________________
३९८
बृहत्कल्प-छेदसूत्रम् -२-३/८८
[भा.३९४६] संजोययते कूडं, हलं पडं ओसहे य अन्नोन्ने।
भोयणविहिं च अन्ने, तत्थ वि नाणत्तगंबहुहा॥ वृ-कश्चिद् लुब्धको मृगादीनां बन्धनाय कूटं रज्वादिना संयोजयति, अपरो हालिकादि क्षेत्रकर्षणाय हलं युगादिना योजयति, अन्यस्तु पटं पटान्तरेण सह सीवनप्रयोगेण संयुनक्ति, कश्चित्तुवैद्यादि औषधानि' हरीतकी-पिप्पलीप्रभृतीन्यन्यान्यानिपरस्परमेकतरमीलयति, अन्यस्तु 'भोजनविधि' शालि-दालि-घृत-शालनकादिकं संयुनक्ति, तत्रापि कर्मबन्धविशेषस्य बहुधा नानात्वंप्रतिपत्तव्यम्।तथाहिन्यः कूटं संयोजयतितस्य सङक्लिष्टपरिणामतया तीव्रतरःकर्मबन्धः, तदपेक्षयाहलं संयोजयतःस्वल्पतरः, पटंसंयोजयतः स्वल्पतमइत्यादि तरः कर्मबन्धः, तदपेक्षया हलंसंयोजयतः स्वल्पतरः, पटंसंयोजयतः स्वल्पतम इत्यादि स्वबुध्या सम्यगुपयुज्य वक्तव्यम्।
अथ निर्वर्तना-संयोजने द्वे अपि यत्र मस्भवतः तान्युपदर्शयति[मा.३९४७] निव्वत्तणा य संयोजणाय सगडाइएसु अभवंति।
आसज्जुत्तरकरणं, निव्वत्ती मूलकरणंतु॥ वृ-निर्वर्तना च संयोजना च शकटादिषु द्वे अपि भवतः । तथाहि-शकटाङ्गानाम्उद्धिचक्रप्रभृतीनांयाप्रथमतोघटना सा निर्वर्तना, यापुनस्तेषामेव निर्वतितानामेकत्र सङ्घातना सा संयोजना । अत्र च 'उत्तरकरणं' संयोजनारूपामुत्तरक्रियाम् ‘आसाद्य' प्रतीत्य 'निवृत्तिः' प्रथमतो निर्वर्तना मूलकरणं प्रतिपत्तव्यम् ।। गतमधिकरणद्वारम् । अथ वीर्यद्वारमाह[भा.३९४८] देहबलं खलु विरियं, लसरिसो चेव होति परिणामो।
आसज्ज देहविरियं, छट्ठाणगया तु सव्वत्तो॥ वृ-यद् ‘देहबलं' संहननजनितं शरीरसामर्थ्यतत् खलु वीर्य मन्तव्यम्। तस्य च बलस्य सश एवप्राणिनां परिणामो भवति।तथाहि-यः सेवार्तसंहननीजघन्यबलोजीवस्तस्य परिणामोऽपि शुभोऽशुभो वा मन्द एव भवति न तीव्रः, ततः शुभा-ऽशुभकर्मबन्धोऽपि तस्य स्वल्पतर एव, अत एवास्योर्द्धगतौ कल्पचतुष्टयादूर्द्धम् अधोगतौ नरकपृथ्वीद्वयादध उपपातो न भवतीति प्रवचने प्रतिपाद्यते । एवं कीलिकादिसंहननिष्वपि भावना कार्या । इदं च देहवीर्यम् ‘आसाद्य' प्राप्यषट्स्थानगताः ‘सर्वत-' सर्वेष्वपिसंहननेषुप्राणिनः पपरं भवन्ति।तथाहि-सेवार्तसंहननिषु ये सर्वजघन्यबलास्तदपेक्षया अप्नरेऽनन्तभागवृध्या असझ्यातमागवृध्या सङ्ख्यातभागवृध्या सङ्ख्यातगुणवृध्या असङ्ख्यातगुणवृध्या अनन्तगुणवृध्या वा भवन्ति, एवं कीलिकादिष्वपि । यतः षट्स्थानपतिताः प्राणिनोऽतो देबलवैचित्र्येण परिणामवैचिव्यात् कर्मबन्धोऽपि विचित्रो भवतीति स्थितम् ॥बलद्वारमेव प्रकारान्तेन व्याचष्टे[भा.३९४९] अहवा बालादीयं, तिविहं विरियं समासतो होति।
बंधविसेसो तिण्ह नि, पंडिय बंधी अबंधी य॥ वृ-अथवा वीर्यबालादिभेदात् त्रिविधम् ।तत्र बालस्य-असंयतस्य प्राणातिपाताद्यसंयमकरणे यद् वीर्यं तद् बालवीर्यम्, बालपण्डितस्य-देशविरतस्य संयमा-ऽसंयमविषयं वीर्यं बालपण्डितवीर्यम्, पण्डितस्य-सर्वविरतस्य सर्वसंयमविषयंवीर्यपण्डितवीर्यम् । एतत्रिविधंवीर्यसमासतो भवति। एषांत्रयाणामपिबन्धविशेषः, तद्यथा-बालवीर्यवान्प्रभूततरंकर्मबध्नाति, बालपण्डित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org