SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १५३ उद्देशकः १, मूलं-३७, [भा. २७६५] [भा.२७६५] अविरुद्धा वाणियगा, गमना-ऽऽगमनं च होइ अविरुद्धं । निस्संचार विरुद्धे, न कप्पए बंधणाईया॥ वृ-यत्र वैराज्ये वाणिजकाः परस्परं गच्छन्तोऽविरुद्धास्तत्र साधूनामपि गमानगमनं विरुद्धं न भवति, कल्पते तत्र गन्तुमिति भावः । यत्र तु वणिजां शेषजनपदस्य च निस्सञ्चारं कृतंगमनागमननिषेधो विहितस्तद् वैराज्यं नृपतिविहिताः बन्धनादयो दोषास्तत्र भवन्तीति ॥ तत पुनर्गमनागमनं कथं भवति? इत्याह[भा.२७६६] अत्ताण चोर मेया, वा सोणिय पलाइणो पहिया। पडिचरगा य सहाया, गमनागमनम्मि नायव्वा ।। वृ- इह विरुद्धराज्ये गच्छतामनेके प्रकाराः-तत्र “अत्ताण"त्ति संयता आत्मनैव चौरादिसहायविरहिता गच्छन्ति, एष चूर्ण्यभिप्रायः; निशीथचूर्ण्यभिप्रायस्तु-“अत्ताण"त्तिअत्राणा नाम-स्कन्धन्यस्तलगुडद्वितीया ये देशान्तरंगच्छन्ति कार्पटिकावातैः सह साधवोऽपिगच्छन्तीति प्रथमः प्रकारः, एवमुत्तरत्रापि भावना कार्या १ तथा 'चौराः' गवादिहारिणः २, 'मेदा नाम' गृहीतचापा दिवा रात्रौचजीवहिंसापराम्लेच्छविशेषाः ३, 'वागुरिकाः' पाशप्रयोगेण मृगघातकाः ४, शौनिकाः' शुनिकाद्वितीया लुब्धकाः ५, ‘पलायिनो नाम' ये भटादयो राज्ञः पृच्छां विना सकुटुम्बाः प्रणश्य राज्यान्तरंगच्छन्ति ६, पथिकाः' नानाविधनगर-ग्राम-देशपरिभ्रमणकारिणः७, 'प्रचिचरका नाम' ये परराष्ट्रस्वरूपं प्रच्छन्नचारितया गवेषयन्ति, हेरिका इत्यर्थः ८ । एते आत्मादयोऽत्राणादयोवाऽष्टौभेदाभवन्ति। केषाञ्चिदाचार्याणां वागुरिकाः शौनिकाश्चद्वयेऽप्येक एव भेदस्तन्मतेनाष्टमा अहिमरका भवन्ति । अहि-सर्पस्तद्वदकृतेऽप्यपकारे परं मारयन्तीत्यहिमरकाः। एते सहायाः साधूनां वैराज्यगमनागमने ज्ञातव्याः ॥ एतेष्वेव भङ्गोपदर्शनायाह[भा.२७६७] अतताणमाइएसु, दिय पह दिढे य अट्ठिया भयणा । एत्तो एगयरेणं, गमनागमनम्मि आणाई। वृ-आत्मादिभेदेषु अत्राणादिषुवा सहायेष्वेकैकस्मिन् दिवा-पथ-दृष्टपदैः सपरतिपक्षैरष्टिका भजना भवति, अष्टावष्टौ भङ्गा भवन्तीत्यर्थः । तथाहि-आत्मना सहायविरहिता दिवा मार्गेण राजपुरुषैदृष्टा गच्छन्ति १ आत्मना दिवा उन्मार्गेण राजपुरुषैरदृष्टाः ४आत्मना रात्रौ मार्गेण दृष्टाः ५ आत्मना रात्रौ मार्गेणादृष्टाः ६ आत्मना रात्रौ उन्मार्गेण दृष्टाः ७ आत्मना रात्रावुन्मार्गेणाष्टा गच्छन्ति ८ । एवं चौरादिभि द्वितीयव्याख्यानापेक्षया त्वत्राणादिभि प्रतिचरकान्तैः सहायैरपि सार्द्धं गच्छतां प्रत्येकमष्टौ भङ्गाः कर्तव्याः । “एत्तो एग" इत्यादि पश्चार्द्धम्-एतेषामष्टानां भेदानां प्रत्येकमष्टविधानांमध्यादेकतरेणापिप्रकारेणेयो गमनागमनं करोति तस्याऽऽज्ञा-ऽनवस्थादयो दोषा भवन्ति। प्रायश्चित्तं चेदम्[भा.२७६८] अत्ताणमाइएसुं दिय-पह-दिडेसु चउलहू होति। राओ अपह अदिटे, चउगुरगाऽइक्कमे मूलं ।। वृ-आत्मादिष्वत्राणादिषुवा पदेषुयेदिवाविषयाः प्रथमे चत्वारो भङ्गकास्तेषुपथ-दृष्टपदाभ्यां सप्रतिपक्षाभ्यामुपलक्षितेषुतपः-कालविशेषिताश्चत्वारोलघुकाः।येतुरात्रिविषयाः पाश्चात्याश्चत्वारो भङ्गकास्तेषु अपथा-ऽष्टपदाभ्यांसप्रतिपक्षाभ्यामुपलक्षितेषुतपः-कालविशेषिताश्चत्वारोगुरुकाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy