SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५५ उद्देशक : १, मूलं-३७, [भा. २७७४] पररज्जपवेसेवं, जओ वि णिती तहिं पेवं ।। वृ-प्रथमतृतीयभङ्गयोः संयतभद्रकैर्मुक्ताः सन्तः साधवः परराज्ये प्रविष्टा दृष्टाश्च राजपुरुषः, ततः पृष्टाः-किमुत्पथेनायाताः? उतपथा? यदिसाधवो भणन्ति उत्पथेन' तत उन्मार्गगामित्वात् 'चारिका एते' इति कृत्वा ग्रहणाकर्षणादिकं प्राप्नुवन्ति । अथ ब्रुवते 'पथा वयमागताः' ततो द्वयोरपि वर्गयोर्विनाशो भवति,संयतानां स्थानपालकानांचेति भावः । एवं परराज्यप्रवेशे दोषा अभिहिताः । यतोऽपि राज्याद् निर्गच्छन्ति तत्राप्येत एव दोषा भवन्ति ॥ अथ “पंथं भित्तूण" इत्यादिपदं व्याख्यानयति[भा.२७७५] रक्खिजइ वा पंथो, जइ तं भित्तूण जनवयमइंति। गाढतरं अवराहो, सुत्ते सुने व दोण्हं पि॥ वृ-अथ चौर-हेरिकादिभयात् पन्था रक्ष्यते, न वा कस्यापि गमनागमनं कर्तुं स्थानपालकाः प्रयच्छन्ति, ततस्तं पन्थानं भित्त्वा यद्युत्पथेन परनृपतेर्जनपदम् ‘अतियन्ति' प्रविशन्ति ततो गाढतरमपराधोभवति, महान्दोषस्तेषां लगतीतिभावः ।अत्र साधूनामेवदोषोनस्थानपालकानाम्। अथ स्थानपालकाः सुप्ता भवन्ति शून्यं वा तत् स्थानकं वर्तते, स्थानपालकानामन्यत्र कुत्रापि गमनात्, तत्र यदि साधवो गच्छन्ति तदा 'द्वयोरपि वर्गयोः' स्थानपालकानां संयतानां चेत्यर्थःग्रहणाकर्षणादयो दोषा भवन्ति ॥ तानेव सप्रायश्चित्तान् दर्शयति[भा.२७७६] गेण्हणे गुरुगा छम्मास कड्डणे छेओ होइ ववहारे । पच्छाकडे य मूलं, उड्डहण विरुंगणे नवमं ॥ [भा.२७७७] उद्दावण निव्विसए, एगमनेगे पओस पारंची। अणवठ्ठप्पो दोसुय, दोसुय पारंचिओ होइ । वृ-गाथाद्वयस्यापि व्याख्या प्राग्वत् ।। एवमात्मनैवासहायानामनाणसहायानां वा गच्छतां दोषा अभिहिताः । अथ चौरादिसहाययुक्तानां दोषानतिदिशन्नाह[भा.२७७८] एमेव सेसएहि वि, चोराईहि समगंतु वच्चंते। सविसेसयरा दोसा, पत्थारो जाव भंसणया। वृ-एवमेव चौर-प्रतिचरकादिसहायैःशेषैरपिव्रजतांदोषास्तएव ग्रहणाकर्षणादयोवक्तव्याः, परं सविशेषतराः । तथाहि-तेषां साधूनां दोषेण यदन्येषामपि तद्गच्छीयानां परगच्छीयानां वा कुलस्य वागणस्य वा सङ्घस्य वा ग्रहणाकर्षणादिकम् एष प्रस्तार उच्यते । स वा भवेद् जीवितस्य वा चरणस्य वा भ्रंशनं स्यात् । यावच्छब्दोपादानात् शरीरविकर्तनभेदा द्रष्टव्याः । सविशेषदोषदर्शनार्थमाह[भा.२७७९] तेणट्ठम्मि पसज्जण, निस्संकिए मूल अहिमरे चरिमं । जइ ताव होंति भद्दय, दोसा तेतं चिमंचऽन्नं ।। वृ-स्तेनादिभिः सहगच्छन् स्तैन्यार्थे प्रसजनं करोति, स्तैन्यादिकं करोति कारयतिअनुमन्यते वा इत्यर्थः ।तथा यदि 'स्तेनोऽयम्' इति शङ्कयते तदा चत्वारो गुरुकाः । निशङ्किते मूलम् । 'अभिमरोऽयम्' इति निशङ्किते 'चरमं' पाराञ्चिकम् । अपि च यदि तावत् ते स्थानपालका भद्रका भवन्ति तथापि वैराज्यं सङ्क्रामतः साधून् दृष्ट्वा चिन्तयन्ति-एतेऽपि यदीदशानि कुर्वन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy