________________
१५०
बृहत्कल्प-छेदसूत्रम् -२-१/३६ ममाष्टपूर्वाणि' इति बुद्धा तेषां वन्दनाय गच्छति॥ - [भा.२७५४] गाहिस्सामि व नीए, सण्णी वा भिक्खुमाइ वुग्गाहे ।
बहुगुण अपुव्व देसी, बइगाइसु खीरमादीणि ॥ वृ-तथा 'निजकान्वा' संज्ञातकान् 'ग्राहयिष्यामि' बोधयिष्यामीत्यर्थः, संज्ञिनोवा' श्रावकान् 'भिक्षुकादि' तच्चन्निक-परिव्राजकादिपरपाषण्डी व्युभाहयति तेषां स्थिरीकरणार्थम्, देशो वा 'बहुगुणः' सुलभभैक्षतादिगुणोपेतोऽपूर्वश्च वर्तते, वजिकायां-गोकुले आदिशब्दात् प्रचुरद्रव्यपतिग्रामादिषु वा क्षीर-दधि-धृता-ऽवगाहिमादीनि लभ्यन्ते, एवमादिभिः कारणैर्मासकल्पप्रायोभ्याणि क्षेत्राणि परित्यजति ।। अत्र दोषान् दर्शयति[भा.२७५५] अद्धाणे उव्वाता, भिक्खोवहि साण तेन पडिनीए।
ओमाण अभोज घरे, थंडिल असतीइ जे जत्थ ।। कृतेसाधवोऽध्वनिव्रजन्तः उद्वाताः' परिश्रान्ताः सन्तश्चिन्तयन्ति-अत्रग्रामेगुरवः स्थास्यन्ति। आचार्याश्च तं ग्रामं व्यतीत्याग्रतो गताः, ततस्ते छिन्नायामाशायां व्रजन्तो यदनागाढमागाढं वा परिताप्यन्ते तन्निष्पन्नं सूरीणां प्रायश्चित्तम् । मैक्षं वा तत्र स्फिटितायां वेलायां न प्राप्येत, अत्यन्तपरिश्रान्ता तानेव वाऽपहरेयुः, प्रत्यनीको वा तदानीं विजनं मत्वा हन्याद्वा मारयेद्वा, अवमानं वा स्वपक्षतः परपक्षतो वा भवेत्, ‘अभोज्यगृहेषुवा' रजकादिसम्बन्धिषुभिक्षां गृह्णीयुः तत्रैय वा तिष्ठेयुः, ततश्च प्रवचनविराधना | स्थण्डिलानि वा तत्र न भवेयुः, तेषामभावे संयमात्मविराधना । एवं ये यत्र दोषाः सम्भवन्ति ते तत्र योजयितव्याः।। अथ द्वितीयपदमाह[भा.२७५६] बिइयपए असिवाई, उवहिस्स उ कारणा व लेवो वा।
. बहुगुणतरं व गच्छे, आयरियाई व आगाढे ॥ वृ-द्वितीयपदेऽशिवादीनि कारणानि विज्ञाय व्यतिव्रजेयुरपि । तत्र यदपान्तराले क्षेत्रं तदशिवगृहीतम्, आदिशब्दादवभौदर्य-राजद्विष्यादिदोषयुक्तं स्वाध्यायो वा तत्र न शुद्धतीत्यादिपरिग्रहः । उपधि-वस्त्र-पात्रादिरुपस्तत्र न लभ्यते, पुरोवर्तिनितु ग्रामादौ लभ्यते, अतस्तस्य कारणात्। लेपोवाअग्रतोवर्तिनि ग्रामे लभ्यतेन तत्र । गच्छस्य वा बहुगुणतरंतत्क्षेत्रम्, श्वानप्रत्यनीकाद्यभावाद् भिक्षात्रयवेलासद्भावाञ्च । आचार्यादीनां वा प्रायोग्यं तत्र विद्यते, यद्वा "आयरियाईव"त्तिसम्यक्त्वंग्रहीतुकामाः केचिदाचार्याणांदर्शनंकाङ्क्षन्ति; आदिशब्दात्परप्रवादी वा कश्चिदुद्धोषणां कारयेत्, यथा-शून्याः परप्रवादा इन्यादि; ते चाचार्या वादलब्धिसम्पन्नाः अतस्तन्निग्रहार्थं गच्छेयुः । “आगाढे" त्ति आगाढयोगवाहिनां वा प्रायोग्यमांग न प्राप्यते, परस्मिन् ग्रामे तुप्राप्यते । यद्वा आगाढं सप्तधा, तद्यथा-द्रव्यगाढं क्षेत्रागाढं कालागाढं भावागाढं पुरुषागाढं चिकित्सागाढं सहायागाढम् । तत्र द्रव्यागाढेषणीयं द्रव्यं तत्र न लभ्यते । क्षेत्रागाढं नाम तदतीव खलु (खुल) क्षेत्रम्, स्वल्पभैक्षदायकमित्यर्थः । कालागाढं तत् क्षेत्रं न ऋतुक्षमम् । भावागाढं ग्लानादिप्रायोग्यं तत्र न लभ्यते । पुरुषागाढमाचार्यादिपुरुषाणां तदकारकम् । चिकित्सागाढं वैद्यास्तत्र न प्राप्यन्ते । सहायागाढं सहायास्तत्र न सन्तीति॥ . [भा.२७५७] एएहिं कारणेहिं, एक्क-दुगंतर तिगंतरं वा वि ।
संकममाणो खेत्तं, पुट्ठो विजओ नऽइक्कमइ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org