________________
३९९.
उद्देशक ः ३, मूलं-८८, [भा. ३९४९] वीर्यवान् अल्पतरम्, पण्डितवीर्यवान् अल्पतमम् । स च पण्डितो द्विधा-बन्धी अबन्धी च । प्रमादादीनां कर्मबन्धहेतूनां कापि कियतां सद्भावादवश्यं बघ्नातीति बन्धी, “णिन् चावश्यकाधमर्ये" इति णिन्प्रत्ययः, तद्विपरीतो अबन्धी । तत्र प्रमत्तसंयतमादौ कृत्वा संयोगिकेवलिनं यावद् बन्धकः, अयोगिकेवली तु नियमादबन्धकः॥
गतं वीर्यद्वारम् । अथोपसंहरनाह[भा.३९५०] तम्हा न सव्वजीवा, उ बंधगा नेवबंधना तुल्ला ।
अधिकिच्च संपरागं, इरियावहिबंधगा तुल्ला ॥ वृ-यत एवंतस्मान्न सर्वेऽपिजीवा बन्धकाः।येऽपिबन्धकास्तेषामपि साम्परायं कषायप्रत्ययं कर्माधिकृत्य बन्धनं नैवतुल्यम्, रागादिवैचित्र्यतः कर्मबन्धविशेषस्यानन्तरमेव प्रसाधितत्वात्। ये तूपशान्तमोह-क्षीणमोह-सयोगिकेवलिन एर्यापथस्य-योगमात्रप्रत्ययस्य कर्मणो बन्धकास्ते परस्परं तुल्याः, एकस्यैव सातवेदनीयस्य द्विसमयस्थितिकस्य सर्वेषामपि बन्धनात् । तदेवं न योगप्रत्ययः कर्मबन्धस्याल्पबहुत्वविशेषः, किन्तु रागादितीव्र-मन्दताप्रत्ययः, ततो वस्त्रच्छेदनं कुर्वतां न कश्चिदोषः ॥अपि च[भा.३९५१] संजमहेऊ जोगो, पउज्जमाणो अदोसवं होइ।
जह आरोग्गनिमित्तं, गंडच्छेदो व विजस्स ॥ कृसंयमः-प्रत्युपेक्षणादिशुद्धिरूपस्तद्धेतुः योगः' वस्त्रच्छेदनादिव्यापारः प्रयुज्यमानोऽदोषवान् भवति । यथा 'आरोग्यनिमित्तं' रोगिणो रोगव्यपगमार्थं वैद्यस्य गण्डच्छऽदुष्ट इति । परः प्राहयद्येवंततो यथाऽहं भणामि तथा वस्त्र छिद्यताम् । कथम्? इति चेद उच्यते[भा.३९५२] भिन्नम्मि माउगंतम्मि केइ अहिकरण गहिय पडिसेहो।
एवं खुभिजमाणं, अलक्खणं होइ उहुंच॥ वृ-इह वस्त्र यतो व्यूयते तदादिभूतत्वाद् मातृकेवमातृका, अन्तश्चेह दशान्त उच्यते, मातृका चान्तश्च मातृकान्तम्, द्वन्द्वैकवद्भावः, तस्मिन् भिन्ने सति वस्त्र यद्यपि स्तेनैरपहियेत तथापि तैर्गृहीते सति नाधिकरणं भवति, उभयपार्श्वयोश्छिन्नत्वेन परिभोगाभावादित्यभिप्रायः । एवं केचिदाचार्यदेशीया भणन्ति तेषामेवं वदतांप्रतिषेधः कर्तव्यः । कथम्? इत्याह-'एवम्' अमुना प्रकारेण 'खुः' अवधृतार्थे, अवधारितोऽयमर्थ, परमेवं भिद्यमानं वस्त्रमलक्षणं भवति । भूयोऽपि परः प्राह-यद्येवंतत ऊर्द्धवं कृत्वा तद् वस्त्र द्विधा छिद्यताम् । सूरिराह-एवमप्यलक्षणदोषाश्चापरे बहवो भवन्ति, अतो नैवं छेदनीयमिति सङ्ग्रहगाथासमासार्थः । अथैनामेव विवृणोति[भा.३९५३] उभओ पासिं छिज्जउ, मा दसिया उक्किरिज एगत्तो।
. अहिकरणं नेवं खलु, उद्धो फालो व मज्झम्मि॥ वृ- परः प्राह-उभयपार्श्वयोर्वस्त्र छिद्यताम् । किं कारणम् ? इति चेद् अत आहयद्येकपार्श्वतश्छिद्यते तदा कदाचित् स्तेनैरपहियेत, ततस्ते तत्रैकतश्छिन्ने दशिका उत्किरेयुः, उत्कीर्य च तद् वस्त्र विक्रीणन्तः सदशाकतया प्रभूतं मूल्यं प्राप्नुयुः, स्वयं या तत् परिभुञ्जीरन्, ततो द्वयोरपि पार्श्वयोश्छेदनीयम्, एवंविधीयमानेऽधिकरणं न भवति । अथ नैवं भवतां विचारचर्यायां सङ्गच्छते ततो मध्ये गृहीत्वोर्ध्वः फालो विधीयताम्, उर्ध्वं द्विधा फाल्यतामिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org