________________
उद्देशक : १, मूलं-१०, [भा. २२५५]
सप्रतिमुखद्वारेषु पुरतो वा मार्गतो वा उच्चे वा नीचे वा सर्वत्रापि निष्कारणे तिष्ठतां कारणे वा 'अविधिना' अयतनया स्थितानाममी दोषा भवेयुः ।। [भा.२२५६] दिट्ठा अवाउडा हं, भयलज्जा थद्ध होज खित्ता वा।
पडिगमणादी व करे, निच्छक्काओ व आउभया॥ वृ-काचित् संयती विचारभूमौ प्राप्ता संयतमागच्छन्तं दृष्टवा चिन्तयेत्-अहो ! अहं ज्येष्ठार्येणापावृता दृष्टा, ततः सा भयेन लज्जया वा स्तब्धा क्षिप्तचित्ता वा भवेत् । यद्वा काश्चिदपावृता दृष्टाः सत्यः ‘कथममीषांपुरतः स्थास्यामः?' इति कृत्वा प्रतिगमनादीनि कुर्यु। अथवा 'दृष्टं यद् द्रष्टव्यम्' इत्यभिसन्धाय 'निच्छक्काः' निर्लज्जाः काश्चिद् भवेयुः। ततश्चात्मसमुत्थास्तदुभयसमुत्थाश्च दोषा भवन्ति । यदि वा[भा.२२५७] तासिं कक्खंतर-गुज्झदेस-कुच-उदर-ऊरुमादीए।
निग्गहियइंदियस्स वि, दटुं मोहो समुज्जलति ।। वृ-'तासां’ संयतीनांकक्षान्तर-गुह्यदेश-कुचोदरोरुप्रभृतीन्अवयवान्दृष्ट्वा निगृहीतेन्द्रियस्यापि मोहः समुज्ज्वलति किं पुनरितरस्य ? इति । ततश्चामी दश कामवेगा उत्पद्यन्ते[भा.२२५८]चिंता य १ दटुंमिच्छइ २, दीहं नीससइ ३ तह जरो ४ दाहो ५।
भत्तअरोयग ६मुच्छा ७, उम्मत्तो ८ न याणई ९ मरणं १०॥ वृ-'चिन्ता नाम' शोचन्नास्ते १ द्रष्टुमिच्छति २ दीर्घ निश्वासिति ३ तथा ज्वरो ४ दाहः ५ भक्तस्यारोचकः-अरुचिमूर्छा७उन्मत्तःसञ्जायते ८न जानाति किञ्चदपि ९ मरणमुपजायते १०॥ एनामेव नियुक्तिगाथां विवृणोति[भा.२२५९] पढमे सोयइ वेगे, दद्रुतं इच्छई बिइयवेगे।
नीससइ तइयवेगे, आरुहइ जरो चउत्थम्मि । [भा.२२६०] डज्झइ पंचमवेगे, छटे भत्तं न रोयए वेगे।
__सत्तमगम्मि य मुच्छा, अट्ठमए होउ उम्मत्तो॥ [भा.२२६१] नवमे न याणइ किंची, दसमे पाणेहि मुच्चई मनूसो।
एएसिं पच्छित्तं, वोच्छामि अहानुपुव्वीए । वृ-प्रथमेशोचति वेगे-हा! कथं तय सह सम्पत्तिर्भविष्यति? इति विचिन्तयतीत्यर्थः । द्रष्टुं तां पूर्वदृष्टां पुनरपीच्छति द्वितीयवेगे २ । निश्वसिति तृतीयवेगे दीर्घान्निश्वासान् मुञ्चति ३ । आरोहतिज्वरश्चतुर्थे ४ । दह्यतेऽङ्गं पञ्चमवेगे ५। षष्ठे भक्तं न रोचते वेगे ६। सप्तमे वेगे मूर्छा ७।अष्टमे उन्मत्तो भवति । नवमे न जानाति किश्चिदपि, निश्चेष्टो भवतीत्यर्थः ९। दशमे वेगे प्राणैर्मुच्यते मनुष्यः १०। एतेषांदशानामपिवेगानां प्रायश्चित्तंयथाऽऽनुपूर्व्या वक्ष्ये अभिधास्ये॥
तदेवाह[भा.२२६२] मासो लहुओ गुरुओ, चउरो मासा हवंति लहु-गुरुगा।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगंच॥ प्रथमे वेगे लघुको मासः । द्वितीये गुरुको मासः । तृतीये चत्वारो मासा लघुकाः । चतुर्थे चत्वारो मासा गुरुकाः । पञ्चमे षण्मासा लघवः । षष्ठे षण्मासा गुरवः । सप्तमे च्छेदः । अष्टमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org