________________
१५८
बृहत्कल्प-छेदसूत्रम् -२-१/३७ प्रवेशे च विधिरुक्तः । अथ “आयरिय"त्ति पदं विशेषतो भावयन्नाह[भा.२७८९] राईण दोण्ह भंडण, आयरिए आसियावणं होइ।
कयकरणे करणं वा, निवेद जयणाए संकमणं ॥ वृ-द्वयो राज्ञोः परस्परं 'भण्डन' कलहो वर्त्तते, तत्रैकस्य राज्ञः कोऽप्याचार्योऽतीव पूजासत्कारस्थानम्, ततश्च द्वितीयो नृपतिस्तत् परिज्ञायाऽऽत्मीयदक्षपुरुषैः “आसिआवणं" ति तस्याचार्यस्यापहरणं कारयति ‘अस्मिन् हि गृहीते सप्रतिपन्थिपार्थिवो गृहीत एव भवति' इति। अत्रचय-'कृतकरणः' धनुर्वेदादौगृहवासेकृतपरिश्रमस्तस्यतत्र करणंभवति, तेनाचार्यापहारिणा सहयुद्धंकर्तुमुपतिष्ठतइत्यर्थः । अथ नास्तिकोऽपिकृतकरणस्ततोयस्य राज्ञः सकाशादपहतस्तस्य निवेदनं कृत्वा यतनया शेषसाधवः सङ्कमणं कुर्वन्ति ।। इदमेव स्फुटतरमाह[भा.२७९०] अब्मरहियस्स हरणे, उज्जाणाईठियस्स गुरुणोउ।
उव्वट्ठणासमत्थे, दूरगए वा वि सवि बोलं ।। [भा.२७९१] पेसवियम्मि अदेंते, रन्ना जइ विउ विसज्जिया जिस्सा।
गुरुणो निवेइयम्मि, हारितगराइणो पुल्विं ।। वृ-'अभ्यर्हितस्य' राजमान्यस्य 'गुरोः' आचार्यस्योद्यान-सभा-प्रपादिषुस्थितस्य हरणंभवति। यदिचकोऽपि युद्धकरणेन विद्याप्रयोगेण वातस्योद्वर्तनायाः-वालनायाः समर्थो भवति ततःस तं निवार्याचार्य प्रत्याहरति । अथ नास्त्युद्वर्तनासमर्थ ततः क्षणमात्रं साधवस्तूष्णीका आसते। यदाआचार्यापहारी दूरंगतोभवति तदा “सवि"त्ति सर्वेऽपिसाधवोबोलंकुर्वन्ति-अस्माकमाचार्यों हृतो हतः, धावत धावत लोकाः ! इति । आसननस्थिते तु बोलं न कुर्वन्ति ‘मा भूत् परस्परं बहुजनक्षयकारी युद्धविप्लवः' इति।ततश्च राजा साधुभिरभिधातव्यः-अनाथा वयमाचार्यैर्विना, अत आचार्या यथाऽत्रागच्छन्ति तथा कुरुत । एवमुक्तोऽसौ द्वितीयस्य राज्ञो दूतं विसर्जयतिशीघ्रमाचार्य प्रेषणीय इति । यदि तेन प्रस्थापितस्ततो लष्टम् । अथासौ दूते प्रेषितेऽप्याचार्य न ददाति-न विसर्जयतीत्यर्थः ततःसाधवोद्वेत्रीणिवादिनानि राजानंष्ट्वाब्रुवते-अस्मान्विसर्जयत येन गुरूणामुपकण्ठं गच्छामः, कीशा वयं गुरुविरहिताअत्र तिष्ठन्तः? स्वाध्यायादिकंवाऽत्र नकिमपिनिर्वहतीत्यादि। एवमुक्तेयद्यपि तेशिष्या राज्ञा विसर्जितास्तथापिगुरूणांसन्देशकप्रेषणेन निवेदयन्ति-वयमागच्छन्तः स्मः । ततो गुरवः "हारितगराइणो पुदि"तिअपहर्तृराज्ञः पूर्वमेव निवेदयन्ति-अहं शिष्यानप्यानयामि, अतः स्थानपालानामादेशं प्रयच्छत येन ते तान्न गृह्णन्ति । एवं निवेदिते सति यतनया सङ्क्रमणं कुर्वन्ति ॥
मू. (३८) निग्गंथंचणंगाहावइकुलं पिंडवायपडियाएअणुप्पविलु केइ वत्येण वापडिग्गहेण वा कंबलेण वा पाय-पुंछणेण वा उवनिमंतिजा, कप्पड़ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोच्चं पिउग्गहं अणुन्नवित्ता परिहारं परिहरित्तए। [भा.२७९२] अविरुद्धए भिक्खगतं, कोइ निमंतेज वत्थमाईहिं।
कारण विरुद्धचारी, विगिंचितो वा विगेण्हेजा। वृ- 'अविरुद्ध' विरुद्धराज्यविरहिते ग्रामादौ 'भिक्षागतं' भिक्षायां प्रविष्टं साधु कश्चिदुपासकादिर्वस्त्रादिभिर्निमन्त्रयेत्, यद्वा 'कारणे' दर्शन-ज्ञानादौ विरुद्धराज्यचारी स्तेनादिभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org