________________
३८
बृहत्कल्प-छेदसूत्रम् -२-१/१०
यतश्चैवमतः[भा.२२२८] उप्पन्ने अहिगरणे, गणहारि पवत्तिणिं निवारेइ ।
अह तत्थ न वारेई, चाउम्मासा भवे गुरुगा। वृ-उत्पन्नेऽधिकरणे गणधारीप्रवर्तिनी निवारयति।अथ तत्रगणधारीनवारयति ततश्चतुर्मासा गुरुका भवेयुः । अतो गणधरौ द्वावपि मिलित्वा संयतीप्रतिश्रयं गत्वा प्रवर्तिनी पुरतः कृत्वा स्वस्वसंयतीरुपशमतः ॥ तत्र वास्तव्यसंयत्य इत्थमुपशाम्यन्ते[भा.२२२९] पाहुन्नं ताण कयं, असंखडं देह तो अलज्जाओ।
पव्वट्ठिय इय अजा, उवालभंताऽनुसासंति॥ वृ-'प्राघुण्यम्' आतिथ्यं 'तासाम्' आगन्तुकसंयतीनांशोभनं कृतम्यदेवमलज्जाः सत्योऽसङ्खडं 'दत्थ' कुरुथ । पूर्वस्थिता आचार्या स्वकीया आर्या उपालभमानाः ‘इति’ एवमनुशासते।।
आगन्तुकसंयतीनामुपशमनोपायः पुनरयम्[भा.२२३०] एगंतासिं खेत्तं, मलेह बिइयं असंखडं देह ।
आगंतू इय दोसं, झवंति तिक्खाइ-महुरेहिं ।। वृ-एकंतावत् ‘तासां' वास्तव्यसंयतीनां सत्कं क्षेत्रं मलयथ' विनाशयथ, द्वितीयंपुनरसङ्खडं 'दत्य गुरुथ। आगन्तुका आचार्या इति' एवं 'दोषम् अधिकरणलक्षणंतीक्ष्ण-मधुरादिभिर्वचनैः "झवंति"त्ति विध्यापयन्ति, उपशमयन्तीति यावत् । ततश्च[भा.२२३१] अवराह तुलेऊणं, पुव्ववरद्धं च गणधरा मिलिया।
बोहित्तुमसागारिए, दिति विसोहिं खमावेउं ।। वृ-द्वावपिगणधरौ मिलितावपराधं 'तोलयित्वा' यस्या यावानपराधस्तंपरस्परसंवादेन सम्यग् निश्चित्यया पूर्वापराद्धा-पूर्वमपराद्धं यया सा तथा ताम् ‘असागारिके' एकान्ते बोधयित्वा ततो द्वितीयां तस्याः पाश्रवात् क्षमापयतः । क्षमापयित्वा चोभयोरपि यथोचितां 'विशोधि' प्रायश्चित्तं प्रयच्छत इति । गतः प्रथमो भङ्गः। अथ द्वितीयं भङ्गं बिभावयिषुराह[भा.२२३२] अभिनिदुवारऽभिनिक्खमणपवेसे एगवगडि ते चेव।
जं इत्थं नाणत्तं, तमहं वोच्छं समासेणं ॥ वृ-द्वितीयभङ्गो नाम यद् ग्रामादिकम् अभिनिद्वरम्-अनेकद्वारम् अत एवाभिनिष्क्रम-प्रवेशं परमेकवगडं तत्रत एव दोषा भवन्तियेप्रथमभङ्गे प्रोक्ताः । यत् पुनः ‘अत्र' द्वितीयभङ्गे नानात्वं तदहं वक्ष्ये समासेन ॥ प्रतिज्ञातमेव निर्वाहयति[भा.२२३३] तह चेव अन्नहा वा, वि आगया ठंति संजईखेत्ते।
भोइयनाए भयमा, सेसंतंचेविमं चऽनं ॥ वृ-'तथैव' “सोऊणयसमुदाणंगच्छंआनित्तु देउले ठाइ।" इत्यादिना प्रथमभङ्गोक्तप्रकारेणव अन्यथा वा संयतीक्षेत्रेआगताः सन्तस्तिष्ठन्ति।तत्रच स्थितानां तेषां भोगिकज्ञाते भजना कार्या, यदि संयतीनां विचारभूम्यादिमार्गे स्थितास्ततो भवति भोगिकज्ञातम् अन्यथा तु न भवतीति भावः । शेषं' सर्वमपि प्रायश्चित्तादि 'तदेव' प्रथमभङ्गोक्तं ज्ञातव्यम् ।
इदं च ‘अन्यद्' अभ्यधिक-द्वारकदम्बकमभिधीयते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org