________________
३७४
बृहत्कल्प-छेदसूत्रम् -२-३/८४ एतान्येव यथाक्रमं व्याचष्टे[भा.३८२२] गंडी कच्छति मुट्ठी, छिवाडि संपुडग पोत्थगा पंच।
तिण सालि-वीहि-कोद्दव-रालग-आरनगतणं च ॥ वृ-गण्डीपुस्तकः कच्छषीपुस्तकः मुष्टिपुस्तकः सम्पुटफलकपुस्तकःछेदपाटीपुस्तकश्चेति पञ्च पुस्तकाः । एतेषां च स्वरुपमित्थमुक्तं पूर्वसूरिभिः
बाहुल्ल-पुहत्तेहिं, गंडीपोत्यो उ तुल्लगो दीहो । कच्छवि अंते तनुओ, मझे पिहुलो मुनेयव्यो। चउरंगुलदीहो वा, वट्टागिइ मुट्ठिपुत्थगो अहवा।
चउरंगुलदीहो चिय, चउरंसो होइ विन्नेओ। संपुडगो दुगमाई, फलगा वोच्छं छिवाडिमेत्ताहे ।
तनुपत्तूसियरूवो, होइ छिवाडी बुहा बिंति ॥ दीहो वा हस्सो वा, जो पिहलो होइ अप्पबाहुल्लो ।
तं मुनियसमयसारा, छिवाडिपोत्थं भणंतीह ॥ तथा शालीनां १ व्रीहीणां९ कोद्रवस्य ३ रालकस्य च ४ यानि पलालप्रायाणि तृणानि पञ्च 'आरण्यकतृणं' श्यामाकादि, एतत् तृणपञ्चकम् ।। अथ दूष्यपञ्चकद्वयं चर्मपञ्चकं चाह[भा.३८२३] कोयव पावारग दाढिआलि पूरी तधेव विरली य ।
एयं दुपेहपणयं, इणमन्नं अपडिलेहाणं ॥ [भा.३८२४] उवहाण तूलि आलिंगणी उ गंडोवहाण य मसूरा।
गो-माहिस-अय-एलग-रत्रमियाणं च चम्मं तु ॥ वृ. 'कोयविनाम' रुतपूरितः पटः, या लोके 'माणिकी' इति प्रसिद्धा । 'प्रावारकः' नेपालादिरुल्वणरोमा बृहत्कम्बलः । “दाढिगालि" ति यथा मुखमध्ये यमलितोभयदन्तपङ्क्तिरुपा दाढिकालि-दन्तावलिनिरीक्ष्यते एवं धौतपोतिकाऽपिद्विजसत्कसदशवस्त्रपरिधानरुपा दृश्यमाना दाढिकालिरिव प्रतिभातीति कृत्वा दाढिकालिखि प्रतिभातीति कृत्वा दाढिकालिरुच्यते । पूर्यतेस्तोकैरपि तन्तुभिः पूर्णीभवतीति पूरिका-स्थूलशणगुणमयपटात्मिका, ययाधान्यगोणिकाः क्रियन्ते हस्त्याद्यास्तरणानि वा । विरलिका नाम-द्विसरसूत्रपाटी । एतानि पञ्चापि सम्यक् प्रत्युपेक्षितुं न शक्यन्त इति दुःप्रत्युपेक्ष्यदूष्यपञ्चकमुच्यते । इदमन्यद् ‘अप्रत्युपेक्ष्याणां' सर्वथाऽपि प्रत्युपेक्षितुमशक्यानां दूष्याणां पञ्चकं भवति ॥ तद्यथा उपधानं हंसरोमादिपूर्णमुच्छीर्षकम् । 'तूली' संस्कृतरुतादिभृता अर्कतूलादिभृता वा प्रतीता । आलिङ्गनिका पुरुषप्रमाणा, याशयानैर्जानुकूपरादिषु दीयते । गण्डोपधान' गल्लमसूरिका । मसूरकं नाम चर्मकृतं वस्त्रकृतंवावृत्तं वूयादिपूर्ण चक्कल-गद्दिकादि । चर्मपञ्चकं पुनरिदम्-गोचर्म, माहिषचर्म, अजाः-छगलिकास्तासां चर्म, एडकाःअजविशेषास्तच्चर्म, आरण्यकाश्च ये मृगाः- हरिण-शशकादयः तेषां चर्म पञ्चमं ज्ञातव्यम् ।।
अथात्रैव प्रायश्चित्तमाह[भा.३८२५] जहिं गुराग तहिं लहुगा, जहिं लहुगा चउगुरु तहिं ठाणे ।
दोहिँ लहु कालगुरु, तवगुरुगा दोहि वी गुरुगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org