SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १६३ उद्देशक : १, मूलं-३८, [भा. २८०९] वृ- आरम्भः-षट्कायोपमर्द तस्मानिवृत्तानां तथा 'अक्रीणता' वस्त्रादिक्रयमकुर्वाणानाम् 'अकारयतां' आरम्भ-क्रयकरणे परमव्यापारयतामेवंविधानां धर्मे श्रुत-चारित्रभेदभिन्नेकृतमनसां साधूनांगृहिभिः सर्वारम्भप्रवृत्तैः ‘धर्मार्थ कुशलानुबन्धिपुण्योपार्जनार्थवस्त्र-पात्रादिकंयथायोग्यं दातव्यम् इति बुध्या य उपासकादिर्वस्त्रेणोपनिमन्त्रयति तस्य ग्रहीतव्यमिति प्रक्रमः ।। तदेवं वस्त्रमुत्पन्नं यावद् गुरूणां समीपे न गम्यते तावत् कस्यावग्रहे भवंति ? इति उच्यते[भा.२८१०] संघाडए पविटे, रायणिए तह य ओमरायणिए । जंलब्भइ पाओग्गं, रायणिए उग्गहो होइ॥ वृ-उपयोगकायोत्सर्गंकृत्वा भिक्षार्थसङ्घाटकः प्रविष्टः, तत्रैकोरालिको द्वितीयोऽवमरालिकः। तत्रचयत् प्रायोग्यंसङ्घाटकेन लभ्यतेतद्यावदाचार्यपादमूलंन गम्यते तावत्सर्वं 'रालिनकस्य' ज्येष्ठार्यस्यावग्रहो भवति, ज्येष्ठार्यस्तस्य स्वामीतिभावः ॥अथ यदुक्तम्-“कप्पइसे सागारकडं गहाय दोच्चं पि उग्गहं अणुनवित्ता परिहारं परिहरित्तए" तदेतद् यथा केचिदाचार्यदेशीयाः स्वच्छन्दबुध्या व्याचक्षते तथा प्रतिपादयति[भा.२८११] दोच्चं पिउग्गहो त्ति य, केइ गिहत्थेसु दोच्चमिच्छंति । साग! गुरुणो नयामो, अनिच्छे पच्चाहरिस्सामो।। कृ-'द्वितीयमपिवारामवग्रहोऽनुज्ञापयितव्यः' इतिसूत्रेयदुक्तंतत् केचिदाचार्या गृहस्थविषयं द्वितीयमवग्रहमिच्छन्ति । कथम्? इत्याह-“साग" इत्यादि।यः श्रावको वस्त्रंददाति स वक्तव्यःहे श्रावक ! वयमेतद्वस्त्रं गृहीत्वा गुरूणां समीपे तावन्नयामः, यद्याचार्या एतद् ग्रहीष्यन्तिततो भूयोऽप्यागम्यभवतः समीपे द्वितीयंवारमवग्रमनुज्ञापयिष्याम इति,अथाचार्यावस्त्रनग्रहीष्यन्ति ततस्तेषां वस्त्रस्यानिच्छायां भवत एवेदं प्रत्याहरिष्यामः ।अमुमेव पक्षं परः समर्थयन्नाह[भा.२८१२] इहरा परिट्ठवणिया, तस्स व पञ्चप्पिणंति अहिगरणं । गिहिगहणे अहिगरणं, सो वा दटूण वोच्छेदं । वृ. 'इतरथा' यद्येवं न विधीयते ततो दर्शितमपि वस्त्रं यदाऽऽचार्या न गृह्णीयुस्तदा पारिष्ठापनिकादोषः । अथ न परिष्ठापयन्ति ततोऽप्रातिहारिकं गृहीत्वा भूयस्तस्यैव गृहस्थस्यप्रत्यर्पयतांपरिभोग-धावनादिकमधिकरणमुपजायते। अथ तत्परिष्ठापितंवस्त्रंकोऽपि गृही गृह्णाति ततोऽप्यधिकरणमेव । सवा' दाता तद् वस्त्रं परिष्ठापितं श्रुत्वा अन्यगृहस्थगृहीतं वादृष्ट्वा तद्रव्यान्यद्रव्यव्यवच्छेदमेकस्यानेकेषांवासाधूनांकुर्यात्॥अथ सूरिपरोक्तं दूषयत्राह[भा.२८१३] चोयग! गुरुपडिसिद्धे, तहिं पउत्थे धरित दिनंतु। धरणुज्झणे अहिगरणं, गेण्हेज सयंवपडिणीयं ।। वृ-हे नोदक ! एवं क्रियमाणे त एव त्वदुक्ता दोषा भवन्ति । तथाहि-तद् वस्त्रमानीय गुरूणामर्पितम्, तेन चाचार्याणां न प्रयोजनं ततस्तैः प्रतिषिद्धम्, तच्च वस्त्रं यावत् तस्य दायकस्यप्रत्यर्यते तावदसौ ग्रामान्तरं प्रोषितः, प्रोषिते च तस्मिन् यदि तद् वस्त्रं धारयतिपरिभुङ्क्तेइत्यर्थः तदा अदत्तादानम् । अथ तस्य सत्कं भणित्वा धारयति तदाऽधिकरणम् । अथात्मार्थितं कृत्वा धारयति तथाप्यधिकरणम्, अतिरिक्तोपकरणस्यापरिभोग्यतया अधिकरणत्वात् । अथ तद् वस्त्रमुज्झति-परिष्ठापयतीत्यर्थः तथापि गृहिगृहीतेऽधिकरणं . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy