________________
बृहत्कल्प-छेदसूत्रम् - २-१ / ३७
१५४
यतो राज्यात् प्रधावितस्तस्य 'अतिक्रमे' अतिलङ्घने कृते सति मूलम् ॥ अथ सर्वभङ्गपरिमाण - ज्ञापनार्थमाह
[भा. २७६९]
अत्ताणमाइयाणं, अट्ठण्हऽट्ठहि पहि भइयाणं । चउसट्ठिए पयाणं, विराधना होइमा दुविहा ॥
वृ-आत्मादीनामत्राणादीनां वा अष्टानां पदानामष्टभिः 'पदैः' भङ्गैः प्रत्येकं 'भक्तानां' गुणितानां चतुःषष्टिसङ्ख्यानि भङ्गकपदानि भवन्ति । चतुःषष्टेश्च पदानामन्यतरेण गच्छत इयं 'द्विविधा' संयमाSSत्मलक्षणा विराधना भवति ॥ तामेवाह
[भा. २७७०]
छक्काय गहणकड्डण, पंथं भित्तूण चेव अइगमनं । सुन्नम्मिय अइगमणे, विराधना दुण्ह वग्गाणं ॥
वृ- अपथे- अशस्त्रोपहतपृथिव्यां गच्छन् पृथिवीकायम्, नद्यादिसन्तरणेऽवश्यायसम्भवे वाऽप्कायम्, दवानलसम्भवे सार्थिकप्रज्वालिताग्निप्रतापनेवा तेजः कायम्, “यत्राग्निस्तत्र नियमाद् वायुर्भवति" इति कृत्वा वायुकायम्, हरितादिमर्दने प्रलम्बासेवने वा वनस्पतिम्, पृथिव्युदकवनस्पतिसमाश्रितत्रसानां परितापनादौ त्रसकायम्, एवं षट्कायान् विराधयति इति संयमविराधना । तथा राजपुरुषा ग्रहणाकर्षणादिकं विदध्युरित्यात्मविराधना । अथ ते साधवः 'पन्थानं' मार्गं भितत्त्वोत्पथेन परनपदे ‘अतिगमनं' प्रवेशं कुर्वन्ति ततो गाढतरेऽपराधे लगन्ति । 'शून्ये वा' स्थानपालविरहिते मार्गेऽतिगमने विधीयमाने 'द्वयोरपि वर्गयोः संयतानां सहायानांच विराधना भवतीति ।। अथ षट्कायविराधनायां तावत् प्रायश्चित्तमाह
[भा. २७७१] छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे । संघट्टण रितावण, लगु गुरुगऽइवायणे मूलं ॥ वृ- अस्या व्याख्या प्राग्वत् ।। अथ ग्रहणाकर्षणापदं व्याचष्टे
[भा.२७७२] संजय-गिहि-तदुभयभद्दया य तह तदुभयस्स वि य पंता । चउभंग गोम्मिएहिं, संजयभद्दा विसज्जेंति ॥
वृ- गोल्मिका नाम ये राज्ञः पुरुषाः स्थानकं बद्धवा प्थानं रक्षयन्ति तेषु चतुर्भङ्गी-संयतभद्रका गृहस्थप्रान्ताः १, गृहिणां भद्रकाः संयतप्रान्ताः २, संयतभद्रका अपि गृहस्थभद्रका अपि ३, न संयतभद्रका न गृहस्थभद्रकाः किन्तु तदुभयस्यापि प्रान्ताः ४ । अत्र ये संयतभद्रका गौल्मिकाः प्रथमतृतीयभङ्गवर्त्तिन इत्यर्थः ते साधून् गच्छतो विसर्जयन्ति न निरुन्धते ॥
[भा. २७७३]
संजयभद्दगमुक्के, बीया घेत्तुं गिही वि गिण्हंति । जे पुन संजयपंता, गिण्हंति जई गिही मुत्तुं ॥
वृ- संयतभद्रकैर्मुक्तानपि साधून् 'द्वितीयाः' द्वितीयभङ्गवर्त्तिनः स्थानपालकास्ते संयतप्रान्तत्वाद् गृह्णन्ति, गृहीत्वा च ते 'गृहिणोऽपि' प्रथमस्थानपालकान् गृह्णन्ति, यस्माद् 'अमीभि समं यूयं गच्छतेत्यतो यूयमप्यपराधिनः' इति कृत्वा । ये पुनः संयतप्रान्ताः, पुनः शब्दो विशेषणे, किं विशिनष्टि ? ये गौल्मिकाः संयतानामेवातीव प्रद्विष्टास्ते गृहिणो मुक्त्वा यतीन् गृह्णन्ति, गृहीत्वा च बन्धनादिकं कुर्युः ।।
[भा. २७७४] पढम- तइयमुक्काणं, रज्जे दिट्ठाण दोण्ह वि विनासो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org