________________
१६२
बृहत्कल्प-छेदसूत्रम् -२-१/३८ ततस्तत्रापि व्यवहारो लभ्यते, “दत्त्वा दानमनीश्वरः" इति ॥अथ दानकाले साधुना पृष्टम्-किं निमित्तं ददासि? तत्र सा तूष्णिका, स्थिता, बहिश्चेष्टया न तथाविधः कोऽपि भाव उपदर्शितः, परं ग्रहणानन्तरं काचिदुपाश्रयमागत्य वेण्टलं पृच्छति चतुर्थमवभाषते वा तत्राभिधातव्यम्भा.२८०५] न वि जाणामो निमित्तं, न य ने कप्पइ पउंजिउं गिहिणो।
परदारदोसकहणं, तं मम माया य भगिनी य॥ वृ-वयं निमित्तं नजानीमः, न च “ने" अस्माकं जानतामपि गृहिणः पुरतो निमित्तं प्रयोक्तुं कल्पते, तपः-संयमादिक्षतिप्रसङ्गात् । या च चतुर्थमवभाषते तस्याःपरदारदोधकअनं क्रियते, यथा-परपुरुष-परदारप्रसक्तयोः स्त्री-पुंसयोरिहैव भवेदण्डन-मुण्डन-तर्जन-ताडनादयः, परभवे तु नरकगतौ गतानां तप्तायःपुत्तलिकालिङ्गनादयः, तत उदृत्तानां तिर्यग्मनुष्यभवग्रहणेषु भूयो भूयो नपुंसकत्व-दौर्भाग्यप्रभृतोय बहवः प्रत्यपायाः।अपिच त्वं मम माता वा भगिनी वा वर्तसे अतः कृतमनया वार्तयेति ॥ वस्त्रदानस्यैव कारणान्तरमाह[भा.२८०६] एक्कस्स व एक्कस्स व, कज्जे दिजंत गिण्हई जो उ ।
तेचेव तस्स दोसा, बालम्मिय भावसंबंधो॥ कृ'एकस्यवा' पूर्वसम्बन्धस्य एकस्य वा पश्चात्सम्बन्धस्य कार्येदीयमान वस्त्रयः साधुर्गृह्णाति तस्य 'तएव' प्रागुक्ताः शङ्कादयो दोषाः। बालेच बालविषयोभावसम्बन्धो वक्ष्यमाणो भवतीति समासार्थः ।। अथैनामेव गाथां विवृणोति[भा.२८०७] अहवण पुट्ठा पुवेण पच्छबंधेण वा सरिसमाह ।
संकाइया उ तत्थ वि, कडगा य बहू महिलियाणं ॥ वृ-अथवा सा दात्री पृष्टा सती 'पूर्वसम्बन्धेन' याशो मम भ्राता ताश एव त्वं वर्तसे, 'पश्चात्सम्बन्धेन तु' श्वशुरस्य देवरस्य भर्तुर्वा सशस्त्वं विलोक्यसे अतोऽहं भवते वस्त्रं प्रयच्छामीत्याह, एवमन्यतरेण सम्बन्धकार्येण दीयमान यदिगहातितदातएवशङ्कादयोदोषाः। यदि च तस्या अविरतिकाया बालमपत्यं किमपि विद्यते तदास साधुस्तया भ्रातृभावेन प्रतिपन्नः सन् चिन्तयति-इदं मे भागिनेयम्; अथ भर्तृतया प्रतिपन्नस्ततश्चिन्तयति-इदं मे पुत्रभाण्डम्; एवमादिको भावसम्बन्धो भवति, ततश्चप्रतिगमनादयोदोषाः।किञ्चमहेलिकानांबहूनि 'कृतकानि कैतवानि भवन्ति, तेन देवरादिग्रहणोषायेन सम्बन्धमानीय चारित्रात् परिभ्रशयन्तीति भावः।
यत एवमतः.. [भा.२८०८] एयद्दोसविमुक्कं, वत्थग्गहणंतु होइ कायव्वं ।
खमउत्तिदुब्बलो त्तिय, धम्मोत्ति यहोति निद्दोस ।। • वृ-एतैः-अनन्तरोक्तैर्दोषैर्विमुक्तं वस्त्रग्रहणंसाधुना कर्तव्यं भवति। कथम्? इत्याह- “खमउ त्ति" इत्यादि।यदि सादात्री पृष्टा सतीब्रूयात्-'क्षपकः' तपस्वी त्वम्, अथवादुर्बलोऽसिक्षपकतया स्वभावेन वा ततस्तेप्रयच्छामि, यद्वा तपस्विनेदीयमाने धर्मोभवति' इति कृत्वा ददामीति, एवं ब्रुवति दायके तद् वस्त्रं लभ्यमानं निर्दोष भवति ।। किञ्च[भा.२८०९] आरंभनियत्ताणं, अकिणंताणं अकारविंताणं ।
___धम्मट्ठा दायव्वं, गिहीहि धम्मे कयमणाणं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org