SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १, मूलं-३४, [भा. २७०८] साहुपदोसो संसारवडणो साहिकरणस्स ॥ वृ-तापो भेदोऽयशो हानिर्दर्शन-ज्ञान-चारित्राणां तथा साधुप्रद्वेषः संसारवर्द्धनो भवति । एते साधिकरणस्य दोषा भवन्तीति नियुक्तिगाथा समासार्थः ।। अथैनामेव गाथां विवृणोति[भा.२७०९] अइभणिय अभणिए वा, तावो भेदो उ जीव चरणे वा। रूवसरिसं न नीलं, जिम्हं व मने अयस एवं ।। वृ-तापो द्विधा-प्रशस्तोऽप्रशस्तश्च । तत्रातिभणिते सति चिन्तयति-धिग् मां येन तदानीं स साधुर्बहुविधैरसदभ्याख्यानैरभ्याख्यातः इत्थमित्थं चाक्रुष्टः, एषप्रशस्तस्ताप उच्यते।अथअभणितंन तथाविधं किमपि तस्य सम्मुखं भणितं ततश्चिन्तयति-हा! मन्दभाग्यो विस्मरणशीलोऽहं यद् मया तदीयं जात्यादिमर्मनिकुरुम्बं न प्रकाशितम्, एष अप्रशस्तस्तापो मन्तव्यः । तथा 'भेदो नाम कलहंकृत्वाजीवितभेदं चरणभेदंवा कुर्यु, पश्चात्तापतप्तचेतसोवैहायसादिमरणमभ्युपगच्छेयु: उनिष्क्रमणं वा कुर्युरिति भावः । तथा लोको ब्रूयात्-अहो ! अमीषां श्रमणानां रूपसध्शं' याशं बहिः प्रशान्ताकारं रूपमवलोक्यते ताशं 'शीलं' मनःप्रणिधानं नास्ति । यद्वा-किं मन्ये 'जिम' लज्जनीयं किमप्यनेन कृतं येनैवंप्रम्लानवदनो दृश्यते? ।एवमादिकमयशः समुच्छलति।। [भा.२७१०] अक्कुट्ट तालिए वा, पक्खापक्खि कलहम्मि गणभेदो । एगयर सूयएहिव, रायादीसिढे गहणादी॥ वृ-जकार-मकारादिभिर्वचनैराक्रुष्टे 'ताडिते वा' चपेटा-दण्डादिभिराहते सति ‘पक्षापक्षि' परस्परपक्षपरिग्रहेणसाधूनां कलहेजातेसतिगणभेदोभवति।तथा तयोः पक्षयोर्मध्यादेकतरपक्षण राजकुलं गत्वा 'शिष्टे' कथिते सति ‘सूचकैर्वा' राजपुरुषविशेषै राजादीनां ज्ञापिते ग्रहणाऽऽकर्षणादयो दोषा भवन्ति । [भा.२७११] वत्तकलहो विन पढइ, अवच्छलत्ते य दंसणे हानी। जह कोहाइविवड्डी, तह हानी होइ चरणे वि॥ वृ-'वृत्तकलहोऽपि' कलहकरणोत्तरकालमपि कषायकलुषितः पश्चात्तापतप्तमानसोवा यन्न पठति एषा ज्ञानपरिहाणिः । साधुप्रद्वेषतः साधर्मिकवात्सल्यं विराधितं भवति, अवात्सल्येच दर्शनपरिहानिः । यथा चक्रोधादीनांकषायाणां वृद्धिस्तथा चरणेऽपि' चारित्रस्य परिहानिर्भवति, विशुद्धसंयमस्थानप्रतिपातेनाविशुद्धसंयमस्थानेषु गमनं भवतीत्यर्थः ।। एतच्च व्यवहारमाश्रित्योक्तम् । निश्चयतस्तु[भा.२७१२] अकसायं खुचरित्तं, कसायसहितो न संजओ होइ । साहूण पदोसेन य, संसारं सो विवड्ढेइ ।। वृ-खुशब्दस्यैवकारार्थत्वाद् ‘अकषायमेव' कषायविरहितमेव चारित्रं भगवद्भिः प्रज्ञप्तम् । अतोनिश्चयनयाभिप्रायेण कषायसहितःसंयतएवनभवति, चारित्रशून्यत्वात्।तथासाधूनामुपरि यः प्रद्वेषस्तेनासौ साधिकरणः सन् संसारं वर्द्धयति, दीर्घतरंकरोतीति भावः । यत एते दोषास्तत उपेक्षा न विधेया ।। किं पुनस्तर्हि कर्तव्यम् ? इत्याह[भा.२७१३] आगाढे अहिगरणे, उवसम अवकड्डणा य गुरुवयणं । ___ उवसमह कुणह ज्झायं, छड्डणया सागपत्तेहिं ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy