________________
३७५
उद्देशकः३, मूलं-८४, [भा. ३८२५]
वृ- 'यत्र' सलोमचर्मणि पुरुषतुल्यस्पर्शत्वाद् निर्ग्रन्थीनां चतुर्गुरुकाः प्रायाश्चित्तमुक्तं तत्र निर्ग्रन्थानांचतुर्लघुकाः। यत्रतु' निर्लोमचर्मणि निर्ग्रन्थीनां चतुर्लघुकाः तत्र निर्ग्रन्थानां चतुर्गुरुकाः, स्त्रीतुल्यस्पर्शत्वात् । परमुभयेऽपिप्रथमे ग्रहणाख्ये स्थाने द्वाभ्यां लघवः, तपसा कालेन चेत्यर्थः। ऊर्ध्वस्थाने कालगुरुवः । निषदने तपोगुरवः । त्वग्वर्तने 'द्वाभ्यामपि' तपः-कालाभ्यां गुरवः । पुस्तकपञ्चके तृणपञ्चके दूष्यपञ्चकद्वयेच निर्ग्रन्थानां निर्ग्रन्थीनांच चतुर्लघवः।आह च चूर्णिकृत्“पोत्थग-तण-दूसेसु चउलहुगा ।" अथ पुस्तकपञ्चके तावद् दोषानुपदर्शयति[भा.३८२६] संघस अपडिलेहा, भारो अहिकरणमेव अविदिन्न ।
संकामण पलिमंथो, पमाय परिकम्मणा लिहणा ॥ कृपुस्तकादिकंग्रामान्तरंनयतः स्कन्धे सङ्घर्ष स्यात्, ततश्च व्रणोत्पत्त्यादयो दोषाः । शुषिरत्वाच्च तत्र प्रत्युपेक्षणा न शुध्यति । भारो मार्गे गच्छतां भवेत्। अधिकरणंच कुन्थुपनकादिसंसक्तिलक्षणं भवति; यद्वा तत् पुस्तकं स्तेनैरपहियेत ततोऽधिकरणम् । तीर्थकरैरदत्तश्चायमुपधि । स्थानान्तरे च पुस्तकं सङ्क्रामयतः पलिमन्थः । 'प्रमादो नाम' पुस्तके लिखितमस्तीति कृत्वा न गुणयति, अगुणनाच्च सूत्रनाशादयो दोषाः । परिकर्मणायां च सूत्रार्थपरिमन्थो भवति । अक्षरलेखनं च कुर्वतः कुन्थुप्रभुतित्रसप्राणव्यपरोपणेन कृकाटिकादिबाधया च संयमा-ऽऽत्मविराधना ॥किञ्च[भा.३८२७] पोत्थग जिन दिलुतो, वग्गुर लेवे य जाल चक्के य ।
लोहित लहुगा आणादि मुयण संघट्टणा बंधे ॥ वृ-पुस्तके शुषिरतया यो जन्तूनामुपघातस्तत्र 'जिनैः' तीर्थकृद्भिर्वागुरया लेपेन जालेन चक्रेण च दृष्टान्तः कृतः । “लोहिय"त्ति यदि तेषां पुस्तकान्तर्गतानां जन्तूनां 'लोहितं' रुधिरं भवेत् ततः पुस्तकबन्धनालेऽक्षराणि परिस्पृश्य तद् रुधिरं भवेत् ततः पुस्तकबन्धनकालेऽक्षराणि परिस्पृश्य तद्धिरंपरिगलेत् । “लहुग"त्ति यावतो वारांस्तत् पुस्तकंबध्नाति मुञ्चति वा अक्षराणि वा लिखति तावन्ति चतुर्लघूनि, आज्ञादयश्च दोषाः । पुस्तकस्य मोचने बन्धे च सङ्घट्टनम्, उपलक्षणत्वात् परितापनमपद्रावणं वा यद् आपद्यते तन्निष्पन्नं प्रायश्चित्तमिति नियुक्तिगाथासमासार्थः । साम्प्रतमेनामेव विवृणोति[भा.३८२८] चउरंगवग्गुरापरिवुडो वि फिट्टेज अवि मिगो रन्ने ।
छीर खउर लेवे वा, पडिओ सउणो पलाएज्जा ।। वृ-चतुरङ्गसेनारूपा या वागुरा तया परिवृतोऽपि-समन्ताद् वेष्टितोऽपि मृगः, 'अपि' इति सम्भावनायाम्, सम्भाव्यते अयमर्थ-यत् तथाविधदक्षतादिगुणोपेतो मृगोऽरण्ये ताशादपायात् स्फिटेत्, न पुनः पुस्तकपत्रान्तरप्रविष्टा जीवाः स्फिटेयुः । तथा 'शकुनः' पक्षी, सचेह मक्षिकादि, 'क्षीरे वा' दुग्धे 'खपुरे वा' चिक्कणद्रव्ये 'लेपे वा' अवश्रावणादौ पतितोऽपि पलायेत, न पुनः पुस्तकजीवास्ततः पलायितुं शक्नुयुः ।। [भा.३८२९] सिद्धत्थगजालेण व, गहितो मच्छो वि निष्फिडेजा हि ।
तिलकीडगा व चक्के, तिला व न य ते ततो जीवा ॥ वृ-सिद्धार्थकाः-सर्षपास्तेऽपि येन जालेन गृह्यन्ते तत् सिद्धार्थकजालम् तेनापि गृहीतो मत्स्यः कदाचिद् निस्फिटेत् । तथा 'चक्रे तिलपीडनयन्त्रे प्रविष्टास्तिलकीटका वा तिला वा निर्गच्छेयुः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org