________________
उद्देशक : १, मूलं-४१, [भा. २८१७]
१६५
[भा.२८१७] लोभेअ आभिओगे, विराधना पट्टएण दिटुंतो।
दायव्व गणहरेणं, तं पिपरिच्छित्तु जयणाए। वृ. "लोभेय"त्ति येन वा तेन वा वस्त्रादिना स्त्री सुखेनैव प्रलोभ्यते । “अभिओगे"त्ति कोऽप्युदारशरीरां संयती दृष्ट्वा तस्या वशीकरणार्थमभियोगं कुर्यात् । ततश्चारित्रविराधना । अत्रच पट्टकेन दृष्टान्तः ।यत एवमतः संयतीनां गणधरेण वस्त्राणि दातव्यानि । 'तदपि वस्त्रदानं सप्त दिवसानि 'परीक्ष्य' परीक्षां कृत्वा 'यतनया' वक्ष्यमाणलक्षणया कर्त्तव्यमिति सङ्ग्रहगाथासमासार्थः ॥अथ विस्तरार्थमाह[भा.२८१८] पगई पेलवसत्ता, लोभिजइ जेन तेन वा इत्थी।
अवि यहु मोहो दिप्पइ, सइरं तासिं सरीरेसु॥ वृ-'प्रकृत्या' स्वभावेनैव स्त्रीप्रायः ‘पेलवसत्त्वा' तुच्छधृतिबला ततोयेनवातेन वावस्त्रादिना लोभ्यते । अपि च ताः स्वभावेनैव वहुमोहा भवन्ति अतस्तासांपुरुषैः सह संलापं कुर्वतीनां दानं च गृह्णतीनां 'स्वैरं' स्वेच्छया शरीरेषु मोहो दीप्यते । अभियोगं वा तस्या विद्याभिमन्त्रितवस्त्रप्रदानव्याजेन कुर्यात्, अभियोगिता च सती चारित्रं विराधयेत् ॥तथा चात्र पट्टकदृष्टान्तमाह[भा.२८१९] वियरग समीवारामे, ससरक्खे पुप्फदान पट्ट कया।
निसि वेल दारपिट्टण, पुच्छा गामेन निच्छुभणं॥ वृ-एगत्थगामे कूविया, सायआरामसमीवे। ततो य इथिजणो पाणियं वहइ। तम्मि आरामे एगोससरक्खो । सो कूवियातडे उरालं अविरइयंदटुंतीए विजाभिमंतियाणिपुप्फाणि देइ । तीए घरं गंतुं नीसापट्टए तानि ठवियाणि । ततो ते पुप्फा पट्टगं आविसिउं अड्डरत्तवेलाए घरदारं - पिटेंति । ततो अगारो निग्गओ पेच्छइ पट्टगं सपुष्फगं । तेन अगारी पुच्छिता । तीए सब्मावो कहिओ। तेन विगामस्स कहियं । गामेन सोससरक्खोनिच्छूढो । अथाक्षरगमनिका-विदरकः' कूपिका, सा चारामस्य समीपे । ततः सरजस्कः कूपिकातटे काञ्चिदविरतिकां दृष्ट्वा विद्याभिमन्त्रितपुष्पदानं करोति । तया च गृहे गत्वा तानि पट्टके कृतानि । ततो 'निशि' रात्रौ 'वेलायाम्' अर्द्धरात्रे गृहद्वारस्य पिट्टनं तैः कृतम् । ततस्तेन तस्याः पृच्छा कृता। सद्भावेचकथिते ग्रामस्य कथयित्वा तेन निष्काशनं सरजस्कस्य कृतम् । यत एते दोषा अतो निर्ग्रन्थीभिरात्मना गृहस्थेभ्यो वस्त्राणिनग्रहीतव्यानि, किन्तुगणधरेण तासांदातव्यानि ।।कः पुनरत्र विधिः? इति अत आह[भा.२८२०] सत्त दियसे ठवेत्ता, थेरपरिच्छाऽपरिच्छणे गुरुगा।
देइ गणी गणिणीए, गुरुगा सय दान अट्ठाणे॥ वृ-संयतीप्रायोग्यमुपधिमुत्पाद्य सप्त दिवसान् स्थापयति-परिवासयति । ततः स्थापयित्वा कल्पं च कृत्वा स्थविरो धर्मश्रद्धावान् प्रावार्यते । यदि नास्ति कोऽपि विकारः सुन्दरम् । एवं परीक्षाकर्तव्या। यद्यपरीक्ष्यप्रयच्छति ततश्चत्वारोगुरवः। एवंपरीक्षिते 'गणी गणधरः 'गणिन्याः' प्रवर्त्तिन्याः वस्त्राणि प्रयच्छति । साऽपि गणिनी संयतीनां यथाक्रमंददाति । अथाचार्यआत्मना प्रयच्छति ततश्चतुर्गुरुकम् । काचिद् मन्दधर्मा ब्रूयात्-एतस्याः सुन्दरतरं दत्तं न मम, तन्नूनमियमस्याभीष्टा । एवं स्वयंदाने विधीयमाने आचार्यस्यास्थाने स्थापनं भवति । यत एवमतो नात्मना दातव्यं किन्तु प्रवर्तिन्या तासां दापयितव्यम् ।।नोदकः प्राह-यद्येवंतर्हि सूत्रं निरर्थकम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org