________________
३९६
बृहत्कल्प-छेदसूत्रम् -२-३/८८ [भा.३९३६] तिव्वे मंदे नातमणाए भावाधिकरण विरिए य।
___जह दीसति नामत्तं, तह जाणसु कम्मबंधे वि ॥ वृ-हिंसादिकं पापं कुर्वतो रागादिपरिणामस्तीव्रो वा भवेद् मन्दो वा । “नायमनाए"त्तिएको हिंसादिफलविपाके व्यापाघेवा जीवेजीवतयाज्ञाते हिंसा करोति, अपरस्तुनजानातियरमेवमेव जन्तून् हिनस्ति।तथा भावः-औदयिकादि, अधिकरणं-निवर्तनादिरूपंप्रागुक्तम्, 'वीर्य' देहबलं बाल-पण्डितादिसामर्थ्यवा। एवं तीव्र-मन्दादिकं नानात्वं यथा रागादिषुश्यतेतथा कर्मबन्धेऽपि नानात्वं जानीहि इति द्वारगाथासमासार्थः ।। अथैनामेव विवरीषुराह[भा.३९३७] तिव्वेहि होति तिव्यो, रागादीएहि उवचओ कम्मे ।
मंदेहि होति मंदो, मज्झिमपरिणामतो मज्झो॥ वृ- पापं विदधानस्य यदि 'तीव्राः' सङ्क्रिमपरिणामा रागादयो भवन्ति ततस्तैस्तीव्रः कर्मणामुपचयो भवति । यदातुत एव मन्दाः-प्रतनुपरिणामाः तदा कर्मोपचयोऽपिमन्दो भवति। यदा तेषां मध्यमः परिणामः-नातितीव्रो नचातिमन्द इत्यर्थः तदा मध्यमः कर्मोपचयो भवति॥
अथ ज्ञाताज्ञातद्वारमाह[भा.३९३८] जाणं करेति एक्को, हिंसमजाणमपरो अविरतो य।
. तत्थ विबंधविसेसो, महंतरं देसितो समए॥ व-इह द्वावविरतौ, तत्रैकस्तयोर्जानन हिंसा करोति, विचिन्त्येत्यर्थः; अपरःपुनरजानन् । 'तत्रापि' तयोरपि बन्धविशेषः “महंतरं"तिमहता अन्तरेण देशितः 'समये' सिद्धान्ते।तथाहियो जानन् जीविहंसां करोति स तीव्रानुभावं बहुतरं पापकर्मोपचिनोति, इतरस्तु मन्दतरविपाकमल्पतरं तदेवोपादत्ते॥ [भा.३९३९] विरतो पुन जो जाणं, कुणति अजाणं व अप्पमत्तो वा।
तत्थ वि अज्झत्थसमा, संजायति निजरा न चयो॥ वृ-यः पुनः 'विरतः' प्राणातिपातादेर्निवृत्तः सः 'जानानोऽपि' सदोषमित्यवबुध्यमानोऽपि गीतार्थतया द्रव्य-क्षेत्राद्यागाढेषु प्रलम्बादिग्रहणेन हिंसाकरोति, यद्वान जानाति परम् ‘अप्रमत्तः' विकथादिप्रमादरहित उपयुक्तः सन् यत् कदाचित् प्राण्युपघातं करोति तत्रापि अध्यात्मसमा' चित्तप्रणिधानतुल्या निर्जरा सञ्जायते, यस्य याद्दशस्तीव्रो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य ताद्दश्येव कर्मनिर्जरा भवतीति भावः । “नचउ"त्तिन पुनः 'चयः' कर्मबन्धः सूक्ष्मोऽपि भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वात्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथञ्चिद् प्राण्युपघातसम्भवेऽप्यदुष्टत्वात् ॥अथ भावद्वारमाह[भा.३९४०] एगो खओवसमिए, वट्टति भावेऽवरो उ ओदइए।
तत्थ वि बंधविसेसो, संजायति भावनाणता ॥ वृ- ‘एकः' कोऽपिक्षायोपशमिके भावे वर्ततेषअपरश्चौदयिके, तत्रापिबन्धविशेषः सञ्जायते, भावनानात्वात्। तथाहि-य औदयिके भावे वर्तते स तीव्रतरं कर्मोपचिनोति, यस्तु क्षायोपशमिके समन्दतरमिति॥
[भा.३९४१] एमेव ओवसमिए, खओवसमिए तहेव खइए य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org