________________
१५६
बृहत्कल्प-छेदसूत्रम् -२-१/३७ तर्हिन किमप्यमीषां मध्ये शोभनम्, तीर्थकरेण वा किं न प्रतिषिद्धं वैराज्यसङ्क्रमणम् ? इत्यादि । एवं च तेऽपि प्रान्तीभवन्ति । अथवा यदि त स्थानपाला भद्रका भवन्ति तदा तैर्विसर्जिताना पराराष्ट्रं प्रविष्टानां त एव दोषाः, तदेव च चतुर्गुरुकादिकं प्रायश्चित्तम्, इदं चान्यत् प्रायश्चित्तावहं दोषजालम् ।। तदेव दर्शयति
[भा. २७८० ] आयरिय उवज्झाया, कुल गण संघो य चेइयाइं च । सव्वे वि परिच्चत्ता, वेरज्जं संकमंतेणं ॥
वृ-‘आचार्या’ अर्थदातारः ‘उपाध्यायाः' सूत्रप्रदाः 'कुलं' नागेन्द्रादि ‘गणः’ परस्परसापेक्षानेककुलसमुदायः 'सङ्घः' गणसमुदायः 'चैत्यानि' भगवद्विम्बानि जिनभवनानि वा । एते आचार्यादयः सर्वेऽपि वैराज्यं सङ्कामता परित्यक्ताः । एतदेव भावयति
[भा. २७८१] किं आगय त्थ ते बिंति संति ने इत्थ आयरियमादी । उघाम रुक्खे, मा एंतु फलत्थिणो सउणा ।।
वृ- 'ते' साधवो राजपुरुषैः पृच्छयन्ते किमर्थं यूयमिहागताः स्थ ? | साधवो ब्रुवते - 'सन्ति' विद्यन्ते ‘“ने” अस्माकमिहाचार्यादयः अतो वयमागताः । ततो राजपुरुषा दृष्टान्तं वदन्ति - र - यस्मात् फलार्थिनः ‘शकुनाः' पक्षिणो वृक्षानागच्छन्ति तस्मात् तानेव वृक्षानुद्धातयामः, मा फलार्थिनः शकुना आगच्छन्तु । एतेन दृष्टान्तसामध्येर्न तानेवाचार्यादीनुद्धातयामो येन तदर्थमिह कोऽपि नागच्छति ॥ यत एते दोषा अतः
[भा. २७८२] एयारिसे विहारो, न कप्पई समणसुविहियाणं तु । दो सीइक्क मई, जिनसीमं रायसीमं च ॥
वृ- एतादृशे वैराज्ये विरुद्धराज्ये विहारः श्रमणानां सुविहितानां न कल्पते । यस्तु करोति स सीमानावतिक्रामति, तद्यथा - 'जिनसीमानं' 'न कल्पते वैराज्यसङ्क्रमणं कर्तुम्' इति लक्षणां 'राजसीमानं च ' ' न कर्त्तव्यो मदीयराज्यात् परराज्ये गमागमः' इति रूपाम् ॥ किञ्च - बंधं वहं च घोरं, आवज्जइ एरिसे विहरमाणो । तम्हा उ विवज्जेज्जा, वेरज्ज-विरुद्धसंकमणं ॥
[भा. २७८३]
वृ- 'बन्धं' निगडादिनियन्त्रणं 'वधं च ' कशाघातादिकं 'घोरं' भयानकमीद्दशे विहरमाणो यत आपद्यते तस्माद् वैराज्य विरुद्धराज्यसङ्क्रमणं विवर्जयेत् ।। अथ द्वितीयपदमाह[ भा. २७८४] दंसण नाणे माता, भत्तविसोही गिलाणमायरिए । अधिकरण वाद राय कुलसंगते कप्पई गंतुं ॥
वृ- दर्शनार्थं ज्ञानार्थं वैराज्यसङ्क्रमणमपि कुर्यात् । "माय" त्ति मातापितरौ कस्यापि प्रव्रजितुकामौ शोकेन म्रियेते तयोः समाधानार्थं गच्छेत्। “भत्तविसोहि "त्ति कश्चित् साधुर्भक्तं प्रत्याख्यातुकामः सविशोधिम् - आलोचनां दातुकामो गीतार्थस्यपार्श्वे पार्श्वे गच्छेत्, अजङ्गमस्य वा तस्य पार्श्वे गीतार्था गच्छन्ति । “गिलाण” त्ति ग्लानस्य वा प्रतिचरणार्थं प्रायोग्यौषधहेतवे वा गच्छेत् । “आयरिय’त्ति आचार्यसमीपे आचार्याणामादेशेन वा गच्छति । "अधिकरण" त्ति कस्यापि साधोः केनापि गृहिणा सहाधिकरणमुतपन्नम्, स च गृही नोपशाम्यति, ततः प्रज्ञापनालब्धिमान् तस्योपशमनाय गच्छति । “वाद” त्ति अन्यराज्ये परप्रवादी कश्चिदुत्थितः तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org