________________
१४८
बृहत्कल्प-छेदसूत्रम् -२-१/३५ ग्रामस्वामी कुलानि वा भद्रकाणिततस्तत्रैवतिष्ठन्ति, अथ प्रान्तान ततोऽन्यत्र गच्छन्ति।अथासौ ग्राम उत्थितः स्थण्डिलानां वा व्याघातः समजायत ततोऽन्यत्र ग्रामे गच्छन्ति । अवमानदुर्बलशय्ययोर्यतनामाह[भा.२७४५] इंदमहादी व समागतेसु परउत्थिएसु य जयंति।
पडिवसभेसु सखित्ते, दुब्बलसेज्जाए देसूनं ।। वृ- इन्द्रमहोत्सवादी वा बहुषु परतीर्थिकेषु समागतेषु स्वक्षेत्रे ये प्रतिवृषभग्रामास्तेषु अन्तरपल्लिकासु च भिक्षाग्रहणाय यतन्ते । अथ तेष्वपि न संस्तरन्ति ततोऽन्यत्र गच्छन्ति । 'दुर्बलशय्यायां' वर्षेण तीम्यमानतया वसतौ दुर्बलायां सातायां स्थूणां दद्यात् ।।
अथ वसतिप्रमार्जने विधिमाह[भा.२७४६] दोनि उ पमजणाओ, उडुम्मि वासासु तइय मज्झण्हे।
वसहिं बहुसो पमजण, अइसंघट्टऽन्नहिं गच्छे॥ वृ-वसतेरष्टसुऋतुबद्धमासेषुद्वेप्रामार्जने कर्तव्ये, तद्यथा-पूर्वाह्नेऽपराह्नेच।वर्षासुपुनस्तृतीया प्रमार्जनामध्याह्णे विधेया।अथ कुन्थुप्रभृतिभिस्त्रसप्राणैः संसक्तावसतिस्ततऋतुबद्धे वर्षावासे चयथोक्तप्रमाणादतिरिक्तमपिबहुशः प्रमार्जनं कुर्यात्। अथ बहुशःप्रमार्जने त्रसप्राणानामतीव सट्टो भवति अतिबहवो वा त्रसास्ततोऽन्यत्र ग्रामे गच्छेयुः ॥ गच्छतां च मार्गे यतनामाह[भा.२७४७] उत्तण ससावयाणिय, गंभीरानिय जलानि वजेता ।
तलियरहिया दिवसओ, अब्भासतरे वए खेत्ते।।। कृ'उत्तणानिनाम' उर्वीभूतानितृणानि दीर्धाणीति यावत्तानियत्रमार्गेभवन्ति, 'सश्चापदानि च' सिंह-व्याघ्रादिश्चापदोपेतानि यत्र तृणानि भवन्ति, 'गम्मीराणि च' अस्ताधानि जलानि यत्र भवन्ति, तान् मार्गान् वर्जयन्तः ‘तलिकारहिताः' अनुपानका दिवसतो गच्छन्ति न रात्रौ । यञ्चाभ्यासतरम्-अतिप्रत्यासन्नं क्षेत्रं तत्र व्रजन्ति॥
मू. (३६) कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंत-गिम्हासु चारए । [भा.२७४८] दुस्संचर बहुपाणादि काउ वासासुजंन विहरिंसु ।
तस्स उ विवज्जयम्मी, चरंति अह सुत्तसंबंधो । वृ-वर्षासु कर्दमाकुलतया दुःसञ्चरं बहुप्राण-हरितादिसङ्खलं वा मेदिनीतलं भवतीति कृत्वा यत् तदानीं न विहृतवन्तः, तत एव 'तस्य' वर्षावासस्य 'विपर्यये' ऋतुबद्धे काले सुसञ्चरमल्पप्राणजातीयंवा मत्वा 'चरन्ति' ग्रामानुग्रामं विहरन्ति । अथ' एषपूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्ध इति ॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्त-ग्रीष्मयोरष्टसु ऋतुबद्धपासेषु चरितुं' ग्रामानुग्रामंपर्यटितुमिति सूत्रार्थः॥
अथ नियुक्तिविस्तरः[भा.२७४९] पुन्ने अनिग्गमे लहुगा, दोसा ते चेव उग्गमादीया।
दुब्बल-खमग-गिलाणा, गोरस उवहिं पडिच्छंति॥ - वृ- यदि पूर्णे वर्षावासे ततः क्षेत्रान्न निर्गच्छन्ति ततश्चत्वारो लघुकाः त एव चोद्गमाशुद्धिस्त्रीसमुत्थादयो दोषाये मासकल्पप्रकृते दर्शिताः ।अपरेचामी दोषाः- "दुब्बल" इत्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org