________________
१५२
बृहत्कल्प-छेदसूत्रम् -२- १/३७
वृ- सद्यः- वर्तमानकालभावि यद् वैरं तत्र गमनादिकं न कल्पते, एवं सद्योग्रहणादतीतमनागतं च वैरं निवारितं भवति, यत्र वैरं पूर्वोत्पन्नमस्ति यत्र वा भविष्यत्तया सम्भाव्यमानं तत्रापि क्षेत्रे गमनादीनि न कर्त्तव्यानीति भावः । तथा प्रज्ञापकं प्रतीत्य 'गतं' गमनमागमनम् 'उभयं वा' गमनागमनमत्र भवति । तत्र यत्र प्रज्ञापकस्तिष्ठति ततो यदन्यत्र गम्यते तद् गमनम्, अन्यतः स्थानात् प्रज्ञापकसम्मुखं यदागम्यते तदागमनम्, गत्वा प्रत्यागमने विधीयमाने गमनागमनम् ॥ अथ वैरशब्दस्य निक्षेपमाह
[भा. २७६२]
नामं ठवणा दविए, खेत्ते काले य भाववेरे य । तं महिस-वसभ-वग्घा -सीहा नरएसु सिज्झणया ||
वृ- नामवैरं स्थापनावैरं द्रव्यवैरं क्षेत्रवैरं कालवैरं भाववैरं चेति षड्विधं वैरम् । तत्र नामस्थापनावैरे सुगमे । द्रव्यवैरं तु यद् द्रव्यनिमित्तं गोत्रजादीनां वैरमुत्पद्यते । क्षेत्रवैरं यस्मिन् क्षेत्रे यस्य वा क्षेत्रस्य हेतोर्वैरमुत्पद्यते । कालवैरं तु यस्मिन् काले वैरमुत्पद्यते, यावन्तं वा कालं वैरं वर्त्तते । भाववैरं तु पश्चार्द्धेनाह - "तं महिस" इत्यादि । तद्' इति भाववैरं “महिष-वृषभ” इत्यादिना तु दृष्टान्तसूचा । स चायम्- एगत्थ गामे गावीओ चोरेहिं गहियाओ । तओ जो गामस्स महयरगो सो कुढेण निग्गओ । अम्मियाओ गावीओ । जुद्धं संपलग्गं । चोराहिवो सेनावई महत्तरेण सह संपलग्गो । ते रुद्दज्झाणोवगया एक्कमेक्कं वहेउं मया पढमपुढवीए नारगा उववन्ना । तओ उव्वट्टा ते दो वि महिसा जाया । अन्नमन्नं पासित्ता आसुरत्ता ज्झुज्झिउं मया दुच्चं पुढविं गया । तओ उव्वट्टित्ता वसभा जाया । तेनेव वेरेणं अन्नमन्नं मारित्ता पुनो दुचं पुढविं गया । ओ उव्वट्टित्ता दो वि वग्घा जाया । तत्थ वि अन्नोन्नं वहित्ता मया तच्चं पुढविं गया । ततो उव्वट्टित्ता दो वि सीहा उववन्ना । तत्थ वि एक्क मेक्कं वहित्ता मया चउत्थपुढवीए नारगा उववन्ना । ततो उव्वट्टा दो वि मनुएसु उववन्ना । तत्थ जिनसासणं पवन्ना, सिद्धा य ॥ एतद् भाववैरं मन्तव्यम् । अत्र चानेनैवाधिकार इति ॥ वैराज्यग्रहणादेतेऽप्यर्था सूचिता भवन्तीति दर्शयति
[भा. २७६३]
अनराए जुवरा, तत्तो वेरज्जए अ वेरजे ।
एत्तो एक्विक्वम्मिउ, चाउम्मासा भवे गुरुगा ।।
वृ- अराजके यौवराज्ये तश्च वैराज्ये द्वैराज्ये चेति चतुर्णां भेदानामेकैकस्मिन् भेदे गच्छतस्तपःकालविशेषिताश्चतुर्मासा गुरुका भवेयुः । तत्र प्रथमे द्वाभ्यामपि तपः- कालाभ्यां लघवः द्वितीये कालगुरवः, तृतीये तपोगुरवः, चतुर्थे द्वाभ्यामपि गुरवः ॥ अराजकादीनामेव चतुर्णां व्याख्यानमाह[भा.२७६४] अनरायं निवमरणे, जुवराया जाव दोच्च नऽभिसित्तो ।
वेरजं तु परबलं, दाइयकलहो उ वेरजं ॥
वृ-नृपस्य प्राक्नस्य राज्ञो भरणे सञ्जते सति यावदद्यापि राजा युवराजश्चैतौ द्वावपि नाभिषिक्तौ तावदराजकं भण्यते प्राचीननृपतिना यो यौवराज्येऽभिषिक्त आसीत् तेनाधिष्ठितं राज्यम् परमनेन यावन्नाद्यापि द्वितीयो युवराजोऽभिषिक्तः तावद् यौवराज्यमुच्यते । यत्र तु 'परबलं' परचक्रमागत्य विडवरं करोति तद् वैराज्यम् । यत्र तु द्वयोर्दायकयोः-सगोत्रयोरेकराज्याभिलाषिणोः स्वस्वकटकसन्निविष्टयोः परस्परं कलहः - विग्रहस्तद् द्वैराज्यमुच्यते ॥
व्याख्यातं वैराज्यम् । अथ विरुद्धराज्यंव्याखानयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org