________________
उद्देशक : :१, मूलं- ३६, [भा. २७५७]
१५१
वृ- 'एतैः' अशिवादिभिः कारणैरेकं वा द्वे त्रीणि वा अपान्तरालक्षेत्राण्यतिक्रम्यापरं क्षेत्रं सङ्क्रामन् पूर्वोक्तैर्दोषैः स्पृष्टोऽपि न दोषवान् भवति । 'यतः ' यस्मात् तीर्थकराज्ञामसीनातिक्रामति, यद्वा 'यतो नाम' यतनायुक्तः ॥
[ भा. २७५८] निक्कारणगमणम्मिं, जे चिय आलंबणा उ पडिकुट्ठा । कज्जम्मि संकमंतो, तेहिं चिय सुज्झई जयणा ॥
वृ- 'निष्कारणे' अशिवाद्यभावे यद् गमनम् - अपान्तरालक्षेत्रपरित्यागेन क्षेत्रान्तरसङ्क्रमणं तत्र 'यान्येव' आचार्य साधु-चैत्यवन्दनादीन्यालम्बनानि 'प्रतिकुष्टानि', 'कार्ये' द्वितीयपदे ज्ञानदर्शनादिविशुद्धिनिमित्तं सङ्क्रामन् 'तैरेव' आचार्यादिभिरालम्बनैः यतनायुक्तः 'शुध्यति' अदोषभाग भवति ॥
मू. (३७) नो कप्पइ निग्गंथाण वा निग्गंथीण वा वेरज्ज-वि-रुद्धरज्जुंसि सज्जं गमणं सज्जं आगमनं सज्जं गमनागमनं करित्तए। जो खलु निग्गंथो वा निग्गंधी वा वेरज्ज-विरुद्धरज्जुंसि सज्जं गमणं सज्जं आगमनं सज्जं गमनागमनं करेइ, करितं वा साइज्जइ, से दुहओ विइक्कममाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्धाइयं ॥
[भा. २७५९] चारो त्ति अइपसंगा, विरुद्धरज्जे वि मा चरिज्जाहि । इय एसो उवधाओ, वेरज्जविरुद्धसुत्तस्य ॥
वृ- अनन्तरसूत्रे हेमन्त - ग्रीष्मयोग्रमानुग्रामं 'चारः' गमनं कर्त्त कल्पते इत्युक्तेऽतिप्रसङ्गतो विरुद्धाराज्येऽपि वर्त्तमान मा चारीदित्यभिप्रायेणेदं सूत्रमारभ्यते । एष वैराज्यविरुद्धराज्यसूत्रस्य ‘उपोद्घातः’ सम्बन्धः ।। अनेनायातस्यास्य व्याख्या -नो कल्पते निर्ग्रन्थीनां वा वैराज्य विरुद्ध राज्ये ‘सद्यः’ तत्कालं गमनं सद्य आगमनं सद्यो गमनागमनं कर्तुम् । यः खलु निर्ग्रन्थो वा निर्ग्रन्थी वा राज्य - विरुद्ध राज्ये सद्यो गमनं सद्य आगमनं सद्यो गमनागमनं करोति, कुर्वन्तं वा 'स्वादयति' अनुभोदयति, सः 'द्विधाऽपि' तीर्थकृतां राज्ञश्च सम्बन्धिनीमाज्ञामतिकामन् 'आपद्यते प्राप्नोति चातुर्मासिकं परिहारस्थानमनुद्धातिकम्, चतुर्गुरुकमित्यर्थः । इति सूत्रसङ्क्षेपार्थः ।।
अथ विस्तरार्थं भाष्यकृदाह
[भा. २७६०]
वेरं जत्थ उ रज्जे, वेरं जायं व वेररज्जुं वा ।
जं च विरज्जइ रजं, रज्जेणं विगयरायं वा ॥
वृ- यत्र राज्ये पूर्वपुरषपरम्परागतं वैरं तद् वैराज्यमुच्यते, नैरुक्ती शब्दनिष्पत्ति । यद्वा न पूर्वपुरुषपरम्परागतं परं सम्प्रति ययोराज्ययोर्वैरं 'जातम्' उत्पन्नं तद् वैराज्यम् । अथवा परकीयग्रामनगरदाहादीनि कुर्वन् यत्र राजादि वैरे - विरोधे रज्यते ताध्शं डमरं वैराज्यमुच्यते । यदि वा यद् राज्यममात्यादिप्रधानपुरुषसमूहरुपं “रज्जेणं" ति विवक्षितेन राज्ञा सह 'विरज्यते' विरक्तीभवति तद् वैराज्यम् । इष्टरुपनिष्पत्ति सर्वत्रापि निरुक्तिवशात् । यद्वा विगतः मृतः प्रोषितो वा राजा यत्र तद् विगतराजकम-अराजकमित्यर्थः, तदेव वैराज्यम् । यत्र तु द्वयोरपि राज्ञो राज्ये परस्परं गमनागमनं विरुद्धं तद् विरुद्धराज्यमुच्यते ।। अथ सद्यः प्रभृतीनि शेषपदानि व्याचष्टेसजग्गहणा तीयं, अनागयं चेव वारियं वेरं । पन्नग पडुच गयं, होजाSS गमनं व उभयं वा ॥
[भा. २७६१]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org