________________
उद्देशक : ३, मूलं - ८८, [भा. ३९४१]
बंधा बंधविसेसो, न तुल्लबंधा य जे बंधी ॥
वृ-एवमेवौपशमिके क्षायोपशमिके तथैव क्षायिके च भावे बन्धा -ऽबन्धविशेषः सम्यगुपयुज्य वक्तव्यः । येऽपि 'बन्धिनः' कर्मबन्धका जीवास्तेऽपि न तुल्यबन्धकाः, किन्तु प्रकृति- स्थित्यनुभावप्रदेशैः परस्परविसध्शकर्मबन्धकाः ॥ अथाधिकरणद्वारमाह-.
[भा. ३९४२] अहिकरणं पुव्वुत्तं, चउव्विहं तं समासओ दुविहं । निव्वत्तणता वा, संजोगे चेवऽनेगविधं ॥
३९७
वृ- अधिकरणं पूर्वं प्रथमोद्देशके यथा निर्वर्त्तना-निक्षेपणा-संयोजना-निसर्जनाभेदात् चतुर्विध मुक्तं तथैव ज्ञातव्यम् । नवरं 'तद्' अधिकरणं समसतो द्विविधं भवति । तद्यथा-निर्वर्त्तनायां 'संयोगे चैव' संयोजनायां च । पुनरेकैकमनेकविधं भवति ।।
तत्र निर्वर्त्तनाधिकरणमनेकविधमुपदर्शयति
[भा. ३९४३ ] एगो करेति परसुं, निव्वत्तेति नखछेदनं अवरो । कुंत-कणगे य वेज्झे, आरिय सूई अ अवरो उ ।।
वृ- 'एकः' लोहकारः 'पर्शु' कुठारं करोति । अपरस्तु नखच्छेदनम्, तथा कुन्तः प्रतीतः कणकःबाणविशेषः, तौ, चकारादपराण्यपि शक्ति-शूलप्रभृतीनि 'वेधकानि' परशरीरवेधकारीणि शस्त्राणि करोति । अपरस्तु लोहकार आरिकां सूचीं वा करोति । तत्र यः कुठार- कुन्तकणकादीनि करोति स तीव्रकर्मबन्धभाक् यस्तु नखच्छेदना-Sऽरिका-सूच्यादि निर्वर्त्तयति स स्वल्पकर्मबन्धक इति ।। [भा. ३९४४] सूईसुं पि विसेसो, कारणसूईसु सिव्वणीसुं च । संगामिय परियाणिय, एमेव य जाणमादीसु ॥
वृ-सूचीष्वपि विशेषो विद्यते - एकाः कारणसूच्योऽपराः सीवनसूच्यः । तत्र याः परव्यपरोपणादिकारणमुद्दिश्य कारयित्वा परस्य नखमूलादौ कुट्यन्ते ताः कारणसूच्य उच्यन्ते, तासु विधीयमानासु महान् कर्मबन्धो वति । यास्तु वस्त्रसीवनार्थं क्रियन्ते तासु स्वल्पतरः कर्मबन्धः । एवमेव च यानादिष्वपि वक्तव्यम् । तथाहि - किमपि यानं साङ्ग्रामिकं भवति, यत्रारूढैः सङ्ग्रामः क्रियते; अपरं तु 'पारियानिक' परियानं गमनं तत् प्रयोजनमस्येति पारियानिकम्, उद्यानादी यस्मिन्नारूढैर्गम्यते । तत्र साङ्ग्रामिकयानादीनि कुर्वतो महान् कर्मबन्धः, पारियानिकानि तु कुर्वाणस्याल्पतरः ।। आह यदि नाम अधिकरणमनेकविधम् ततस्तन्निमित्तः कर्मबन्धविशेषः कथमुपपद्यते ? यावता परिणामवैचित्र्यप्रत्यय एवासाविष्यत इत्याह
[भा. ३९४५] कारगकरेंतगाणं, अधिकरणं चेव तं तहा कुणति । जह परिणामविसेसो, संजायति तेसु वत्थूसु ॥
वृ- कारापक-कुर्वतोस्तदधिकरणमेव 'तथा' तेन रूपेण 'करोति' बुद्धिमुपजनयति यथा 'तेषु' पर्श-नखच्छेदनादिषु वस्तुषु कार्यमाणेषु क्रियमाणेषु च 'परिणामविशेषः ' सङ्किलष्टाSसङिकलष्टरूपमध्यवसायवैचित्र्यं सञ्जायते, यथा- कारयाम्यहमिदं पर्शु - कुन्त- कणकादिकम्, ततोऽनेन वैरिणं व्यापाद्य आत्मनः सुखमुत्पादयिष्यामीत्यादि । अतस्तत्त्वतः परिणामवैचित्र्यप्रत्यय एवात्रापि कर्मबन्धविशेष इति न किञ्चिदनुपपन्नम् ॥
उक्तं निर्वर्त्तनाधिकरणम्। अथ संयोजनाधिकरणमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org