________________
उद्देशक : १, मूलं- ३६, [भा. २७४९]
१४९
ये साधव आचाम्लेन 'दुर्बलाः' कृशीभूतशरीरास्ते 'कदा वर्षावासः पूरिष्यते ?' इत्येव निर्गमनं प्रतीक्षमाणा यत् परितापनादिकमवाप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् । क्षपका वा विकृष्टतपोनिष्टप्तवपुषो निर्गमनं प्रतीक्षन्ते; ग्लानो वा अधुनोत्थितो दुःखं तत्र तिष्ठति, चतुर्मासादूर्ध्वमप्य- बस्तानेन क्षेत्रस्य चमढिततया तथाविधपथ्याद्यभावात्; गोरसधातुको वा कश्चित् सिन्धुदेशीयः प्रव्रजितः सोऽपि गोरसाभावान्न तत्र स्थातुं शक्नोति; ततस्तेन विना यत् परिताप्यन्ते तन्निष्पन्नमनिर्गच्छतां प्रायश्चित्तम् ॥ अथ निर्गच्छन्ति ततः किं भवति ? इत्याह
[भा. २७५०] एए न होंति दोसा, बहिया सुलभं च भिक्ख उवही य । भवसिद्धिया उ वाणा, बिइयपय गिलाणमादीसु ॥
वृ- वर्षावासे पूर्णे निर्गच्छताम् 'एते' अनन्तरोक्ता दोषा न भवन्ति । 'बहिश्च' बहिर्ग्रामेषु विहरतां भैक्षं सुलभं भवति, तेन च दुर्बल क्षपकादीनामाप्यायना स्यात् । उपधिश्च बहि प्राप्यते । भवसिद्धिकाश्च सत्त्वा बोधमासादयन्ति । केचिद्वा तदानीमाचार्याणां दर्शनमभिलषन्त तेषां सर्वविरत्यादिप्रतिपत्ति । आज्ञा च भगवतां तीर्थकृत्वां कृत्वा भवति । यत एवमतो वर्षावासानन्तरं निर्गन्तव्यम् । द्वितीयपदे ग्लानादिषु कारणेषु न निर्गच्छन्ति, आदिशब्दादवमौदर्यादिपरिग्रहः । अत्र च यतना मासकल्पप्रकृते “चउभाग तिभागऽद्धे, जयंतऽनिच्छे अलंभे वा ।" इत्यादिना दर्शिता तथैव द्रष्टव्या ॥
[भा. २७५१] तम्हा उ विहरियव्वं, विहिना जे मासकप्पिया गामा ।
छड्डेइ वंदणादी, तइ लहुगा मग्गणा पत्था ॥
वृ-यदि ग्लानादिकारणंन स्यात् ततोऽवश्यं विधिना मासकल्पप्रकृतोक्तेन ये मासकल्पप्रायोग्या ग्रामास्तेषु विहर्त्तव्यम् । अथ मासकल्पप्रायोग्याणि क्षेत्राणि “चैत्यवन्दनादिभि" वक्ष्यमाणैः कारणैः छर्दयति तदा यावन्ति क्षेत्राणि परित्यज्य गच्छति तावन्ति चतर्लघुकानि । " मग्गणा पत्थ" त्ति द्वितीयपदे मासकल्पप्रायोग्यक्षेत्राणामपि परित्यागे ये गुणास्तेषां 'मार्गणा' अन्वेषणा 'पथ्या' हिता ॥ अथ वन्दनादीन्येव कारणानि प्रतिपादयति
[भा. २७५२]
•
आयरिय साहु वंदन, चेइय नीयल्लए तहा सन्नी ।
गमनं च देसदंसण, वइगासु य एवमाईणि ॥
वृ- आचार्याणां साधूनां चैत्यानां वा वन्दनार्थं गच्छति । 'निजकाः ' संज्ञातकाः 'संज्ञिनः ' श्रावकास्तेषामुभयेषामपि दर्शनार्थं देशदर्शनार्थं वा गमनं करोति । व्रजिकासु वा 'क्षीरादिकं लप्स्येऽहम्' इति कृत्वा गच्छति । एवमादीनि कारणानि मासकल्पयोग्यक्षेत्रं परित्यजन्नवलम्बते ।। अथामून्येव व्याख्यानयति
[भा. २७५३] अप्पुव्व विवित्त बहुस्सुया य परियारवं च आयरिया । परियारवज्ज साहू, चेइय पुव्वा अभिनवा वा ॥
वृ- 'अपूर्वा' अदृष्टपूर्वा 'विविक्ताः ' निरतिचारचारित्राः 'बहुश्रुता नाम' युगप्रधानागमा विचित्रश्रुता वा 'परिवारवन्तश्च' बहुसाधुसमूहपरिवृताः, एवंविधा आचार्या अमुकत्र नगरादौ तिष्ठन्ति तानहं वन्दिष्ये । साधवोऽप्येवंविधगुणोपेता एव, नवरं परिवारवर्जास्ते भवन्ति । चैत्यानि ‘पूर्वाणि वा’ चिरन्तनानि जीवन्तस्वामिप्रतिमादीनि 'अभिनवानि वा' तत्कालकृतानि, 'एतानि
Jain Education International
For Private & Personal Use Only
www.jainėlibrary.org