SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 3 उद्देशक : १, मूलं - ३८, [ भा. २७९२] 'विविक्तः' मुषितः सन् वस्त्राणि गृह्णीयात्, अतो वस्त्रग्रहणविधि प्रतिपाद्यते ।। [भा. २७९३] अहवा लोइयतेण्णं, निवसीम अइच्छिए इमं भणितं । दोचमणणुन्नेवउं, उत्तरियं वत्थभोगादी ॥ वृ- अतवा नृपसीमानमतिक्रम्यविरुद्धराज्यसङ्क्रमणे लौकिस्तैन्यम्, इदमनन्तरसूत्रे भणितम् । अत्र तु सूत्रे द्वितीयं वारमवग्रहमाचार्यसमीपेऽननुज्ञाप्य यदा वस्त्रपरिभोगम् आदिशब्दाद् धारणं वा करोति तदा लोकोत्तरिकस्तैन्यं भवतीति प्रतिपाद्यते । एभिः सम्बन्धैरायातस्यास्य व्याख्या'निर्ग्रन्थं' पूर्वोक्तशब्दार्थं च शब्दोऽर्थान्तरोपन्यापतिं "ण" मितिवाक्यालङ्कारे गृहस्य पति-स्वामी गृहपतिस्तस्य कुलं - गृहं 'पिण्डपातप्रतिज्ञया पिण्डः - ओदनादिस्तस्य पातः-पात्रे प्रवेशस्तव्प्रतिज्ञयातत्प्रत्ययमनुप्रविष्टं ‘कश्चिद्’ उपासकादिर्वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा पात्र - प्रोञ्छनेन वा उपनिमन्त्रयेत् । वस्त्रं सौत्रिकमिहगृह्यते, प्रतिग्रहः-पात्रकम्, कम्लम् - ओर्णिकः कल्पः, पात्रशब्देन तु पात्रबन्ध पात्रकेसरिकाप्रभृतिकः पात्रनिर्योगः, प्रोञ्छनशब्देन तु रजोहरणमुच्यते, आह च चूर्णिकृत्-पायग्गहणेणं पायभंडयं गहियं, पुंछणं रयहरणं ति । ततश्च पात्रं च प्रोञ्छनं चेतिपात्र - प्रोञ्छनम्, समाहारद्वन्द्वः, एतैः उप-सामीप्ये आगत्य निमन्त्रयेत् । उपनिमन्त्रितस्य च “से” तस्य निर्ग्रन्थस्य 'साकारकृतं' 'आचार्यसत्कमेतद् वस्त्रं न मम, अतो यस्मै ते दास्यन्ति अन्यस्मै वा मह्यं वा आत्मना वा परिभोक्ष्यन्ते तस्यैतद् भविष्यति' इत्येवं सविकल्पवचनव्यवस्थापितं सद् गृहीत्वा तत आचार्यपादमूले तद् वस्त्रं स्थापयित्वा यदि ते तस्यैव साधोः प्रयच्छन्ति तदा 'द्वितीयमप्यवग्रहम्' एकस्तावद् गृहस्थादवग्रहोऽनुज्ञापितो द्वितीयं पुनराचार्यपादमूलादवग्रहमनुज्ञाप्य धारणा-परिभोगरूपं द्विविधमपि परिहारं तस्य वस्त्रस्य 'परिहर्त्ती' धातूनामनेकार्थत्वाद् आचरितुं कल्पते इति सूत्रसङ्क्षेपार्थः । अथ विस्तरार्थं बिभणिषुराह[भा. २७९४] दुविहं च होइ वत्यं, जायणवत्थं निमंतणाए य । निमंतणवत्थं ठप्पं, जायणवत्थं तु वोच्छामि ॥ वृ- द्विविधं च भवति वस्त्रम् - याच्ञावस्त्रं निमन्त्रणावस्त्रं च । तत्र निमन्त्रणावस्त्रं 'स्थाप्यं' पश्चादभिधास्यते इत्यर्थः । याच्ञावस्त्रं पुनः साम्प्रतमेव वक्ष्यामि ॥ यथाप्रतिज्ञातमेव निर्वाहयतिनामं ठवणावत्थं, दव्वव्वत्थं च भाववत्थं च । १५९ एसो खलु वत्थस्सा, निक्खेवो चउव्विहो होइ । इत्यादिकाः । एवं तु गविट्ठेसुं, आयरिया देंति जस्स जं नत्थि । समभागेस कसु व, जहराइणिया भवे बीओ ।। इति पर्यन्ताः षट्चत्वारिंशद्गाथा यथा पीठिकायां वस्त्रकल्पिकद्वारे तथैवात्र द्रष्टव्याः ॥ उपसंहरन्नाह [भा. २७९५ ] एयं जाणवत्थं, भणियं एत्तो निमंतणं वोच्छं । पुच्छादुगपरिसुद्धं, पुनरवि पुच्छेजिमा मेरा ॥ वृ- एतद् याच्ञावस्त्रं भणितम् । इत ऊर्ध्वं निमन्त्राणावस्त्रं वक्ष्यामि । तच्च यदा 'कस्यैतद् वस्त्रम् ? किंवा नित्यनिसनीयादिकमिदमासीत् ? ' इति पृच्छाद्वयन परिशुद्धं भवति तदा 'पुनरपि' तृतीयया पृच्छया पृच्छेत् । तत्र च 'इयं' वक्ष्यमाणा 'मर्यादा' सामाचारी ॥ तामेवाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy