SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-३८, [भा. २८०१] १६१ वृ-एवमेव प्रोषिते' देशान्तरगतेऽपिभोगिके दोषा वक्तव्याः। तथाहि-तेन भोगिकेनदेशान्तरं गच्छता ये महत्तरकाः स्थापितास्तैः आदिशब्दाद् महत्तरिकया व्यक्षरिकया कर्मकरेण वा तयोरविरतिका-संयतयोस्तूष्णीकदान-ग्रहणं दृष्ट्वा भोगिकस्यभूयः समागतस्य कथितम्। ततश्च सः “एकतरस्य' संयतस्याविरतिकाया वा उपरि प्रद्वेषं गच्छेत्, प्रद्विष्टश्चाविरतिकां संयतं वा हन्या निष्काशयेद्वा बध्नीयाद्वा निरुन्ध्याद्वा विमानयेद्वा, व्यवच्छेदं वैकस्यानेकेषांवा कुर्यात्। अत्रच मैथुनशङ्कायां चत्वारो गुरुकाः, निशङ्कितेमूलम्।वेण्टलशङ्कायांचत्वारो लघुकाः,निशङ्किते चत्वारो गुरवः । सविशेषतराश्च दोषाः प्रोषिते भोगिके भवन्ति, ते च यथास्थानं प्रागेवोक्ताः॥ [भा.२८०२] एवं ता गेण्हते, गहिए दोसा पुनो इमे होति। घरगयमुवस्सए वा, ओभासइ पुच्छए वा वि ।। वृ-एवं तावद् वस्त्रं गृह्णतो दोषा उक्ताः, गृहीते पुनर्वस्त्रे ‘एते' वक्ष्यमाणा दोषा भवन्तितस्मिन् गृहे यदा स एव साधुरन्यस्मिन् दिवसे गतो भवति सावाअविरतिका तस्य साधोरुपाश्रये आगता भवति तदा मैथुमवभाषते-त्वं ममोद्भ्रामको भव । वेण्टलंवा सा पृच्छति-कथय किमपि तादृशं वशीकरणं येन भोगिको मे वशीभवति ॥ इदमेव स्पष्टयति[भा.२८०३] पुच्छाहीणं गहियं, आगमनं पुच्छणा निमित्तस्स । छिन्नं पि हुदायव्वं, ववहारो लब्मए तत्थ ॥ वृ-ग्रहणकाले 'केन कार्येण मे प्रयच्छसि ?' इत्येवं पृच्छया हीनं वस्त्रं गृहीतम् । गृहीते च तस्याः संयतप्रतिश्रये आगमनम्, आगता च सा 'पुत्रो मे भविता? न वा?' इत्यादिकं निमित्तं पृच्छति, येन वाऽहं भोगिकस्याभिरुचिता भवामितत् किमप्युपदिश । ततः साधुना वक्तव्यम्न कल्पते मैथुनंप्रतिसेवितुं साधूनाम्, वेण्टलं निमित्तं वा नाहं जानामि । एवमुक्ते यदि सा वस्त्रं भूयोऽपि मार्गयेत् ततः प्रतिदातव्यम् । अथ तेन वस्त्रेण च्छित्त्वा पात्रबन्धादिकं किमप्यपरं कृतं ततश्छिन्नमपि तदेव दातव्यम् । अथ व्यवहारद्वारं व्याख्यायते- तत्र यदि सा छिन्नं न गृह्णाति, ब्रवीतिच-ममसकलमेवप्रयच्छ।ततो राजकुलं गत्वा व्यवहारेप्रारब्धकारणिकाअभिधातव्याः, यथा-केनचिद् वृक्षस्वामिना वृक्षो विक्रीतः, ऋयिकेण च मूल्यं दत्त्वा छित्त्वा च स्वगृहं नीतः, ततः स विक्रयिकः पश्चात्तापितो भणति-प्रतिगृहाण मूल्यम्, प्रत्यर्पय मदीयं वृक्षम् क्रयिकः प्राह-मया सवृक्षश्छित्त्वा पृथक्काष्ठानि कृतः, अतः कथं तमेववृक्षमखण्डमहं ते समर्पयामि ?; एवं विवदमानौ तौ राजकुलमुपस्थिती, ततः कथयत कारणिकाः । किं स क्रयिको युष्माभिवृक्षं दाप्यते? अथ दाप्यते ततः काष्ठान्येव, न पूर्वावस्थं वृक्षमिति व्यवहारो लभ्यते॥ भा.(२८०४] पाहुणएणऽन्नेण व, नीयं व हिय व होइ दर्द वा । तहियं अनुसट्ठाई, अन्नं वा दट्ट मोत्तूणं॥ वृ-अथ वस्त्रं प्राघुणकेनान्येन वा साधुनाऽन्यत्र नीतं भवेत् स्तेनेन वा हृतं प्रदीपनेन वा दग्धं तत्रचानुशिष्टयादिकं कर्त्तव्यम्।अनुशिष्टिर्नाम-सद्भावकथनपुरःसरंप्रज्ञापना।तथाऽप्यनुपरतायां धर्मकथा कर्तव्या, विद्यया मन्त्रेण वा निराकरणीया । तदभावेऽन्यद् वस्त्रं तस्या दातव्यम्, परं दग्धं वस्त्रं मुक्त्वा, दग्धे हृते वा न किञ्चिद् दीयत इति भावः । यदि सा राजकुलमुपतिष्ठते [19 11 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy