SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २७६ बृहत्कल्प-छेदसूत्रम् -२-२/५२ प्राप्नोति, तथा नापि च 'इदं कल्प्यम्, इदमकल्प्यम्' इति व्यवस्था भवति, यदि चैवमपि ब्रुवतस्तवाभिप्रेतार्थसिद्धिर्भवति तर्हि कस्य न सा भवेत् ? चरक परिव्राजकादीनामप्यसमञ्जस प्रलापिनां सा भविष्यतीति भावः । सूरिराह [भा. ३३३०] न वि किंचि अनुन्नायं, पडिसिद्धं वा वि जिनवरिदेहिं । एसा तेसिं आणा, कजे सच्चेण होतव्वं ॥ वृ- हे नोदक ! यदेतद् भवता प्रलपितं तत् प्रवचनरहस्यानभिज्ञतासूचकम्, यतो जिनवरेन्द्रैस्तथाविधकारणाभावे नापि 'किञ्चिद्' अकल्पनीयमनुज्ञातम्, कारणे च समुत्पन्ने नापि किञ्चित् प्रतिषिद्धम्, किन्तु एषा 'तेषां' तीर्थकृतां निश्चय-व्यवहारनयद्वयाश्रिता सम्यगाज्ञा मन्तव्यायदुत 'कार्ये' ज्ञानादावालम्बने 'सत्येन' सद्भावसारेण साधुना भवितव्यम्, न मातृस्थानतो यत्किञ्चिदालम्बनीयमित्यर्थः । अथवा सत्यं नाम-संयमः तेन कार्ये समुत्पन्ने भवितव्यम्, यथा यथा संयम उत्सर्पति तथा तथा कर्त्तव्यमिति भावः । आह च बृहद्भाष्यकारः क नाणादीयं, सच्चं पुन होइ संजमो नियमा । जह जह सो होइ थिरो, तह तह कायव्वयं होइ || इदमेव भावयति [भा. ३३३१] दोसा जेन निरुब्भंति जेन खिज्जति पुव्वकम्माई । सो सो मोक्खोवाओ, रोगावत्थासु समणं वा ॥ वृ- 'येन' अनुष्ठानविशेषेण 'दोषाः' रागादयो निरुध्यन्ते, पूर्वोपचितानि च कर्माणि येन क्षीयन्ते, 'स सः' अनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः । 'रोगावस्थासु' ज्वरादिरोगप्रकारेषु 'शमनमिव' उचितौषधप्रदानापथ्यपरिहाराद्यनुष्ठानमिव; यथा तेन विधीयमानेन ज्वरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादेऽपवादं समाचरतो रागादयो दोषा निरुध्यन्ते पूर्वकर्माणि चक्षीयन्ते । अथवा यथा कस्यापि रोगिणः पथ्यौषधादिकं प्रतिषिध्यते कस्यापि पुनस्तदेवानुज्ञायते, एवगत्रापि यः समर्थस्तस्याकल्प्यं प्रतिषिध्यतेऽ समर्थस्य तु तदेवानुज्ञायते । उक्तञ्च भिषग्वरशास्त्रेउत्पद्येत हि साऽवस्था, देश - काला SSमयान् प्रति । यस्यामकार्यं कार्यं स्यात्, कर्म कार्यं च वर्जयेत् ॥ एवंविधं चोत्सर्गा ऽपवादविभागमगीतार्थो न जानाति । अतः [भा.३३३२] अग्गीयस्स न कप्पइ, तिविहं जयणं तु सो न जाणाइ । अनुन्नवणाए जयणं, सपक्ख- परपक्खजयणं च ॥ वृ- अगीतार्थसय प्रस्तुतसूत्रविषयभूतं वस्तुं न कल्पते, यतोऽसौ त्रिविधां यतनां न जानीते। तद्यथा-अनुज्ञापनायतनां स्वपक्षयतनां परपक्षयतनां चेति । तिस्रऽप्येता वक्ष्यमाणस्वरूपाः । परः प्राह-अगीतार्थेनापि तावत् सूत्रमधीतम् अतः कथमस न जानीते ? उच्यते - इह सर्वेषामप्यागमानामर्थपरिज्ञानमाचार्यसहायकादेवोपजायते, न यथाकथञ्चित् । उक्तञ्च - सत्स्वपि फलेषु यद्वन्न ददातिफलान्यकम्पितो वृक्षः । तद्वत् सूत्रमपि बुधैरकम्पितं नार्थवद् भवति ॥ इदमेवाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy