________________
१६०
[ भा. २७९६] विउसग्ग जोग संघाइएण भोइयकुले तिविह पुच्छा । कस्स इमं किं व इमं, कस्स व कज्जे लहुग आणा ॥
वृ- 'व्युत्सर्गी नाम' उपयोगसम्बन्धी कायोत्सर्गस्तं कृत्वा, 'यस्य च योगः' इति भणित्वा, सङ्घाटकेन भिक्षार्थं निर्गतः । ततो भोगिककुले उपलक्षणत्वादन्यत्रापि यथाप्रधाने कुले प्रविष्टः कयाचिदीश्वरया महता सम्भ्रमेण भक्त पानेन प्रतिलाभ्य वस्त्रेण निमन्त्रितः, तत्र त्रिविधा पृच्छा प्रयोक्तव्या । तद्यथा- 'कस्य सत्कमिदं वस्त्रम् ? किं वा इदमासीत् ?' अनेन पृच्छाद्वयेन परिशुद्धं यदा भवति तदा प्रष्टव्यम् - कस्यवा कार्यस्य हेतोः प्रयच्छसि ? इति । यद्येवं न पृच्छति ततश्चत्वारो लघवः आज्ञादयश्च दोषाः ॥ अथ विशेषदोषानभिधित्सुराह
बृहत्कल्प-छेदसूत्रम् -२- १/३८
[भा. २७९७] मिच्छत्त सोच्च संका, विराधना भोइए तहि गए वा । चरथं व विंटलं वा, वेंटल दाणं च ववहारो ॥
वृ- भोगिन्या दीयमानं वस्त्रं यदि 'केन कार्येण प्रयच्छसि ?' इति न पृच्छयते तदा भोगिको मिथ्यात्वं गच्छेत् । अथासौ देशान्तरं गतस्तत आगतस्य महत्तरादिमुखाच्छ्रुत्वा शङ्का भवति । भोगिके तत्र स्थिते 'गते वा' देसान्तरप्रापेत पश्चादायाते सति 'विराधना' वक्ष्यमाणा भवति सा चाविरतिका 'चतुर्थं वा' मैथुनमवभाषेत 'वेण्टलं वा' वशीकरणादिप्रयोगं पृच्छेत् ततश्च वक्तव्यम्वेण्टलमहं न जानामि, उपलक्षणत्वात् चतुर्थं च प्रतिसेवितुं न कल्पते । ततो यदि सा वस्त्रं याचते तदा दानं कर्त्तव्यम्, भूयोऽपि तद् वस्त्रं तस्या एव समर्पणीयमिति भावः । अथ तद् वस्त्रं छिन्नं वा प्राघुर्णकादीनां दत्तं वा भवेत् सा च तदेव वस्त्रं मार्गयेत् तदा राजकुलं गत्वा व्यवहारः कर्त्तव्य इति द्वारगाथासमासार्थः ॥ अथैनामेव विवरीषुराह
[भा.२७९८] वत्थम्मि नीणियम्मिं, किं दलसि अपुच्छिऊण जइ गेहे ।
अन्नस्स भोयगस्स व, संका घडिया नु किं पुवि ।।
वृ- वस्त्रे भोगिन्या निष्काशिते सति यदि 'किं' किमर्थं ददासि ? इत्यपृष्टवैव गृह्णाति तदा 'भोक्तुः' तदीयस्यैव भर्त्तु 'अन्यस्य वा' श्वशुर-देवरादेः शङ्का भवेत् । नुरिति वितर्के, किं मन्ये एतौ परस्परं पूर्वमेव घटितौ यदेवंतूष्णीको दान - ग्रहणे कुरुतः ? अथवा किमेषा मैथुनार्थिनी भूत्वा वस्त्रमस्मै प्रयच्छति ? उत वेण्टलार्थिनी ? इति ॥
[भा. २७९९]
मिच्छत्तं गच्छेज्जा, दिजंतं दट्टु भोयओ तीसे । वोच्छेद पओसं वा, एगमनेगाण सो कुज्जा ॥
वृ- तद् वस्त्रं दीयमानं दृष्ट्वा तस्याः सम्बन्धी 'भोजकः ' भर्त्ता मिथ्यात्वं गच्छेत्, यथा- निस्सारं प्रवचनममीषामित्यादि । प्रतिपन्नमिथ्यात्वश्च तस्य वैकस्य साधोरनेकेषां वा साधूनां तद्दव्यान्यद्रव्यव्यवच्छेदं कुर्यात् प्रद्वेषं वा गच्छेत् ॥
गतं मिथ्यात्वद्वारम् । अथ 'श्रुत्वा शङ्का' द्वारं विराधनाद्वारं चाह[भा. २८०० ] एमेव पउत्थे भोइयम्मि तुसिनीयदान- गहणे तु । महतरगादीकहिए, एगतर पतोस वोच्छेदो ।। मेहुणसंकमसंके, गुरुगा मूलं च वेंटले लहुगा । संकमके गुरुगा, सविसेसतरा पउत्थम्मि ॥
[ भा. २८०१ ]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org