे व मग्गओ वा, उच्चे नीए व धम्मका ॥
३९
वृ-तत्रानेकद्वारे एकवगडे ग्रामादौ साधु-साध्वीप्रतिश्रययोरेका वा 'साहिका' गृहपङ्क्तिर्भवेत्। द्वाराणि वा परस्परं 'सप्रतिमुखानि' अभिमुखानि भवेयुः । अथवा साध्वीप्रतिश्रयस्य पार्श्वतो वा मार्गतो वा उच्चे वा नीचे वा स्थाने स्थिता भवेयुः । तत्र च स्थितानां धर्मकथां कोऽप्यशुभेन भावेन कुर्यादिति नियुक्तिगाथासङ्क्षेपार्थः । अथ विस्तरार्थमाह
[भा. २२३५] वइअंतरियाणं खलु, दोण्ह वि वग्गाण गरहिओ वासो । आलावे संलावे, चरित्तसंभेइणी विकहा ॥
वृ- एकस्यां साहिकायां वृत्या अन्तरितयोः संयत-संयतीरूपयोर्द्वयोरपि वर्गयोरेकत्र वासः ‘गर्हितः’निन्दितः, तीर्थकरैः प्रतिक्रुष्ट इत्यर्थः । यतस्तत्र संयत-संयत्योः कायिक्यादिव्युत्सर्जनार्थं निर्गतयोः परस्परम् 'आलापे' सकृज्जल्पे 'संलापे' पुनः पुनः सम्भाषणे सञ्जाते सति चारित्रसम्भेदिनी विकथा वक्ष्यमाणरीत्या भवेत् ।। अथैकसाहिकायामेव दोषानाहउभयेगयरट्ठाए, व निग्गया दट्टु एकमेकं तु । संका निरोहमादी, पबंध आतोभया वाऽऽसु ।।
[भा.२२३६]
वृ- उभयं-संज्ञा- कायिकीरूपं तस्य एकतरस्य वा व्युत्सर्जनार्थं निर्गतयोः संयती-संयतयोरेकैकं दृष्ट्वा शङ्का भवति । तथाहि-संयतः कायिक्यादिव्युत्सर्जनार्थं निर्गतः संयतीं दृष्ट्वा प्रतिनिवृत्तः, पुनरपि कायिकी -संज्ञाभ्यामुद्बाध्यमानो निर्गतः, ततः संयती तं दृष्ट्वा शङ्का करोति नूनमेष मां कामयते; एवं संयतस्यापि संयतीं प्रविशन्तीं पौनःपुन्येन प्रविशति निर्गच्छति च तन्नूनमेनामेनं वा अभिलषतीति । निरोधो वा कायिकी -संज्ञयोर्भवेत् । आदिशब्दादनागाढपरितापनादिपरिग्रहः । कथाप्रबन्धो वा वक्ष्यमाणलक्षणो भवेत् । ततश्चात्मसमुत्थेन उभयसमुत्थेन वा वाशब्दात् परसमुत्थेन वादोषेण 'आशु' क्षिप्रं संयमविराधना भवेत् ॥ कुमारप्रव्रजितस्य वा इत्थं कौतुकमुपजायते[भा. २२३७] परसामि ताव छिद्दं, वन्न पमाणं व ताव से दच्छं ।
इति छिड्डेहि कुमारा, झायंती कोउहल्लेणं ॥
वृ- पश्यामि तावत् किमपि च्छिद्रम् येन 'वर्णं' गौरत्वादिकं 'प्रमाणं वा' शरीरोच्छ्रयरूपं “से” तस्याः-विवक्षितसंयत्याः सत्कं तावदहं द्रक्ष्यामि इति कृत्वा च्छिद्रैः 'कुमाराः' अभुक्तभोगिनः कुतूहलेन 'ध्यायन्ति' अवलोकन्ते, ततस्तेषां प्रतिगमनादयो दोषाः ॥ कथाप्रबन्धं व्याख्यानयति[भा. २२३८ ] दुब्बलपुच्छेगयरे, खमणं कं तं ति मोहभेसज्जं । तह वि य वारियवामो, बलियतरं बाहए मोहो ।
वृ- 'एकतरः ' संयतः संयती वा दुर्बलो भवेत् । तत्र संयतं संयती पृच्छति-किमेवं दुर्बलोऽसि ? स ब्रूते - क्षपणं करोमि । तत्र संयती प्राह- 'किं' किमर्थं 'तत्' क्षपणं ज्येष्ठार्येण क्रियते । संयतः प्राह- 'मोहभैषज्यं' मोहचिकित्सनार्थमौषधमिदमासेव्यते तथाप्यसौ मोहो वारितः सन् वामःप्रतिकूलो वारितवामः 'बलिकतरम्' अतिशयेन मां बाधते ॥ संयती प्रतिवक्ति
[भा. २२३९] मूलतिगिच्छं न कुणह, न हु तण्हा छिजए विना तोयं । अम्हे वि वेयणाओ, खइया एआ न वि पसंतो ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org