SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्प-छेदसूत्रम् - २- १/३८ परिष्ठापनादोषाश्च । अथवा प्रतिनीतं तद् वस्त्रं 'स्वमेव' आत्मना गृह्णीयाद्, नप्रतिदद्यादिति भावः । तस्मादेष त्वदुक्तो द्वितीयावग्रहो न भवति, किन्तु गृहस्थहस्ताद् वस्त्रं गृहीत्वा गुरुमूलमागम्य तेषां समर्प्य यदि ते तस्यैव प्रयच्छन्ति तदा यत् ते भूयोऽप्यवग्रहमनुज्ञाप्यन्ते एष द्वितीयावग्रहः । मू. (३९) निग्गंथं च णं बहिया वियारबूमिं वा विहारभूमिं वा निक्खतं समाणं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कंप्पइ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोघं पि उग्गहमणुन्नवेत्ता परिहारं परिहरित्तए । १६४ वृ- अस्य व्याख्याप्राग्वत् ॥ अथ भाष्यम् [भा. २८१४] बहिया व निग्गयाणं, जायणवतथं तहेव जयणाए । निमंतणवत्थे तहेव, सुद्धमसुद्धं च खमगादी ॥ वृ- 'बहि' विचारभूमौ वा विहारभूमौ वा निर्गतानां याच्ञावस्त्रं तथैव यतनया ग्रहीतुं कल्पते यथा भिक्षाचर्यायामुक्तम् । निमन्त्रणावस्त्रमपि तथैव शुद्धमशुद्धं च वक्तव्यम् । शुद्धं नाम-यत् क्षपक इति वा धर्म इति वा कृत्वा दीयते । अशुद्धं यत् चतुर्थवेण्टलादिकार्येण दीयते ॥ मू. (४०) निग्गंथिं च णं गाहावइकुलं पिंडवायपडियाए अणुष्पविट्टं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पयपुंछणेण वा उवनिमंतेज्जा, कप्पइ से सागारकडं गहाय पवत्तिनिपायमूले ठवित्ता दोघं पि उग्गहमणुन्नवित्ता परिहारं परिहरित्तए ॥ मू. (४१) निग्गंथिं च णं बहिया वियारभूमिं वा विहारभूमिं वा निक्खतिं समाणि केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पइ से सागारकडं गहाय पवित्तिणिपायमूले ठवेत्ता दोच्चं पि उग्गहमणुण्णवित्ता परिहारं परिहरित्तए । वृ- अस्य सूत्रद्वयस्यापि व्याख्या प्राग्वत् ॥ अथ भाष्यविस्तरः[भा. २८१५ ] निग्गंथिवत्थगहणे, चउरो मासा हवंतऽनुग्धाया । मिच्छत्ते संकाई, पसज्जणा जाव चरिमपदं ॥ वृ-निर्ग्रन्थीनां गृहस्थेभ्यो वस्त्रग्रहणं कुर्वन्तीनां चत्वारो मासा अनुद्धाताः प्रायश्चित्तम् । ताश्च वस्त्रं गृह्णन्तीर्हष्ट्वा कश्चिदमिनवश्राद्धो मिथ्यात्वं गच्छेत्-अहो ! निर्ग्रन्थ्योऽपि माटिं गृह्णन्तीति । अथवा शङ्कां कुर्यात् किं मन्ये धर्मार्थं दत्तमियं गृह्णाति ? उत भाटिनिमित्तम् ? । एवं शङ्कायां चतुर्गुरु । निशङ्किते मूलम् । प्रसजना नाम भोजिका घाटिकादिप्रसङ्गपरम्परा, तत्र 'चरमपदं ' पाराञ्चिकं यावत् प्रायश्चित्तम् । इदमेव भावयति [भा. २८१६] पुरिसेहिंतो वत्थं, गिण्हंतिं दिस्स संकमादीया । ओभासणा चउत्थे, पडिसिद्धे करेज्ज उड्डाहं ॥ वृ- पुरुषेभ्यः सकाशाद् वस्त्रं गृह्णन्तीं निर्ग्रन्थीं दृष्ट्वा शङ्कादयो दोषाः । शङ्का नाम - किमेषा टिं गृह्णाति ? । एवं शङ्कायां चतुर्गुरु, भोजिकायाः कथिते षड्लघु, घाटिकस्य कथने षड्गुरु, ज्ञातीनां कथने च्छेदः, आरक्षिकेण श्रुते मूलम्, श्रेष्ठि-सार्थवाह-पुरोहितैः श्रुतेऽनवस्थाप्यम्, अमात्य - नृपतिभ्यां श्रुते पाराञ्चिकम् । स वा गृहस्थो वस्त्राणि दत्त्वा चतुर्थविषयामवभाषणां कुर्यात्, तया च प्रतिषिद्धे उड्डाहं कुर्यात् एषा मदीयां भाटं गृहीत्वा सम्प्रति मदुक्तं न करोतीति ॥ किञ्चान्यत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy