________________
उद्देशक ः २, मूलं-५२, [भा. ३३२४]
२७५ 'वनेन तु वनस्पतिना 'भौमादयः' पृथिव्यप्कायादयः कायाः सूचिताः । एवं सभेदाः' भेदप्रभेदसहिताः षडपि कायाः ‘सारोपणाः' सप्रायश्चित्ता भणिता अवसातव्याः ॥ [भा.३३२५] जत्थ उ देसग्गहणं, तत्थऽवसेसाई सूइयवसेणं ।
मोत्तूणं अहिगारं, अनुयोगधरा पभासंति ॥ वृ- एवमत्रापि यत्र देशग्रहणं तत्रावशेषाण्यार्थपदानि, सूचितं सूचा, भावे क्तप्रत्ययः, तद्वशेनावगन्तव्यानि । तथा कुत्रापि सूत्रेऽनुयोगधराः 'अधिकार' प्रस्तुतार्थं मुक्त्वा सूत्रानुपाति प्रसङ्गागतमर्थं प्रथमतः प्रभाषन्ते, यथा पिण्डाधिकारे प्रस्तुते
_ "पुढवी आउक्काए, तेऊ वाऊ वणस्सई चेव ।
बिइ तिय चउरो पंचिंदिया य लेवो दसमओ अ॥" इत्यादिनौधनियुक्तौ सविस्तरं कायप्ररूपणा कृता । एवं विचित्राणि सूत्राणि भवन्ति, अत एव यावदमीषामर्थ सूरिणा न व्यक्तीकृतस्तावन्न सम्यगवगमपथमुपगच्छति॥
अथौत्सर्गिका-ऽऽपवादिकसूत्रयोर्विषयविभागमाह[भा.३३२६] उस्सग्गेणं भणियाणि जानि अववादतो तु जानि भवे ।
कारणजातेन मुनी!, सव्वाणि वि जाणितव्वाणि ।। वृ-उत्सर्गेण यानि सूत्राणि भणितानि यानि चापवादतः सूत्राणि तानि हे मुने! कारणजातेन सर्वाण्यपि ज्ञातव्यानि । किमुक्तं भवति?-प्रतिषिद्धस्य आचरणहेतुः कारणम्, तच्च ज्ञानादि, तत्र चोत्सर्गसूत्रेषु साक्षादुत्सर्गविषयो निबन्धः, अर्थतस्तु कारणजाते तत्राप्यनुज्ञा मन्तव्या; अपवादसूत्रेषुपुनः कारणजातमुद्दिश्य साक्षादपवादविषयो निबन्धः, अर्थतस्तुतत्राप्युत्सर्गोद्रष्टव्यः। एवंसर्वसूत्रेषुतत्त्व उत्सर्गा-ऽपवादावुभावपिनिबद्धाववगन्तव्यौ ॥अथ किं पुनरनयोः स्वस्थानम्?
इत्याह[भा.३३२७] उस्सग्गेण निसिद्धाइं जाई दव्वाइं संथरे मुणिणो ।
कारणजाते जाते, सव्वाणि विनि कप्पंति ॥ वृ-'उत्सर्गेण' संस्तरणमाश्रित्य यानि 'द्रव्याणि' प्रलम्बादीनि 'मुनेः' संयतस्य प्रतिषिद्धानि तान्येव ‘कारणजाते' विशुद्धालम्बनप्रकारे 'जाते' समुत्पन्ने सति सर्वाण्यपि कल्पन्ते ॥
अत्र परः प्रश्नयति[भा.३३२८] जं चिय पए निसिद्धं, तं चिय जति भूतो कप्पती तस्स।
एवं होतऽनवत्था, न य तित्यं नेव सच्चं तु॥ वृ-'यदेव' प्रलम्बादिकं प्राक्' पूर्वं निषिद्धं तदेव यदि ‘भूयः पुनरपि तस्य' साधोः कल्पते, तत एवं सूत्रार्थस्य यदृच्छाप्रवृत्तौ चरण-करणस्यानवस्था भवति। ततश्च न तीर्थमनुस(ष]जति, नैव च प्रतिषिद्धं समाचरतः 'सत्य' संयमो भवति, तदभावे दीक्षा निरर्थिका, तन्निरर्थकतायां मोक्षस्याप्यभावः प्राप्नोति ॥ अपि च[भा.३३२९] उम्मत्तवायसरिसं, खुदंसणं न वि य कप्पऽकप्पं तु।
अध ते एवं सिद्धी, न होज सिद्धी उ कस्सेवं ॥ ___ वृ-आचार्य! पूर्वमेकत्र सूत्रे प्रतिषिध्य पुनस्तदेवानुजानत इदं भवतो दर्शनमुन्नत्तवाक्यसशं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org