________________
उद्देशक : १, मूलं - १०, [भा. २२२२]
३७
बृ- यदि तत्रैव परस्परमुपशान्तं तदसङ्घडं ततः सुन्दरमेव । अध नोपशान्तं ततः 'गणिन्याः ' स्वस्याः स्वस्याः प्रवर्त्तिन्याः कथयन्ति । यदि न कथयन्ति ततश्चतुर्गुरवः । ततस्ते प्रवर्त्तिन्यौ मधुरया गिरा प्रज्ञाप्योपशमयतः । तथापि 'अतिष्ठति' अनुपरते 'द्वे अपि' गणिन्यौ गत्वा स्वेषां स्वेषां गणधारिणां कथयतः । यदि न कथयतस्ततश्चत्वारो गुरुकाः ॥ ततः प्रवर्त्तिन्या कथिते गणधरेण किं विधेयम् ? इत्यत आह
[भा. २२२३]
उप्पन्ने अहिगरणे, गणाहारिनिवेदनं तु कायव्वं । जइ अप्पणा भणेज्जा, चाउम्मासा भवे गुरुगा ।।
वृ- 'अधिकरणे' असा डे उत्पन्ने सति प्रवर्त्तिनीमुखादाकर्ण्य तेन गणधरेण द्वितीयस्य गणधारिणो निवेदनं कर्त्तव्यम् । यदि स गणधर आत्मनैव गत्वा द्वितीयगणधरसत्कां व्रतिनीं 'भणेत्' उपालम्भेत ततश्चतुर्मासा गुरुका भवेयुः ॥
[भा.२२२४] वतिणी वतिणि वतिणी, व परगुरुं परगुरू व जइ वइणिं । जंप ती वि गुरुगा, तम्हा सगुरूण साहेज्जा ॥
वृ-यदि व्रतिनी व्रतिनीं 'जल्पति' उपालभते, व्रतिनी वा यदि 'परगुरुम्' अन्यसंयतीगणधरं जल्पति, परगुरुर्वा यदि व्रतिनीं जल्पति तत एतेषु त्रिष्वपि चतुर्गुरुकाः, तस्मात् स्वगुरूणां कथयेत्, उपलक्षणत्वात् स्वव्रतिनीं चोपालम्भेत ॥
अथ परव्रतिनीमुपालम्भमानस्य को दोषः स्यात् ? इत्यत्रोच्यते
[ भा. २२२५] जाणामि दूमियं भे, अगं अरुयम्मि जत्थ अक्कंता । को वा एअं न मुणइ, वारेहिह कित्तिया वा वि ।।
वृ-सा परव्रतिनी भण्यमाना ब्रूयात्-जानाम्यहं यद् दूनं भवतामङ्गम्, 'यत्र' यस्मिन् 'अरुषि' व्रणे युष्मदीयसंयतीं प्रतिब्रुवाणया मया यूयमाक्रान्ता, को वा एनमर्थं न जानाति ? कियतो वा ब्रुवतो निवारयिष्यथ ? यद्यहंवारिता सती न जल्पिष्यामि तर्ह्यन्येऽपि जल्पिष्यन्तीति ॥ अपि च
[ भा. २२२६] निग्गंधं न वि वायइ, अलाहि किं वा वि तेण भणिएणं । छाएउं च पभायं, न वि सक्का पडसएणावि ॥
वृ- नहि निर्गन्धं वायुर्वाति, किन्तु या शस्य वनखण्डादेर्मध्येन समायाति ताद्दग्गन्धसहित एव, एवं भवतामप्यस्या उपरि य ईशः पक्षपातः सन निसम्बन्ध इति भावः । अथवा "अलाहि"त्ति अलमनेन वचनेनाभिहितेन, मर्मानुवेधित्वात् । किं वा तेन भणितेन कार्यम् ? यतः प्रभातं सञ्जातं सद् न पटशतेनापि च्छादयितुं शक्यम् । इत्थं तन्मुखाद् निर्गते असद्भूतार्थेऽपि दूषणे जले पतिते इव तैलबिन्दौ सर्वतः प्रसर्पत सूरीणां महान् छायाघातो जायते, स च तत्त्वत आत्मकृत एवेति । अत्र दृष्टान्तमाह[भा. २२२७]
मज्झत्थं अच्छंतं, सीहं गंतूण जो विबोहेइ ।
अप्पवहाए होई, वेयालो चेव दुज़ुत्तो
वृ- 'मध्यस्थम्' उदीसीनं तिष्ठन्तं सिंहं गत्वा उपेत्य यः कश्चिद् 'विबोधयति' विशेषेणपार्ष्णिप्रहारादिना बोधयति स विबोधितः सन् तस्यात्मवधाय भवति । वेताल इव वा दुष्प्रयुक्तो यथा साधकमेवोपहन्ति, एवमियमप्याचार्येण प्रबोधिता सती तस्यैव च्छायाघातमुपजनयति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org